50 shlokas
- 1
द्रुपद उवाच
एवम् एतन्महाप्राज्ञ यथात्थ विदुराद्य माम्
ममापि परमो हर्षः संबन्धे ऽस्मिन्कृते विभो
drupada uvāca
evam etanmahāprājña yathāttha vidurādya mām
mamāpi paramo harṣaḥ saṃbandhe 'sminkṛte vibho
- 2
गमनं चापि युक्तं स्याद्गृहम् एषां महात्मनाम्
न तु तावन्मया युक्तम् एतद्वक्तुं स्वयं गिरा
gamanaṃ cāpi yuktaṃ syādgṛham eṣāṃ mahātmanām
na tu tāvanmayā yuktam etadvaktuṃ svayaṃ girā
- 3
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ
yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau ca puruṣarṣabhau
- 4
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ
rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
etau hi puruṣavyāghrāveṣāṃ priyahite ratau
- 5
युधिष्ठिर उवाच
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः
यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम्
yudhiṣṭhira uvāca
paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ
yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam
- 6
वैशंपायन उवाच
ततो ऽब्रवीद्वासुदेवो गमनं मम रोचते
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्
vaiśaṃpāyana uvāca
tato 'bravīdvāsudevo gamanaṃ mama rocate
yathā vā manyate rājā drupadaḥ sarvadharmavit
- 7
द्रुपद उवाच
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम
drupada uvāca
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ
prāptakālaṃ mahābāhuḥ sā buddhirniścitā mama
- 8
यथैव हि महाभागाः कौन्तेया मम सांप्रतम्
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः
yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ
- 9
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः
यद् एषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः
वैशंपायनः
कुन्ती
वैशंपायनः
विदुरः
पृथायास्तु तथा वेश्म प्रविवेश महाद्युतिः
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः
वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया
त्वत्प्रसादाज्जतुगृहे त्राताः प्रत्यागतास्तव
कूर्मश्चिन्तयते पुत्रान्यत्र वा तत्र वा गतः
चिन्तया वर्धयेत्पुत्रान्यथा कुशलिनस्तथा
तव पुत्रास्तु जीवन्ति त्वं त्राता भरतर्षभ
यथा परभृतः पुत्रान् अरिष्टा वर्धयेत्सदा
तथैव तव पुत्रास्तु मया तात सुरक्षिताः
दुःखास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया
अतः परं न जानामि कर्तव्यं ज्ञातुम् अर्हसि
इत्येवम् उक्त्वा दुःखार्ता शुशोच परमातुरा
प्रणिपत्याब्रवीत्क्षत्ता मा शोच इति भारत
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते
बान्धवैः सहिताः सर्वैर्मा शोकं कुरु माधवि
na taddhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ
vaiśaṃpāyanaḥ
kuntī
vaiśaṃpāyanaḥ
viduraḥ
pṛthāyāstu tathā veśma praviveśa mahādyutiḥ
pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ
dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhurmuhuḥ
vaicitravīrya te putrāḥ kathaṃcijjīvitāstvayā
tvatprasādājjatugṛhe trātāḥ pratyāgatāstava
kūrmaścintayate putrānyatra vā tatra vā gataḥ
cintayā vardhayetputrānyathā kuśalinastathā
tava putrāstu jīvanti tvaṃ trātā bharatarṣabha
yathā parabhṛtaḥ putrān ariṣṭā vardhayetsadā
tathaiva tava putrāstu mayā tāta surakṣitāḥ
duḥkhāstu bahavaḥ prāptāstathā prāṇāntikā mayā
ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi
ityevam uktvā duḥkhārtā śuśoca paramāturā
praṇipatyābravītkṣattā mā śoca iti bhārata
na vinaśyanti lokeṣu tava putrā mahābalāḥ
acireṇaiva kālena svarājyasthā bhavanti te
bāndhavaiḥ sahitāḥ sarvairmā śokaṃ kuru mādhavi
- 10
वैशंपायन उवाच
ततस्ते समनुज्ञाता द्रुपदेन महात्मना
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः
vaiśaṃpāyana uvāca
tataste samanujñātā drupadena mahātmanā
pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ
- 11
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्
सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान्
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान्
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम्
रथानां च सहस्रं वै सुवर्णमणिचित्रितम्
चतुर्युजां भानुमच्च पाञ्चालः प्रददौ तदा
सुवर्णपरिबर्हाणां वरचामरमालिनाम्
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः
दासीनाम् अयुतं राजा प्रददौ वरभूषणम्
ततः सहस्रं दासानां प्रददौ वरधन्विनाम्
हैमानि शय्यासनभाजनानि द्रव्याणि चान्यानि च गोधनानि
पृथक्पृथक्चैव ददौ स कोटिं पाञ्चालराजः परमप्रहृष्टः
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं वरान्
एवम् एतानि पाञ्चालो जन्यार्थे प्रददौ धनम्
हरणं तत्र पाञ्चाल्या ज्ञातिदेयं तु सौमकिः
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत
नानद्यमानो बहुभिस्तूर्यशब्दैः सहस्रशः
ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm
savihāraṃ sukhaṃ jagmurnagaraṃ nāgasāhvayam
suvarṇakakṣyāgraiveyānsuvarṇāṅkuśabhūṣitān
jāmbūnadapariṣkārānprabhinnakaraṭāmukhān
adhiṣṭhitānmahāmātraiḥ sarvaśastrasamanvitān
sahasraṃ pradadau rājā gajānāṃ varavarmiṇām
rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam
caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā
suvarṇaparibarhāṇāṃ varacāmaramālinām
jātyaśvānāṃ ca pañcāśatsahasraṃ pradadau nṛpaḥ
dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam
tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām
haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni
pṛthakpṛthakcaiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ
śibikānāṃ śataṃ pūrṇaṃ vāhānpañcaśataṃ varān
evam etāni pāñcālo janyārthe pradadau dhanam
haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ
dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata
nānadyamāno bahubhistūryaśabdaiḥ sahasraśaḥ
- 12
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रो ऽपि कौरवः
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्
śrutvā copasthitānvīrāndhṛtarāṣṭro 'pi kauravaḥ
pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān
- 13
विकर्णं च महेष्वासं चित्रसेनं च भारत
द्रोणं च परमेष्वासं गौतमं कृपम् एव च
vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
- 14
तैस्ते परिवृता वीराः शोभमाना महारथाः
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा
पाण्डवान् आगताञ्श्रुत्वा नागरास्तु कुतूहलात्
मण्डयांचक्रिरे तत्र नगरं नागसाह्वयम्
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वशः
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम्
पताकोच्छ्रितमाल्यं च पुरम् अप्रतिमं बभौ
शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः
taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ
nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā
pāṇḍavān āgatāñśrutvā nāgarāstu kutūhalāt
maṇḍayāṃcakrire tatra nagaraṃ nāgasāhvayam
muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ
dhūpitaṃ divyadhūpena maṅgalaiścābhisaṃvṛtam
patākocchritamālyaṃ ca puram apratimaṃ babhau
śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ
- 15
कौतूहलेन नगरं दीर्यमाणम् इवाभवत्
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः
kautūhalena nagaraṃ dīryamāṇam ivābhavat
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
- 16
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः
उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः
tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ
- 17
अयं स पुरुषव्याघ्रः पुनर् आयाति धर्मवित्
यो नः स्वान् इव दायादान्धर्मेण परिरक्षति
ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
yo naḥ svān iva dāyādāndharmeṇa parirakṣati
- 18
अद्य पाण्डुर्महाराजो वनाद् इव वनप्रियः
आगतः प्रियम् अस्माकं चिकीर्षुर्नात्र संशयः
adya pāṇḍurmahārājo vanād iva vanapriyaḥ
āgataḥ priyam asmākaṃ cikīrṣurnātra saṃśayaḥ
- 19
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम्
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः
kiṃ nu nādya kṛtaṃ tāvatsarveṣāṃ naḥ paraṃ priyam
yannaḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
- 20
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्
yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam
- 21
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्
tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam
- 22
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्
वैशंपायनः
दुर्योधनस्य महिषी काशिराजसुता तदा
धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा
पाञ्चालीं प्रतिजग्राह द्रौपदीं श्रीम् इवापराम्
पूजयामास पूजार्हां शचीं देवीम् इवागताम्
ववन्दे तत्र गान्धारीं माधवी कृष्णया सह
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे
परिष्वज्य च गान्धारी कृष्णां कमललोचनाम्
पुत्राणां मम पाञ्चाली मृत्युर् एवेत्यमन्यत
सा चिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा
कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम्
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते
करणेन मुहूर्तेन नक्षत्रेण तिथौ शुभे
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः
तथेत्येव तदा क्षत्ता कारयामास तत्तदा
पूजयामासुर् अत्यर्थं बान्धवाः पाण्डवांस्तदा
नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान्
भीष्मद्रोणौ तथा कर्णो बाह्लीकः ससुतस्तदा
शासनाद्धृतराष्ट्रस्य अकुर्वन्न् अतिथिक्रियाम्
एवं विहरतां तेषां पाण्डवानां महात्मनाम्
नेता सर्वस्य कार्यस्य विदुरो राजशासनात्
kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
vaiśaṃpāyanaḥ
duryodhanasya mahiṣī kāśirājasutā tadā
dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā
pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām
pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām
vavande tatra gāndhārīṃ mādhavī kṛṣṇayā saha
āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje
pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām
putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata
sā cintya viduraṃ prāha yuktitaḥ subalātmajā
kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām
pāṇḍorniveśanaṃ śīghraṃ nīyatāṃ yadi rocate
karaṇena muhūrtena nakṣatreṇa tithau śubhe
yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ
tathetyeva tadā kṣattā kārayāmāsa tattadā
pūjayāmāsur atyarthaṃ bāndhavāḥ pāṇḍavāṃstadā
nāgarāḥ śreṇimukhyāśca pūjayanti sma pāṇḍavān
bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā
śāsanāddhṛtarāṣṭrasya akurvann atithikriyām
evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām
netā sarvasya kāryasya viduro rājaśāsanāt
- 23
विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः
आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च
viśrāntāste mahātmānaḥ kaṃcitkālaṃ mahābalāḥ
āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
- 24
धृतराष्ट्र उवाच
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम
पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत्
शासनान्मम कौन्तेय मम भ्राता महाबलः
कृतवान्दुष्करं कर्म नित्यम् एव विशां पते
तस्मात्त्वम् अपि कौन्तेय शासनं कुरु माचिरम्
मम पुत्रा दुरात्मानः सर्वे ऽहंकारसंयुताः
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर
स्वकार्यनिरतैर्नित्यम् अवलिप्तैर्दुरात्मभिः
पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थम् आविश
dhṛtarāṣṭra uvāca
bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat
śāsanānmama kaunteya mama bhrātā mahābalaḥ
kṛtavānduṣkaraṃ karma nityam eva viśāṃ pate
tasmāttvam api kaunteya śāsanaṃ kuru māciram
mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ
śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira
svakāryaniratairnityam avaliptairdurātmabhiḥ
punarvo vigraho mā bhūtkhāṇḍavaprastham āviśa
- 25
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्
संरक्ष्यमाणान्पार्थेन त्रिदशान् इव वज्रिणा
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थम् आविश
धृतराष्ट्रः
वैशंपायनः
श्रीवासुदेवः
वैशंपायनः
वैशंपायनः
केशवो यदि मन्येत तत्कर्तव्यम् असंशयम्
वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन्
अभिषेकस्य संभारान्क्षत्तर् आनय माचिरम्
अभिषिक्तं करिष्यामि अद्यैव कुरुनन्दनम्
ब्राह्मणा नैगमश्रेष्ठाः श्रेणिमुख्याश्च सर्वशः
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः
पुण्याहं वाच्यतां तात गोसहस्रं तु दीयताम्
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां सहदक्षिणाः
अङ्गदे मुकुटं क्षत्तर्हस्ताभरणम् एव च
मुक्तावलीं च हारं च निष्कादीन्कुण्डलानि च
कटिबन्धं च सूत्रं च तथोदरनिबन्धनम्
अष्टोत्तरसहस्रं च ब्राह्मणाधिष्ठिता गजाः
जाह्नवीसलिलं शीघ्रम् आनयन्तां पुरोहिताः
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम्
औपवाह्योपरिगतं दिव्यचामरवीजितम्
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम्
जयेति द्विजवाक्येन स्तूयमानं नृपैस्तथा
दृष्ट्वा कुन्तीसुतं श्रेष्ठम् आजमीढं युधिष्ठिरम्
प्रीताः प्रीतेन मनसा प्रशंसन्तु पुरे जनाः
पाण्डोः कृतोपकारस्य राज्यं दत्त्वा ममैव च
प्रतिक्रिया कृतम् इदं भविष्यति न संशयः
भीष्मो द्रोणः कृपः क्षत्ता साधु साध्वित्यभाषत
युक्तम् एतन्महाराज कौरवाणां यशस्करम्
शीघ्रम् अद्यैव राजेन्द्र यथोक्तं कर्तुम् अर्हसि
इत्येवम् उक्त्वा वार्ष्णेयस्त्वरयामास तं तदा
यथोक्तं धृतराष्ट्रेण कारयामास कौरव
तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा
आगम्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः
मूर्धावसिक्तैः सहितो ब्राह्मणैर्वेदपारगैः
कारयामास विधिवत्केशवानुमते तदा
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ
बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः
अभिषेकं तदा चक्रुर्भद्रपीठे सुसंयतम्
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नरर्षभान्
राजसूयादिभिर्यज्ञैः क्रतुभिर्भूरिदक्षिणैः
स्नात्वा ह्यवभृथस्नानं मोदन्तां बान्धवैः सह
एवम् उक्त्वा तु ते सर्वे आशीर्भिः प्रत्यपूजयन्
मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः
जयेति संस्तुतो राजा प्रददौ धनम् अक्षयम्
सर्वमूर्धावसिक्तैश्च पूजितः कुरुनन्दनः
औपवाह्यम् अथारुह्य दिव्यच्छत्रेण शोभितः
राज्ञाम् अनुगतो राजा महेन्द्र इव दैवतैः
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम्
प्रविवेश तदा राजा नागरैः पूजितो भृशम्
मूर्धावसिक्तं पाण्डुसुतम् अभ्यनन्दन्त पाण्डवाः
गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः
ज्ञात्वा शोकं तु पुत्राणां धृतराष्ट्रो ऽब्रवीन्नृपम्
समक्षं वासुदेवस्य कुरूणां च समक्षतः
अभिषेकं त्वया प्राप्तं दुष्प्रापम् अकृतात्मभिः
गच्छ त्वम् अद्यैव नृप कृतकृत्यो ऽसि कौरव
आयुः पुरूरवा राजन्नहुषश्च ययातिना
तत्रैव निवसन्ति स्म खाण्डवाख्ये नृपोत्तम
राजधानी तु सर्वेषां पौरवाणां महाभुज
विनाशितं मुनिगणैर्लोभान्मुनिसुतस्य तु
तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतनिश्चयाः
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम्
पुरं राष्ट्रं समृद्धं वै धनधान्यैः समावृतम्
तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितो ऽनघ
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः
na ca vo vasatastatra kaścicchaktaḥ prabādhitum
saṃrakṣyamāṇānpārthena tridaśān iva vajriṇā
ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśa
dhṛtarāṣṭraḥ
vaiśaṃpāyanaḥ
śrīvāsudevaḥ
vaiśaṃpāyanaḥ
vaiśaṃpāyanaḥ
keśavo yadi manyeta tatkartavyam asaṃśayam
vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan
abhiṣekasya saṃbhārānkṣattar ānaya māciram
abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam
brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ
āhūyantāṃ prakṛtayo bāndhavāśca viśeṣataḥ
puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām
grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ
aṅgade mukuṭaṃ kṣattarhastābharaṇam eva ca
muktāvalīṃ ca hāraṃ ca niṣkādīnkuṇḍalāni ca
kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam
aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ
jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ
abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam
aupavāhyoparigataṃ divyacāmaravījitam
suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam
jayeti dvijavākyena stūyamānaṃ nṛpaistathā
dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram
prītāḥ prītena manasā praśaṃsantu pure janāḥ
pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca
pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ
bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata
yuktam etanmahārāja kauravāṇāṃ yaśaskaram
śīghram adyaiva rājendra yathoktaṃ kartum arhasi
ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā
yathoktaṃ dhṛtarāṣṭreṇa kārayāmāsa kaurava
tasminkṣaṇe mahārāja kṛṣṇadvaipāyanastadā
āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ
mūrdhāvasiktaiḥ sahito brāhmaṇairvedapāragaiḥ
kārayāmāsa vidhivatkeśavānumate tadā
kṛpo droṇaśca bhīṣmaśca dhaumyaśca vyāsakeśavau
bāhlīkaḥ somadattaśca cāturvedyapuraskṛtāḥ
abhiṣekaṃ tadā cakrurbhadrapīṭhe susaṃyatam
jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān
rājasūyādibhiryajñaiḥ kratubhirbhūridakṣiṇaiḥ
snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha
evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan
mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ
jayeti saṃstuto rājā pradadau dhanam akṣayam
sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ
aupavāhyam athāruhya divyacchatreṇa śobhitaḥ
rājñām anugato rājā mahendra iva daivataiḥ
tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam
praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam
mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ
gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ
jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīnnṛpam
samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ
abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ
gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava
āyuḥ purūravā rājannahuṣaśca yayātinā
tatraiva nivasanti sma khāṇḍavākhye nṛpottama
rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja
vināśitaṃ munigaṇairlobhānmunisutasya tu
tasmāttvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ
tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham
puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam
tasmādgacchasva kaunteya bhrātṛbhiḥ sahito 'nagha
rathairnāgairhayaiścāpi sahitāstu padātibhiḥ
- 26
वैशंपायन उवाच
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः
पाण्डवैः सहिता गन्तुं नार्हतेति स नागरान्
घोषयामास नगरे धार्तराष्ट्रः ससौबलः
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थम् आविशन्
vaiśaṃpāyana uvāca
pratigṛhya tu tadvākyaṃ nṛpaṃ sarve praṇamya ca
pratasthire tato ghoraṃ vanaṃ tanmanujarṣabhāḥ
pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān
ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ
ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśan
- 27
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः
मण्डयांचक्रिरे तद्वै पुरं स्वर्गवद् अच्युताः
वासुदेवो जगन्नाथश्चिन्तयामास वासवम्
महेन्द्रश्चिन्तितो राजन्विश्वकर्माणम् आदिशत्
विश्वकर्मन्महाप्राज्ञ अद्य प्रभृति तत्पुरम्
इन्द्रप्रस्थम् इति ख्यातं दिव्यं भूम्यां भविष्यति
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम्
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणम् अव्ययः
कुरुष्व कुरुराजस्य महेन्द्रपुरसंनिभम्
इन्द्रेण कृतनामानम् इन्द्रप्रस्थं महापुरम्
tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ
maṇḍayāṃcakrire tadvai puraṃ svargavad acyutāḥ
vāsudevo jagannāthaścintayāmāsa vāsavam
mahendraścintito rājanviśvakarmāṇam ādiśat
viśvakarmanmahāprājña adya prabhṛti tatpuram
indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati
mahendraśāsanādgatvā viśvakarmā tu keśavam
praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata
vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ
kuruṣva kururājasya mahendrapurasaṃnibham
indreṇa kṛtanāmānam indraprasthaṃ mahāpuram
- 28
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः
स्वस्ति वाच्य यथान्यायम् इन्द्रप्रस्थं भवत्विति
नगरं मापयामासुर्द्वैपायनपुरोगमाः
ततस्तु विश्वकर्मा तु चकार पुरम् उत्तमम्
tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ
svasti vācya yathānyāyam indraprasthaṃ bhavatviti
nagaraṃ māpayāmāsurdvaipāyanapurogamāḥ
tatastu viśvakarmā tu cakāra puram uttamam
- 29
सागरप्रतिरूपाभिः परिखाभिर् अलंकृतम्
प्राकारेण च सम्पन्नं दिवम् आवृत्य तिष्ठता
sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
prākāreṇa ca sampannaṃ divam āvṛtya tiṣṭhatā
- 30
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा
pāṇḍurābhraprakāśena himarāśinibhena ca
śuśubhe tatpuraśreṣṭhaṃ nāgairbhogavatī yathā

