Sanskrit

31 shlokas

  1. 1
  2. 2
  3. 3

    पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः

    अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः

    कर्णिकारैर् अशोकैश्च केशरैर् अतिमुक्तकैः

    तदा कुरबकैश्चैव मत्तभ्रमरकूजितैः

    चूतैर्मञ्जिरिभिश्चैव पारिजातवनैर् अपि

    परपुष्टोपसंघुष्टसंगीतैः षट्पदैर् अपि

    जम्बूदुम्बरसैहुण्डैर्वटैर् आम्रातकैर्धवैः

    नीपार्जुनकदम्बैश्च बदरैर्नागकेसरैः

    तमालैर्बिल्वकैस्तालैः पनसैर्वनकिंशुकैः

    मत्तभ्रमरसंगीतकोकिलस्वनमिश्रितम्

    हिन्तालकदलीशालैः पनसैर्वनकिंशुकैः

    बकुलैस्तिलकैस्तालैः पनसैर्वनकिंशुकैः

    palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ

    anyaiśca bahubhirvṛkṣaiḥ phalapuṣpasamṛddhibhiḥ

    karṇikārair aśokaiśca keśarair atimuktakaiḥ

    tadā kurabakaiścaiva mattabhramarakūjitaiḥ

    cūtairmañjiribhiścaiva pārijātavanair api

    parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api

    jambūdumbarasaihuṇḍairvaṭair āmrātakairdhavaiḥ

    nīpārjunakadambaiśca badarairnāgakesaraiḥ

    tamālairbilvakaistālaiḥ panasairvanakiṃśukaiḥ

    mattabhramarasaṃgītakokilasvanamiśritam

    hintālakadalīśālaiḥ panasairvanakiṃśukaiḥ

    bakulaistilakaistālaiḥ panasairvanakiṃśukaiḥ

  4. 4
  5. 5
  6. 6
  7. 7
  8. 8
  9. 9
  10. 10
  11. 11
  12. 12
  13. 13
  14. 14
  15. 15
  16. 16
  17. 17
  18. 18
  19. 19
  20. 20
  21. 21
  22. 22

    माद्र्युवाच

    विलोभ्यमानेन मया वार्यमाणेन चासकृत्

    आत्मा न वारितो ऽनेन सत्यं दिष्टं चिकीर्षुणा

    वैशंपायनः

    कुन्ती

    वैशंपायनः

    युधिष्ठिरः

    भीमः

    वैशंपायनः

    अर्जुनः

    वैशंपायनः

    यमौ

    वैशंपायनः

    तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता

    पपात सहसा भूमौ छिन्नमूल इव द्रुमः

    निश्चेष्टा पतिता भूमौ मोहे न तु चचाल सा

    तस्मिन्क्षणे कृतस्नानम् अमलाम्बरसंवृतम्

    अलंकारकृतं पाण्डुं शयानं शयने शुभे

    कुन्तीम् उत्थाप्य माद्री तु मोहेनाविष्टचेतनाम्

    एह्येहीति च तां कुन्तीं दर्शयामास कौरवम्

    पादयोः पतिता कुन्ती पुनर् उत्थाय भूमिपम्

    रक्तचन्दनदिग्धाङ्गं महारजतवाससम्

    सस्मितेन तु वक्त्रेण गदन्तम् इव भारतीम्

    परिरभ्य तदा मोहाद्विललापाकुलेन्द्रिया

    माद्री चापि समालिङ्ग्य राजानं विललाप सा

    तं तथाशायिनं पाण्डुम् ऋषयः सह चारणैः

    अभ्येत्य सहिताः सर्वे शोकाद् अश्रूण्यवर्तयन्

    अस्तं गतम् इवादित्यं संशुष्कम् इव सागरम्

    दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः

    समानशोका ऋषयः पाण्डवाश्च बुभूविरे

    ते समाश्वासिते विप्रैर्विलेपतुर् अनिन्दिते

    हा राजन्कस्य नौ हित्वा गच्छसि त्रिदशालयम्

    हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै

    निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात्

    युधिष्ठिरं भीमसेनम् अर्जुनं च यमावुभौ

    कस्मात्पुत्रान्प्रियान्हित्वा प्रयातो ऽसि विशां पते

    नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत

    यथा हि तप उग्रं ते चरितं विप्रसंसदि

    आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम्

    आजमीढाजमीढानां कर्मणा चरितां गतिम्

    ननु नाम सहावाभ्यां गमिष्यामीति नस्त्वया

    प्रतिज्ञातं कुरुश्रेष्ठ यदासि वनम् आगतः

    आवाभ्यां त्वेव सहितो गमिष्यसि विशां पते

    मुहूर्तं क्षम्यतां राजन्न् आरोक्ष्यावश्चितां तव

    विलपित्वा भृशं त्वेवं निःसंज्ञे पतिते भुवि

    यथा विद्धे हते मृग्यौ लुब्धैर्वनगते तथा

    युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपारगाः

    ते ऽप्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि

    पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः

    हा विनष्टाः स्म तातेति हा विनाथा भवामहे

    त्वद्विहीना महाप्राज्ञ कथं वर्ताम बालकाः

    लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे

    क्षणेनैव महाराज अहो लोकस्य चित्रता

    नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत

    त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तथा

    बान्धवानाम् अथाज्ञानात्प्राप्ताः स्म व्यसनं वयम्

    किं करिष्यामहे राजन्कर्तव्यं नः प्रसीदताम्

    हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना

    त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम्

    हित्वा मानं वनं गत्वा स्वयम् आहृत्य भक्षणम्

    शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम्

    पुत्रान् उत्पाद्य पितरो यम् इच्छन्ति महात्मनः

    त्रिवर्गफलम् इच्छन्तस्तस्य कालो ऽयम् आगतः

    अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत

    इत्येवम् उक्त्वा पितरं भीमो ऽपि विललाप ह

    प्रणष्टं भारतं वंशं पाण्डुना पुनर् उद्धृतम्

    तस्मिंस्तपोवनगते नष्टं राज्यं सराष्ट्रकम्

    पुनर्निस्तारितं क्षत्रं पाण्डुपुत्रैर्महात्मभिः

    एतच्छ्रुत्वा तु मोदित्वा गन्तुम् अर्हसि कौरव

    इत्येवम् उक्त्वा पितरं विललाप धनंजयः

    दुःसंचयं तपः कृत्वा लब्ध्वा नौ भरतर्षभ

    पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया

    न चावाप्तं किंचिद् एव राज्यं पित्रा यथा पुरा

    एवम् उक्त्वा यमौ चापि विलेपतुर् अथातुरौ

    mādryuvāca

    vilobhyamānena mayā vāryamāṇena cāsakṛt

    ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā

    vaiśaṃpāyanaḥ

    kuntī

    vaiśaṃpāyanaḥ

    yudhiṣṭhiraḥ

    bhīmaḥ

    vaiśaṃpāyanaḥ

    arjunaḥ

    vaiśaṃpāyanaḥ

    yamau

    vaiśaṃpāyanaḥ

    tasyāstadvacanaṃ śrutvā kuntī śokāgnidīpitā

    papāta sahasā bhūmau chinnamūla iva drumaḥ

    niśceṣṭā patitā bhūmau mohe na tu cacāla sā

    tasminkṣaṇe kṛtasnānam amalāmbarasaṃvṛtam

    alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe

    kuntīm utthāpya mādrī tu mohenāviṣṭacetanām

    ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam

    pādayoḥ patitā kuntī punar utthāya bhūmipam

    raktacandanadigdhāṅgaṃ mahārajatavāsasam

    sasmitena tu vaktreṇa gadantam iva bhāratīm

    parirabhya tadā mohādvilalāpākulendriyā

    mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā

    taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ

    abhyetya sahitāḥ sarve śokād aśrūṇyavartayan

    astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram

    dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ

    samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire

    te samāśvāsite viprairvilepatur anindite

    hā rājankasya nau hitvā gacchasi tridaśālayam

    hā rājanmama mandāyāḥ kathaṃ mādrīṃ sametya vai

    nidhanaṃ prāptavānrājanmadbhāgyaparisaṃkṣayāt

    yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāvubhau

    kasmātputrānpriyānhitvā prayāto 'si viśāṃ pate

    nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata

    yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi

    āvābhyāṃ sahito rājangamiṣyasi divaṃ śubham

    ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim

    nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā

    pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ

    āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate

    muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava

    vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi

    yathā viddhe hate mṛgyau lubdhairvanagate tathā

    yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ

    te 'pyāgatya piturmūle niḥsaṃjñāḥ patitā bhuvi

    pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ

    hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe

    tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ

    lokanāthasya putrāḥ smo na sanāthā bhavāmahe

    kṣaṇenaiva mahārāja aho lokasya citratā

    nāsmadvidhā rājaputrā adhanyāḥ santi bhārata

    tvadvināśācca rājendra rājyapraskhalanāttathā

    bāndhavānām athājñānātprāptāḥ sma vyasanaṃ vayam

    kiṃ kariṣyāmahe rājankartavyaṃ naḥ prasīdatām

    hitvā rājyaṃ ca bhogāṃśca śataśṛṅganivāsinā

    tvayā labdhāḥ sma rājendra mahatā tapasā vayam

    hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam

    śākamūlaphalairvanyairbharaṇaṃ vai tvayā kṛtam

    putrān utpādya pitaro yam icchanti mahātmanaḥ

    trivargaphalam icchantastasya kālo 'yam āgataḥ

    abhuktvaiva phalaṃ rājangantuṃ nārhasi bhārata

    ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha

    praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam

    tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam

    punarnistāritaṃ kṣatraṃ pāṇḍuputrairmahātmabhiḥ

    etacchrutvā tu moditvā gantum arhasi kaurava

    ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ

    duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha

    putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā

    na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā

    evam uktvā yamau cāpi vilepatur athāturau

  23. 23
  24. 24
  25. 25
  26. 26
  27. 27
  28. 28
  29. 29
  30. 30

    दारकेष्वप्रमत्ता च भवेथाश्च हिता मम

    अतो ऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन

    तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता

    पपात सहसा भूमौ छिन्नमूल इव द्रुमः

    निश्चेष्टा पतिता भूमौ मोहेनैव चचाल सा

    तस्मिन्क्षणे कृतस्नानं महदम्बरसंवृतम्

    अलंकारकृतं पाण्डुं शयानं शयने शुभे

    कुन्तीम् उत्थाप्य माद्री तु मोहेनाविष्टचेतनाम्

    एह्येहि कुन्ति मा रोदीः दर्शयामि स्वकौतुकम्

    पादयोः पतिता कुन्ती पुनर् उत्थाय भूमिपम्

    रक्तचन्दनदिग्धाङ्गं महारजतवाससम्

    वैशंपायनः

    कुन्ती

    माद्री

    वैशंपायनः

    ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान्

    ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः

    सुभगे बालपुत्रे तु न मर्तव्यं कथंचन

    पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परंतपान्

    अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान्

    स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि

    कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च

    माद्र्याश्च बलिनां श्रेष्ठः शल्यो भ्राता महारथः

    भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः

    युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुंगवाः

    मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता

    यमैश्च नियमैः श्रान्ता मनोवाक्कायजैः शुभैः

    भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा

    तारितश्चापि भर्ता स्याद् आत्मा पुत्रैस्तथैव च

    तस्माज्जीवितम् एवैतद्युवयोर्विद्म शोभनम्

    यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च

    आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा

    यद् आहुर्भगवन्तो हि तन्मन्ये शोभनं परम्

    भर्तुश्च मम पुत्राणां मम चैव न संशयः

    कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे

    अस्या हि न समा बुद्ध्या यद्यपि स्याद् अरुन्धती

    कुन्त्याश्च वृष्णयो नाथा कुन्तिभोजस्तथैव च

    नाहं त्वम् इव पुत्राणां समर्था धारणे तथा

    साहं भर्तारम् अन्विष्ये संतृप्ता न त्वहं तथा

    भर्तृलोकस्य तु ज्येष्ठा देवी माम् अनुमन्यताम्

    धर्मज्ञस्य कृतज्ञस्य सत्यसंधस्य धीमतः

    पादौ परिचरिष्यामि तथार्याद्यनुमन्यताम्

    एवम् उक्त्वा महाराज मद्रराजसुता शुभा

    ददौ कुन्त्यै यमौ माद्री शिरसाभिप्रणम्य च

    अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान्

    मूर्ध्न्युपाघ्राय बहुशः पार्थान् आत्मसुतौ तथा

    हस्ते युधिष्ठिरं गृह्य माद्री वाक्यम् अभाषत

    कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः

    युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा

    वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः

    तादृशा न विनश्यन्ति नैव यान्ति पराभवम्

    तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिम् अतन्द्रिताः

    ऋषीणां च पृथायाश्च नमस्कृत्य पुनः पुनः

    आयासकृपणा माद्री प्रत्युवाच पृथां ततः

    धन्या त्वम् असि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया

    वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम्

    कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाम् अमितौजसाम्

    ऋषीणां संनिधौ यैषा मया वाग् अभ्युदीरिता

    दिदृक्षमाणया स्वर्गं न ममैषा वृथा भवेत्

    आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः

    ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः

    अभ्यनुज्ञातुम् इच्छामि त्वया यादवनन्दिनि

    धर्मं स्वर्गं च कीर्तिं च त्वत्कृते ऽहम् अवाप्नुयाम्

    यथा तथा विधत्स्वेह मा च कार्षीर्विचारणाम्

    बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी

    अनुज्ञातासि कल्याणि त्रिदिवे संगमो ऽस्तु ते

    भर्त्रा सह विशालाक्षि क्षिप्रम् अद्यैव भामिनि

    संगता स्वर्गलोके त्वं रमेथाः शाश्वतीः समाः

    ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः

    हिरण्यशकलान् आज्यं तिलान्दधि च तण्डुलान्

    उदकुम्भं सपरशुं समनीय तपस्विभिः

    अश्वमेधाग्निम् आहृत्य यथान्यायं समन्ततः

    काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम्

    पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः

    तेनाग्निनादहत्पाण्डुं कृत्वा चापि क्रियास्तदा

    रुदन्शोकाभिसंतप्तः पपात भुवि पाण्डवः

    ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मजान्

    dārakeṣvapramattā ca bhavethāśca hitā mama

    ato 'nyanna prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana

    tasyāstadvacanaṃ śrutvā kuntī śokāgnidīpitā

    papāta sahasā bhūmau chinnamūla iva drumaḥ

    niśceṣṭā patitā bhūmau mohenaiva cacāla sā

    tasminkṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam

    alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe

    kuntīm utthāpya mādrī tu mohenāviṣṭacetanām

    ehyehi kunti mā rodīḥ darśayāmi svakautukam

    pādayoḥ patitā kuntī punar utthāya bhūmipam

    raktacandanadigdhāṅgaṃ mahārajatavāsasam

    vaiśaṃpāyanaḥ

    kuntī

    mādrī

    vaiśaṃpāyanaḥ

    ṛṣayastānsamāśvāsya pāṇḍavānsatyavikramān

    ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ

    subhage bālaputre tu na martavyaṃ kathaṃcana

    pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān

    adharmeṣvarthajāteṣu dhṛtarāṣṭraśca lobhavān

    sa kadācinna varteta pāṇḍaveṣu yathāvidhi

    kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca

    mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ

    bhartrā tu maraṇaṃ sārdhaṃ phalavannātra saṃśayaḥ

    yuvābhyāṃ duṣkaraṃ caitadvadanti dvijapuṃgavāḥ

    mṛte bhartari sādhvī strī brahmacarye vyavasthitā

    yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ

    bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā

    tāritaścāpi bhartā syād ātmā putraistathaiva ca

    tasmājjīvitam evaitadyuvayorvidma śobhanam

    yathā pāṇḍostu nirdeśastathā vipragaṇasya ca

    ājñā śirasi nikṣiptā kariṣyāmi ca tattathā

    yad āhurbhagavanto hi tanmanye śobhanaṃ param

    bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ

    kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe

    asyā hi na samā buddhyā yadyapi syād arundhatī

    kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca

    nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā

    sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā

    bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām

    dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ

    pādau paricariṣyāmi tathāryādyanumanyatām

    evam uktvā mahārāja madrarājasutā śubhā

    dadau kuntyai yamau mādrī śirasābhipraṇamya ca

    abhivādya maharṣīnsā pariṣvajya ca pāṇḍavān

    mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā

    haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata

    kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ

    yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā

    vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ

    tādṛśā na vinaśyanti naiva yānti parābhavam

    tasmātsarve kurudhvaṃ vai guruvṛttim atandritāḥ

    ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ

    āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ

    dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā

    vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām

    kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām

    ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā

    didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet

    āryā cāpyabhivādyā ca mama pūjyā ca sarvataḥ

    jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ

    abhyanujñātum icchāmi tvayā yādavanandini

    dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām

    yathā tathā vidhatsveha mā ca kārṣīrvicāraṇām

    bāṣpasaṃdigdhayā vācā kuntyuvāca yaśasvinī

    anujñātāsi kalyāṇi tridive saṃgamo 'stu te

    bhartrā saha viśālākṣi kṣipram adyaiva bhāmini

    saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ

    tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ

    hiraṇyaśakalān ājyaṃ tilāndadhi ca taṇḍulān

    udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ

    aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ

    kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām

    purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ

    tenāgninādahatpāṇḍuṃ kṛtvā cāpi kriyāstadā

    rudanśokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ

    ṛṣīnputrānpṛthāṃ caiva visṛjya ca nṛpātmajān