32 shlokas
- 1
वैशंपायन उवाच
ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजय
वैशंपायनः
श्रीभगवान्
वैशंपायनः
वासुदेवः
बलदेवः
वैशंपायनः
चिन्तयानस्ततो भद्राम् उपविष्टः शिलातले
रमणीये वनोद्देशे बहुपादपसंवृते
सालतालाश्वकर्णैश्च बकुलैर् अर्जुनैस्तथा
चम्पकाशोकपुंनागैः केतकैः पाटलैस्तथा
कर्णिकारैर् अशोकैश्च अङ्कोलैर् अतिमुक्तकैः
एवमादिभिर् अन्यैश्च संवृते स शिलातले
पुनः पुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम्
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श ह
बलदेवं च हार्दिक्यं साम्बं सारणम् एव च
प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम्
भानुं च निशठं चैव पृथुं विपृथुम् एव च
तथान्यांश्च बहून्पश्यन्हृदि शोकम् अधारयत्
ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे
ततो ऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः
आस्यताम् आस्यतां सर्वै रमणीये शिलातले
इत्येवम् उक्ता यतिना प्रीतास्ते यादवर्षभाः
उपोपविविशुः सर्वे सुस्वागतम् इति ब्रुवन्
ततस्तेषु निविष्टेषु वृष्णिवीरेषु पाण्डवः
आकारं गूहमानस्तु कुशलप्रश्नम् अब्रवीत्
सर्वत्र कुशलं चोक्त्वा बलदेवो ऽब्रवीद् इदम्
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि
त्वया दृष्टानि पुण्यानि वदस्व वदतां वर
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च
तीर्थानां दर्शनं चैव पर्वतानां च भारत
आपगानां वनानां च कथयामास यादवे
ताः कथाः कथयन्न् एव कथान्ते जनमेजय
कथां धर्मसमायुक्तां वृष्णिवीरे न्यवेदयत्
श्रुत्वा धर्मकथां पुण्यां वृष्णिवीरो ऽभ्यपूजयत्
ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत
अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः
आवासं कम् उपाश्रित्य वसेत निरुपद्रवः
इत्येवम् अब्रुवंस्ते वै रौहिणेयं तु यादवाः
ददृशुः कृष्णम् आयान्तं सर्वे यादवनन्दनम्
एहि केशव तातेति रौहिणेयो ऽब्रवीद्वचः
यतिलिङ्गधरो विद्वान्देशातिथिर् अयं द्विजः
वर्षरात्रनिवासार्थम् आगतो नः पुरं प्रति
स्थाने यस्मिन्निवसति तन्मे ब्रूहि जनार्दन
त्वयि स्थिते महाभाग परवान् अस्मि धर्मतः
स्वयं तु रुचिरे स्थाने वसताम् इति मां वद
सुप्रीतस्तेन वाक्येन परिष्वज्य जनार्दनम्
बलदेवो ऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान्
कन्यापुरे सुभद्राया भुक्त्वा भोजनम् इष्टतः
लतागृहेषु वसताम् इति मे धीयते मतिः
लब्धानुज्ञास्त्वया तत्र मन्यन्ते सर्वयादवाः
बलवान्दर्शनीयश्च वाग्विच्छ्रीमान्बहुश्रुतः
कन्यापुरसमीपे तु न युक्तम् इति मे मतिः
गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः
त्वयोक्तं न विरुध्ये ऽहं करिष्यामि वचस्तव
शुभाशुभस्य विज्ञाने नान्यो ऽस्ति भुवि कश्चन
अयं देशातिथिः श्रीमान्सर्वधर्मविशारदः
धृतिमान्विनयोपेतः सत्यवाग्विजितेन्द्रियः
यतिलिङ्गधरो ह्येष को विजानाति मानसम्
त्वम् इमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम्
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः
भक्ष्यैर्भोज्यैश्च पानैश्च अन्यैर् इष्टैश्च पूजय
स तथेति प्रतिज्ञाय सहितो यतिना हरिः
कृत्वा तु संविदं तेन प्रहृष्टः केशवो ऽभवत्
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ
तां पुरीं प्रविवेशाथ गृह्य हस्ते च पाण्डवम्
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम्
पार्थम् आवेदयामास रुक्मिणीसत्यभामयोः
हृषीकेशवचः श्रुत्वा ते उभे ऊचतुर्भृशम्
मनोरथो महान् एष हृदि नः परिवर्तते
कदा द्रक्ष्याम बीभत्सुं पाण्डवं गृहम् आगतम्
इति चिन्तयमानानां पार्थो दुःखम् अपानुदत्
प्राप्तम् अज्ञातपूजाभिर् उत्तमाभिर् अपूजयत्
स तं प्रियातिथिश्रेष्ठं समीक्ष्य यतिम् आगतम्
सोदर्यां भगिनीं कृष्णः सुभद्राम् इदम् अब्रवीत्
अयं देशातिथिर्भद्रे संयतो व्रतवान् ऋषिः
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन्
आर्येण च परिज्ञातः पूजनीयो यतिः सदा
तस्माद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा
एष यद्यद् ऋषिर्ब्रूयात्कार्यम् एव न संशयः
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी
पुरापि यतयो भद्रे ये भैक्षार्थम् अनुव्रताः
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः
तेभ्यो भोज्यानि भक्ष्याणि यथाकालम् अतन्द्रिताः
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथात्थ माम्
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम्
एवम् एतेन रूपेण कंचित्कालं धनंजयः
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः
तस्य सर्वगुणोपेतां वासुदेवसहोदराम्
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः
गूहयन्न् इव चाकारम् आलोक्य वरवर्णिनीम्
दीर्घम् उष्णं निशश्वास पार्थः कामवशं गतः
न कृष्णां रूपतो मेने वासुदेवसहोदराम्
प्राप्तां हृदीन्द्रसेनां वा साक्षाद्वा वरुणात्मजाम्
अतीतसमये काले सोदर्याणां धनंजयः
न सस्मार सुभद्रायाः कामाङ्कुशनिवारितः
क्रीडारतिपरां भद्रां सखीजनशतैर्वृताम्
प्रीयते स्मार्जुनः पश्यन्स्वाहाम् इव हुताशनः
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता
उपमाम् अर्जुनं कृत्वा विस्तरः कथितः पुरा
क्रुद्धमत्तप्रलापश्च वृष्णीनाम् अर्जुनं प्रति
पौरुषाण्युपमां कृत्वा प्रावर्धन्त धनुष्मताम्
अन्योन्यकलहे चापि विवादे चापि वृष्णयः
अर्जुनो ऽपि न मे तुल्यः कुतस्त्वम् इति ते ऽब्रुवन्
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयो ऽब्रुवन्
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम्
सत्यसंधस्य रूपेण चातुर्येण च मोहिता
चारणातिथिसंघानां गदस्य च निशम्य सा
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम्
तं तम् एव सदा भद्रा बीभत्सुं स्माभिपृच्छति
अभीक्ष्णशः परिप्रश्नाद् अभीक्ष्णश्रवणात्तथा
प्रत्यक्ष इव भद्रायाः पाण्डवः समपद्यत
भुजौ भुजगसंकाशौ ज्याघातेन किणीकृतौ
पार्थो ऽयम् इति पश्यन्त्या निःसंशयम् अजायत
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम्
तथारूपम् अवेक्ष्यैनं परां प्रीतिम् अवाप सा
सा कदाचिद् उपासीनं पप्रच्छ कुरुनन्दनम्
कथं देशाः कथं शैला नानाजनपदाः कथम्
सरांसि सरितश्चैव वनानि च कथं यते
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा
स तथोक्तस्तदा भद्रां बहुनर्मानृतं ब्रुवन्
उवाच परमप्रीतस्तस्या बहु तथा कथाः
निशम्य विविधं तस्य लोके चरितम् आत्मनः
कथापरिगतो भावः कन्यायाः समपद्यत
पर्वसंधौ च कस्मिंश्चित्सुभद्रा भरतर्षभम्
रहस्येकान्तम् आसाद्य हृष्यमाणाभ्यभाषत
यतिना चरता लोकान्खाण्डवप्रस्थवासिनी
कच्चिद्भगवता दृष्टा पृथास्माकं पितृष्वसा
भ्रातृभिः प्रयतैः सर्वैः कच्चिद् आर्यो युधिष्ठिरः
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः
निवृत्तसमयः कच्चिद् अपराधाद्धनंजयः
नियमे कामभोगानां वर्तमानः प्रियेतरे
क्व नु पार्थश्चरत्यद्य बह्वीर्दुर्वसतीर्वसन्
सुखोचितो ह्यदुःखार्हो दीर्घबाहुर् अरिंदमः
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवतार्जुनः
निशम्य वचनं तस्यास्ताम् उवाच हसन्न् इव
आर्ये पृथा च कुशला सपुत्रा च सहस्नुषा
प्रीयते पश्यती पुत्रान्कुरुक्षेत्रं च पश्यती
अनुज्ञातस्तु मात्रा च सोदर्यैस्तु धनंजयः
द्वारकाम् आवसत्येको यतिलिङ्गेन पाण्डवः
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि
निशम्य वचनं तस्य वासुदेवसहोदरा
निःश्वासबहुला तस्थौ क्षितिं विलिखती तदा
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः
अर्जुनो ऽहम् इति प्रीतस्ताम् उवाच धनंजयः
यथा तव गतो भावः श्रवणान्मयि भामिनि
त्वद्गतः सततं भावस्तथा शतगुणो मम
प्रशस्ते ऽहनि धर्मेण भद्रे स्वयम् अहं वृतः
सत्यवान् इव सावित्र्या भविष्यामि पतिस्तव
एवम् उक्त्वा ततः पार्थः प्रविवेश लतागृहम्
ततः सुभद्रा ललिता लज्जाभावसमन्विता
मुमोह शयने दिव्ये शयाना नतथोचिता
कन्यापुरे च संवृत्तं ज्ञात्वा दिव्येन चक्षुषा
शशास रुक्मिणीं कृष्णो भोजनादिकम् अर्जुने
तदा प्रभृति तां भद्रां चिन्तयन्वै धनंजयः
आस्ते स्म स तदारामे कार्येणैव सहाभिभूः
सुभद्रापि न च स्वस्था पार्थं प्रति बभूव सा
कृशा विवर्णवदना चिन्ताशोकपरायणा
निःश्वासपरमा भद्रा मानसेन मनस्विनी
न शय्यासनभोगेषु रतिं विन्दति केनचित्
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना
एवं शोकपरां भद्रां देवकी वाक्यम् अब्रवीत्
मा शोकं कुरु वार्ष्णेयि धृतिम् आलम्ब शोभने
निवेदयिष्ये त्वां रामे कृष्णे चैव नरर्षभे
पश्चाज्जानामि ते वार्त्तां मा शोकं कुरु माधवि
एवम् उक्त्वा च सा माता भद्रायाः प्रियकामिनी
निवेदयामास तदा भद्राम् आनकदुन्दुभेः
रहस्येकासना तत्र भद्रास्वस्थेति चाब्रवीत्
आरामे तु यतिः श्रीमान् अर्जुनः सो ऽथ नः श्रुतः
अक्रूराय च कृष्णाय आहुकाय च सात्यके
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तदा
निवेदयित्वा कृष्णाय मन्त्रयामास नैकधा
इदं कार्यम् इदं कृत्यम् इदम् एवं विनिश्चितम्
अक्रूरश्चोग्रसेनश्च सत्यकश्च गदेन च
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना सह
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा
वासुदेवेन सहिताः पुरोहितमते स्थिताः
विवाहं मन्त्रयामासुर्द्वादशे ऽहनि भारत
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः
महादेवस्य पूजार्थं महोत्सवम् इति ब्रुवन्
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये
नगरे घोषयामास हितार्थं सव्यसाचिनः
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम्
सदारैः सानुयात्रैश्च सपुत्रैश्च सबान्धवैः
गन्तव्यं सर्ववर्णैश्च गन्तव्यं सर्वयादवैः
एवम् उक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः
ततः सर्वदशार्हाणाम् अन्तर्द्वीपे तु भारत
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः
ततस्त्वरितम् आगम्य दाशार्हगणपूजितम्
सुभद्रा पुण्डरीकाक्षम् अब्रवीद्यतिशासनात्
कृत्यवान्द्वादशाहानि स्थाता स भगवान् इह
तिष्ठतस्तस्य कः कुर्याद् उपस्थानविधिं प्रति
ताम् उवाच हृषीकेशः कस्त्वद् अन्यो विशेषतः
तम् ऋषिं प्रत्युपस्थातुम् इतो नार्हति मानवः
त्वम् एवास्मन्मतेनास्य महर्षेर्वशवर्तिनी
कुरु सर्वाणि कार्याणि कीर्तिं धर्मम् अवेक्ष्य च
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम्
संविधानपरा भद्रे भव त्वं वशवर्तिनी
एवम् आदिश्य भद्रां च रक्षां च मधुसूदनः
ययौ शङ्खप्रणादेन भेरीणां च महास्वनैः
ततस्तद्द्वीपम् आसाद्य दानधर्मपरायणाः
उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः
सप्तयोजनविस्तार आयतो दशयोजनम्
बभूव स महाद्वीपः सपर्वतमहावनः
सेतुपुष्करिणीजालैर् आक्रीडः सर्वसात्वताम्
वापीपल्वलसंघैश्च काननैश्च मनोरमैः
वासुदेवसमैर्द्वीपः स सर्वैः कुकुरान्धकैः
बभूव परमोपेतस्त्रिविष्टप इवामरैः
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः
उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः
विचित्रमाल्याभरणाश्चित्ररूपानुलेपनाः
विहाराभिमुखाः सर्वे यादवाः पानसंयुताः
सुनृत्तगीतवादित्रै रममाणास्ततो ऽभवन्
तत्र याते दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि
सुभद्रोद्वाहनं पार्थः प्राप्तकालम् अमन्यत
वृष्ण्यन्धकपुरात्तस्माद् अपयानं च पाण्डवः
विनिश्चित्य ततः पार्थः सुभद्राम् इदम् अब्रवीत्
शृणु भद्रे यथाशास्त्रं यथार्थम् ऋषिभिः कृतम्
कन्यायास्तु पिता भ्राता माता मातुल एव च
पितृभ्राता गुरुश्चापि दाने तु प्रभुतां गतः
महोत्सवं पशुपतेर्द्रष्टुकामः पिताहुकः
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः
मम चैव विशालाक्षि विदेशस्थास्तु बान्धवाः
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमो भवेत्
समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा
वरम् आहूय विधिना पितृदत्ता यथार्थिने
सा पत्नी तु बुधैर् उक्ता सा तु वश्या पतिव्रता
भृत्यानां भरणार्थाय आत्मनः पोषणाय च
दारे स्थिते गृहीता सा भार्या चेति बुधैर्मता
धर्मतो वरयित्वा तु आनीय स्वं निवेशनम्
न्यायेन दत्ता तारुण्ये दाराः पितृकृता भवेत्
जनयेद्या तु भर्तारं जाया इत्येव नामतः
दाराः पत्नी च भार्या च जाया चेति चतुर्विधाः
चतस्र एवाग्निसाक्ष्याः क्रियायुक्तास्तु धर्मतः
गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात्
आत्मनानुगृहीता या सा तु वश्या प्रजावती
गान्धर्वस्तु क्रियाहीनो रागाद् एव प्रवर्तते
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः
मयोक्तम् अक्रियं चापि कर्तव्यं माधवि त्वया
अयनं चैव मासश्च ऋक्षं पक्षस्तथा तिथिः
करणं च मुहूर्तं च लग्नसंपद्यथाद्य वै
विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम्
वैशाखश्चैव मासानां पक्षाणां शुभ्र एव च
नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा
मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि
सर्वसंपद् इयं भद्रे अद्य रात्रौ भविष्यति
भगवान् अस्तम् अभ्येति तपनस्तपतां वरः
नारायणो हि सर्वज्ञो नानुबुध्येत विश्वकृत्
धर्मसंकटम् आपन्ने किं नु कृत्वा शुभं भवेत्
मनोभवेन कामेन मोहितं मा प्रलापिनम्
प्रतिवाक्यं तु मे देहि किं न वक्ष्यसि माधवि
अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम्
नोवाच किंचिद्वचनं बाष्पदूषितलोचना
रागोन्मादप्रलापी स्याद् अर्जुनो जयतां वरः
चिन्तयामास पितरं प्रविश्य च लतागृहम्
चिन्तयानं तु कौन्तेयं ज्ञात्वा शच्या शचीपतिः
सहितो नारदाद्यैस्तु मुनिसिद्धाप्सरोगणैः
अरुन्धत्या वसिष्ठेन आजगाम कुशस्थलीम्
चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः
निद्रयापहृतज्ञानं रौहिणेयं विना तदा
सहाक्रूरेण शिनिना सत्यकेन गदेन च
वसुदेवेन देवक्या आहुकेन च धीमता
आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः
पूजयित्वा तु देवेशं नारदाद्यैर्महर्षिभिः
कुशलप्रश्नम् उक्त्वा तु देवेन्द्रेणाभियाचितः
वैवाहिकक्रियां कृष्णस्तथेत्येवम् उवाच ह
आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः
अभिप्रणम्य शिरसा पाकशासनम् अब्रुवन्
देवदेव नमस्ते ऽस्तु लोकनाथ जगत्पते
वयं धन्याः स्म लोकेषु बान्धवैः सहिता विभो
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित्
एवम् उक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः
महेन्द्रशासनात्सर्वे सहिताश्च महर्षिभिः
विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः
अरुन्धती शची देवी रुक्मिणी देवकी तथा
दिव्यस्त्रीभिश्च सहिताः क्रियां भद्रां प्रयोजयन्
महर्षिः काश्यपो होता सदस्या नारदादयः
पुण्याशिषः प्रयोक्तारः सर्वे ह्यासंस्तदार्जुने
अभिषेकं ततः कृत्वा महेन्द्रः पाकशासनिम्
लोकपालैस्तु सहितः सर्वैर्देवैर् अभिष्टुतः
किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः
भूषयित्वा तु तं पार्थं द्वितीयम् इव वासवम्
पुत्रं परिष्वज्य तदा प्रीतिम् आप पुरंदरः
शची देवी तथा भद्राम् अरुन्धत्यादिभिस्तदा
कारयामास वैवाह्यं मङ्गल्यं यादवस्त्रियः
सहाप्सरोभिर्मुदिता भूषणैश्चाभ्यपूजयन्
पौलोमीम् इव मन्यन्ते सुभद्रां देवयोषितः
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः
तस्याः पाणिं गृहीत्वा तु मन्त्रहोमपुरस्कृतम्
यथा तस्यैव हि पिता शच्या इव शतक्रतुः
सा जिष्णुम् अधिकं भेजे सुभद्रा चारुदर्शना
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा
सुभद्रायाश्च पार्थो ऽपि सदृशो रूपलक्षणैः
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः
एवं निवेश्य देवास्तु गन्धर्वैः साप्सरोगणैः
आमन्त्र्य यादवान्सर्वे विप्रजग्मुर्यथागतम्
यादवाः पार्थम् आमन्त्र्य अन्तर्द्वीपं गतास्तदा
वासुदेवस्तदा पार्थम् उवाच यदुनन्दनः
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ
मामकं रथम् आरुह्य सैन्यसुग्रीवयोजितम्
सुभद्रया सुखं पार्थ खाण्डवप्रस्थम् आविश
यादवैः सहितः पश्चाद् आगमिष्यामि भारत
यतिवेषेण निरतो वस त्वं रुक्मिणीगृहे
एवम् उक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः
कृतोद्वाहस्तदा पार्थः कृतकार्यो ऽभवत्तदा
तस्यां चोपगतो भावः पार्थस्य सहसागतः
स तया युयुजे वीरो भद्रया भरतर्षभः
अभिनिष्पन्नया रामः सीतयेव समन्वितः
स हि जिष्णुर्विजज्ञे तां ह्रीं श्रियं संनतिक्रियाम्
द्वादशानां वरस्त्रीणां रूपेणासदृशीं सतीम्
स प्रकृत्या श्रिया दीप्तः संदिदीपे तयाधिकम्
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः
सा तु तं मनुजव्याघ्रम् अनुरक्ता मनस्विनी
कन्यापुरगता भूत्वा तत्परा समपद्यत
वृष्ण्यन्धकपुरात्तत्र अपयानं धनंजयः
विनिश्चित्य तया पार्थः सुभद्राम् इदम् अब्रवीत्
द्विजानां गणमुख्यानां यथार्हं प्रतिपादय
भक्ष्यैर्भोज्यैश्च कामैश्च प्रयच्छ प्रतियास्यताम्
आत्मनश्च समुद्दिश्य महाव्रतसमापनम्
गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम्
तेजोबलजवोपेतै रत्नैर्हयवरोत्तमैः
सैन्यसुग्रीवसंयुक्तं रथं तूर्णम् इहानय
क्रीडार्थम् इति भाषित्वा सखीभिः सुभगे सह
क्षिप्रम् आदाय पर्येहि रथं सर्वायुधानि च
अनुकर्षान्पताकाश्च तूणीरांश्च धनूंषि च
सर्वान्रथवरे कुर्याः सोत्सेधाश्च महागदाः
अर्जुनेनैवम् उक्ता तु सुभद्रा भद्रभाषिणी
जगाम नृपतेर्वेश्म सखीभिस्त्वरिता सह
क्रीडार्थम् इव तत्रस्थान्रक्षिणो वाक्यम् अब्रवीत्
रथेनानेन यास्यामि महाव्रतसमापनम्
सैन्यसुग्रीवयुक्तेन सायुधेन च शार्ङ्गिणः
सुभद्रयैवम् उक्ते तु जनाः प्राञ्जलयो ऽब्रुवन्
रथेनानेन भद्रे त्वं यथेष्टं क्रियताम् इति
योजयित्वा रथवरं कल्याणैर् अभिभाष्य ताम्
यथोक्तं सर्वम् आरोप्य सखीभिः सह भामिनी
क्षिप्रम् आदाय कल्याणी सुभद्रार्जुनम् अब्रवीत्
रथो ऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात्
स्वस्ति याहि यथाकामं कुरून्कौरवनन्दन
निवेद्य तं रथं भर्तुः सुभद्रा भद्रसंमता
ब्राह्मणेभ्यो ददौ हृष्टा तदा सा विविधं वसु
स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च
यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च
तर्पिता विविधैर्भक्ष्यैस्तान्यवाप्य वसूनि च
ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः
सुभद्रया तु विज्ञप्तः पूर्वम् एव धनंजयः
रश्मिप्रग्रहणे पार्थ न मे ऽस्ति सदृशो भुवि
तस्मात्सा पूर्वम् आरुह्य रश्मीञ्जग्राह माधवी
सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान्
वर्जयित्वा तु तल्लिङ्गं समुच्छ्रितमहाधनुः
आरुरोह रथश्रेष्ठं शुक्लवासा धनंजयः
महेन्द्रदत्तमुकुटं तथा ह्याभरणानि च
अलंकृत्य तु कौन्तेयः प्रयातुम् उपचक्रमे
ततः कन्यापुरे घोषस्तुमुलः समपद्यत
दृष्ट्वा रथगतं पार्थं खड्गपाणिं धनुर्धरम्
अभीशुहस्तां सुश्रोणीम् अर्जुनेन रथे स्थिताम्
ऊचुः कन्यापुरे कन्या वासुदेवसहोदराम्
सर्वे कामाः समृद्धास्ते सुभद्रे भद्रभाषिणि
वासुदेवप्रियं लब्ध्वा भर्तारं वीरम् अर्जुनम्
सर्वसीमन्तिनीनां त्वं श्रेष्ठा कृष्णसहोदरे
यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः
उपपन्नस्त्वया वीरः सर्वलोकमहारथः
स्वस्ति याहि गृहं भद्रे सुहृद्भिः संगमो ऽस्तु ते
एवम् उक्ता प्रहृष्टाभिः सखीभिः परिनन्दिता
भद्रा भद्रजवोपेतान्पुनर् अश्वान् अचोदयत्
ततश्चामरहस्ता सा सखी कुब्जाङ्गनाभवत्
ततः कन्यापुरद्वारात्सघोषम् अभिनिःसृतम्
ददृशुस्तं रथश्रेष्ठं जना जीमूतनिःस्वनम्
सुभद्रासंगृहीतस्य रथस्य महतो रवम्
मेघस्वनम् इवाकाशे शुश्रुवुः पुरवासिनः
सुभद्रया च सम्पन्ने तिष्ठन्रथवरे ऽर्जुनः
प्रबभौ परयोपेतः कैलास इव गङ्गया
पार्थः सुभद्रासहितो विरराज महारथः
पार्थस्येव पिता शक्रो यथा शच्या समन्वितः
सुभद्रां प्रेक्ष्य धर्मेण ह्रियमाणां यशस्विनीम्
चक्रुः किलकिलाशब्दम् आसाद्य बहवो जनाः
दाशार्हाणां कुलस्य श्रीः सुभद्रा भद्रभाषिणी
अभिकामा सकामेन पार्थेन सह गच्छति
अथापरे हि संक्रुद्धा गृह्णीत घ्नत माचिरम्
इति संवार्यमाणानां स नादः सुमहान् अभूत्
स तेन जनघोषेण वीरो गज इवार्दितः
ववर्ष शरवर्षाणि न तु कंचन रोषयत्
मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा
प्रासादवरसंघेषु हर्म्येषु भवनेषु च
प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च
मुमोच निशितान्बाणान्न च कंचन रोषयत्
क्षोभयित्वा पुरश्रेष्ठं गरुत्मान् इव सागरम्
प्रेक्षन्रैवतकद्वारं निर्ययौ भरतर्षभः
शासनात्पुरुषेन्द्रस्य बलेन महता बली
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः
संबभूव तदा गोप्ता पुरस्य पुरवर्धनः
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः
निशम्य पुरनिर्घोषं स्वम् अनीकम् अचोदयत्
सो ऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम्
निःसृतं द्वारकाद्वाराद् अंशुमन्तम् इवाम्बुदात्
सविद्युतम् इवाम्भोदं प्रेक्ष्य बाणधनुर्धरम्
पार्थम् आसाद्य योधानां विस्मयः समपद्यत
उदीर्णरथनागाश्वम् अनीकम् अभिवीक्ष्य तत्
उवाच परमप्रीता सुभद्रा भद्रभाषिणी
संग्रहीतुम् अभिप्रायो दीर्घकालकृतो मम
युध्यमानस्य संग्रामे रथं तव नरर्षभ
ओजस्तेजोद्युतिबलैर् आचितस्य महात्मनः
पार्थस्य वै सारथित्वे भवेथा इत्यशिक्षयन्
एवम् उक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः
चोदयाश्वान् असंसक्तान्विशन्तु विपृथोर्बलम्
बहुभिर्युध्यमानस्य तावकानां जिघांसतः
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम
एवम् उक्ता ततो भद्रा पार्थेन भरतर्षभ
चुचोद चाश्वान्विश्रब्धा ततस्ते विविशुर्बलम्
तदाहतमहावाद्यं समुदग्रध्वजायुतम्
अनीकं विपृथोर्हृष्टं पार्थम् एवान्ववर्तत
रथैर्बहुविधैर्हृष्टाः सदश्वैश्च महाजवैः
किरन्तः शरवर्षाणि परिवव्रुर्धनंजयम्
तेषाम् अस्त्राणि संवार्य दिव्यैर् अस्त्रैर्महास्त्रवित्
आवृणोन्महद् आकाशं शरैः परपुरंजयः
तेषां बाणान्महाबाहुर्मकुटान्यङ्गदान्यपि
चिछेद निशितैर्बाणैः शरांश्चैव धनूंषि च
युगानीषा वरूथानि यन्त्राणि विविधानि च
अजिघांसन्परान्पार्थश्चिछेद निशितैः शरैः
निर्धनुष्कान्विकवचान्विरथांश्च महारथान्
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यताम् इत्यदर्शयत्
सा दृष्ट्वा महद् आश्चर्यं सुभद्रा पार्थम् अब्रवीत्
अवाप्तार्थास्मि भद्रं ते याहि पार्थ यथासुखम्
संसक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम्
त्वरमाणो ऽभिसंक्रम्य स्थीयताम् इत्यभाषत
तत्तु सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः
सागरे मारुतोद्धूता वेलाम् इव महोर्मयः
ततो रथवरात्तूर्णम् अवरुह्य नरर्षभः
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे
सो ऽब्रवीत्पार्थम् आसाद्य दीर्घकालम् इदं तव
निवासम् अभिजानामि शङ्खचक्रगदाधरात्
न मे ऽस्त्यविदितं किंचिद्यद्यद् आचरितं त्वया
सुभद्रासंप्रयोगेन प्रीतस्तव जनार्दनः
प्राप्तस्य यतिलिङ्गेन द्वारकां तु धनंजय
विसृष्टा सर्ववृष्णीनाम् ऋषभेण च सोदरा
त्वम् इमां वीर दाशार्हां शचीम् इव शचीपतिः
भक्तां गुणवतीं भद्रां सदा सत्कर्तुम् अर्हसि
बन्धुर्भव सुभद्राया गतिश्च त्वं धनंजय
बन्धुमान् असि रामेण महेन्द्रावरजेन च
माम् एव हि सदाकार्षीन्मन्त्रिणं मधुसूदनः
अन्तरेण सुभद्रां च त्वां च तात धनंजय
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम्
इदम् एवानुयात्रं च निर्दिश्य गदपूर्वजः
अन्तर्द्वीपं तदा वीर यातो वृष्णिसुखावहः
दीर्घकालावरुद्धं त्वां सम्प्राप्तं प्रियया सह
पश्यन्तु भ्रातरस्तत्र वज्रपाणिम् इवामराः
आगते तु दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि
भद्राम् अनुगमिष्यन्ति रत्नानि च वसूनि च
अरिष्टं गच्छ पन्थानं सुखी भव धनंजय
नष्टशोकैर्विशोकस्य सुहृद्भिः संगमो ऽस्तु ते
ततो विपृथुम् आमन्त्र्य पार्थः प्रीतो ऽभिवाद्य च
कृष्णस्य मतम् आस्थाय कृष्णस्य रथम् आस्थितः
पूर्वम् एव तु पार्थाय कृष्णेन विनियोजितम्
सर्वरत्नसुसम्पूर्णं सर्वभोगसमन्वितम्
vaiśaṃpāyana uvāca
tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ
gatāṃ raivatake kanyāṃ viditvā janamejaya
vaiśaṃpāyanaḥ
śrībhagavān
vaiśaṃpāyanaḥ
vāsudevaḥ
baladevaḥ
vaiśaṃpāyanaḥ
cintayānastato bhadrām upaviṣṭaḥ śilātale
ramaṇīye vanoddeśe bahupādapasaṃvṛte
sālatālāśvakarṇaiśca bakulair arjunaistathā
campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā
karṇikārair aśokaiśca aṅkolair atimuktakaiḥ
evamādibhir anyaiśca saṃvṛte sa śilātale
punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm
yadṛcchayā copapannānvṛṣṇivīrāndadarśa ha
baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca
pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham
bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca
tathānyāṃśca bahūnpaśyanhṛdi śokam adhārayat
tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ
vṛṣṇayo vinayopetāḥ parivāryopatasthire
tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ
āsyatām āsyatāṃ sarvai ramaṇīye śilātale
ityevam uktā yatinā prītāste yādavarṣabhāḥ
upopaviviśuḥ sarve susvāgatam iti bruvan
tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ
ākāraṃ gūhamānastu kuśalapraśnam abravīt
sarvatra kuśalaṃ coktvā baladevo 'bravīd idam
prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi
tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara
parvatāṃścaiva tīrthāni vanānyāyatanāni ca
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
āpagānāṃ vanānāṃ ca kathayāmāsa yādave
tāḥ kathāḥ kathayann eva kathānte janamejaya
kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat
śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat
tatastu yādavāḥ sarve mantrayanti sma bhārata
ayaṃ deśātithiḥ śrīmānyatiliṅgadharo dvijaḥ
āvāsaṃ kam upāśritya vaseta nirupadravaḥ
ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ
dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam
ehi keśava tāteti rauhiṇeyo 'bravīdvacaḥ
yatiliṅgadharo vidvāndeśātithir ayaṃ dvijaḥ
varṣarātranivāsārtham āgato naḥ puraṃ prati
sthāne yasminnivasati tanme brūhi janārdana
tvayi sthite mahābhāga paravān asmi dharmataḥ
svayaṃ tu rucire sthāne vasatām iti māṃ vada
suprītastena vākyena pariṣvajya janārdanam
baladevo 'bravīdvākyaṃ cintayitvā mahābalaḥ
ārāme tu vaseddhīmāṃścaturo varṣamāsakān
kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ
latāgṛheṣu vasatām iti me dhīyate matiḥ
labdhānujñāstvayā tatra manyante sarvayādavāḥ
balavāndarśanīyaśca vāgvicchrīmānbahuśrutaḥ
kanyāpurasamīpe tu na yuktam iti me matiḥ
guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ
tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava
śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana
ayaṃ deśātithiḥ śrīmānsarvadharmaviśāradaḥ
dhṛtimānvinayopetaḥ satyavāgvijitendriyaḥ
yatiliṅgadharo hyeṣa ko vijānāti mānasam
tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham
nivedaya subhadrāyai madvākyaparicoditaḥ
bhakṣyairbhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya
sa tatheti pratijñāya sahito yatinā hariḥ
kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat
parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau
tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam
praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam
pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ
hṛṣīkeśavacaḥ śrutvā te ubhe ūcaturbhṛśam
manoratho mahān eṣa hṛdi naḥ parivartate
kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam
iti cintayamānānāṃ pārtho duḥkham apānudat
prāptam ajñātapūjābhir uttamābhir apūjayat
sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam
sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt
ayaṃ deśātithirbhadre saṃyato vratavān ṛṣiḥ
prāpnotu satataṃ pūjāṃ tava kanyāpure vasan
āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā
tasmādbharasva vārṣṇeyi bhakṣyairbhojyairyatiṃ sadā
eṣa yadyad ṛṣirbrūyātkāryam eva na saṃśayaḥ
sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī
purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ
te babhūvurdaśārhāṇāṃ kanyāpuranivāsinaḥ
tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ
kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini
sā tathetyabravītkṛṣṇaṃ kariṣyāmi yathāttha mām
toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham
evam etena rūpeṇa kaṃcitkālaṃ dhanaṃjayaḥ
uvāsa bhakṣyairbhojyaiśca bhadrayā paramārcitaḥ
tasya sarvaguṇopetāṃ vāsudevasahodarām
paśyataḥ satataṃ bhadrāṃ prādurāsīnmanobhavaḥ
gūhayann iva cākāram ālokya varavarṇinīm
dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ
na kṛṣṇāṃ rūpato mene vāsudevasahodarām
prāptāṃ hṛdīndrasenāṃ vā sākṣādvā varuṇātmajām
atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ
na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ
krīḍāratiparāṃ bhadrāṃ sakhījanaśatairvṛtām
prīyate smārjunaḥ paśyansvāhām iva hutāśanaḥ
pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ
samutpattiḥ prabhāvaśca gadena kathitaḥ purā
śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā
upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā
kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati
pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām
anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ
arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan
jātāṃśca putrāngṛhṇanta āśiṣo vṛṣṇayo 'bruvan
arjunasya samo vīrye bhava tāta dhanurdharaḥ
tasmātsubhadrā cakame pauruṣādbharatarṣabham
satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā
cāraṇātithisaṃghānāṃ gadasya ca niśamya sā
adṛṣṭe kṛtabhāvābhūtsubhadrā bharatarṣabhe
kīrtayandadṛśe yo yaḥ kathaṃcitkurujāṅgalam
taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati
abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāttathā
pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata
bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau
pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata
yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham
tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā
sā kadācid upāsīnaṃ papraccha kurunandanam
kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham
sarāṃsi saritaścaiva vanāni ca kathaṃ yate
diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā
sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan
uvāca paramaprītastasyā bahu tathā kathāḥ
niśamya vividhaṃ tasya loke caritam ātmanaḥ
kathāparigato bhāvaḥ kanyāyāḥ samapadyata
parvasaṃdhau ca kasmiṃścitsubhadrā bharatarṣabham
rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata
yatinā caratā lokānkhāṇḍavaprasthavāsinī
kaccidbhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā
bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ
kacciddharmaparo bhīmo dharmarājasya dhīmataḥ
nivṛttasamayaḥ kaccid aparādhāddhanaṃjayaḥ
niyame kāmabhogānāṃ vartamānaḥ priyetare
kva nu pārthaścaratyadya bahvīrdurvasatīrvasan
sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ
kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ
niśamya vacanaṃ tasyāstām uvāca hasann iva
ārye pṛthā ca kuśalā saputrā ca sahasnuṣā
prīyate paśyatī putrānkurukṣetraṃ ca paśyatī
anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ
dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ
paśyantī satataṃ kasmānnābhijānāsi mādhavi
niśamya vacanaṃ tasya vāsudevasahodarā
niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā
tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ
arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ
yathā tava gato bhāvaḥ śravaṇānmayi bhāmini
tvadgataḥ satataṃ bhāvastathā śataguṇo mama
praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ
satyavān iva sāvitryā bhaviṣyāmi patistava
evam uktvā tataḥ pārthaḥ praviveśa latāgṛham
tataḥ subhadrā lalitā lajjābhāvasamanvitā
mumoha śayane divye śayānā natathocitā
kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā
śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune
tadā prabhṛti tāṃ bhadrāṃ cintayanvai dhanaṃjayaḥ
āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ
subhadrāpi na ca svasthā pārthaṃ prati babhūva sā
kṛśā vivarṇavadanā cintāśokaparāyaṇā
niḥśvāsaparamā bhadrā mānasena manasvinī
na śayyāsanabhogeṣu ratiṃ vindati kenacit
na naktaṃ na divā śete babhūvonmattadarśanā
evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt
mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane
nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe
paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi
evam uktvā ca sā mātā bhadrāyāḥ priyakāminī
nivedayāmāsa tadā bhadrām ānakadundubheḥ
rahasyekāsanā tatra bhadrāsvastheti cābravīt
ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ
akrūrāya ca kṛṣṇāya āhukāya ca sātyake
nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ
vasudevastu tacchrutvā akrūrāhukayostadā
nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā
idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam
akrūraścograsenaśca satyakaśca gadena ca
pṛthuśravāśca kṛṣṇaśca sahitāḥ śininā saha
rukmiṇī satyabhāmā ca devakī rohiṇī tathā
vāsudevena sahitāḥ purohitamate sthitāḥ
vivāhaṃ mantrayāmāsurdvādaśe 'hani bhārata
ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata
vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ
mahādevasya pūjārthaṃ mahotsavam iti bruvan
catustriṃśadahorātraṃ subhadrārtipraśāntaye
nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ
itaścaturthe tvahani antardvīpaṃ tu gamyatām
sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ
gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ
evam uktāstu te sarve tathā cakruśca sarvaśaḥ
tataḥ sarvadaśārhāṇām antardvīpe tu bhārata
catustriṃśadahorātraṃ babhūva paramotsavaḥ
kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ
samudraṃ prayayurhṛṣṭāḥ kukurāndhakavṛṣṇayaḥ
yuktayantrapatākābhirvṛṣṇayo brāhmaṇaiḥ saha
samudraṃ prayayurnaubhiḥ sarve puranivāsinaḥ
tatastvaritam āgamya dāśārhagaṇapūjitam
subhadrā puṇḍarīkākṣam abravīdyatiśāsanāt
kṛtyavāndvādaśāhāni sthātā sa bhagavān iha
tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati
tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ
tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ
tvam evāsmanmatenāsya maharṣervaśavartinī
kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca
tasya cātithimukhyasya sarveṣāṃ ca tapasvinām
saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī
evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ
yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ
tatastaddvīpam āsādya dānadharmaparāyaṇāḥ
ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ
saptayojanavistāra āyato daśayojanam
babhūva sa mahādvīpaḥ saparvatamahāvanaḥ
setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām
vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ
vāsudevasamairdvīpaḥ sa sarvaiḥ kukurāndhakaiḥ
babhūva paramopetastriviṣṭapa ivāmaraiḥ
catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ
ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ
vicitramālyābharaṇāścitrarūpānulepanāḥ
vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ
sunṛttagītavāditrai ramamāṇāstato 'bhavan
tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani
subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata
vṛṣṇyandhakapurāttasmād apayānaṃ ca pāṇḍavaḥ
viniścitya tataḥ pārthaḥ subhadrām idam abravīt
śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam
kanyāyāstu pitā bhrātā mātā mātula eva ca
pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ
mahotsavaṃ paśupaterdraṣṭukāmaḥ pitāhukaḥ
antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ
mama caiva viśālākṣi videśasthāstu bāndhavāḥ
tasmātsubhadre gāndharvo vivāhaḥ pañcamo bhavet
samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ
teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tadyathā
varam āhūya vidhinā pitṛdattā yathārthine
sā patnī tu budhair uktā sā tu vaśyā pativratā
bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca
dāre sthite gṛhītā sā bhāryā ceti budhairmatā
dharmato varayitvā tu ānīya svaṃ niveśanam
nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet
janayedyā tu bhartāraṃ jāyā ityeva nāmataḥ
dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ
catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ
gāndharveṇa vivāhena rāgātputrārthakāraṇāt
ātmanānugṛhītā yā sā tu vaśyā prajāvatī
gāndharvastu kriyāhīno rāgād eva pravartate
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā
ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ
karaṇaṃ ca muhūrtaṃ ca lagnasaṃpadyathādya vai
vivāhasya viśālākṣi praśastaṃ cottarāyaṇam
vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca
nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi
lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā
maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi
sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati
bhagavān astam abhyeti tapanastapatāṃ varaḥ
nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt
dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet
manobhavena kāmena mohitaṃ mā pralāpinam
prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi
arjunasya vacaḥ śrutvā cintayantī janārdanam
novāca kiṃcidvacanaṃ bāṣpadūṣitalocanā
rāgonmādapralāpī syād arjuno jayatāṃ varaḥ
cintayāmāsa pitaraṃ praviśya ca latāgṛham
cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ
sahito nāradādyaistu munisiddhāpsarogaṇaiḥ
arundhatyā vasiṣṭhena ājagāma kuśasthalīm
cintitaṃ ca subhadrāyāścintayitvā janārdanaḥ
nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā
sahākrūreṇa śininā satyakena gadena ca
vasudevena devakyā āhukena ca dhīmatā
ājagāma purīṃ rātrau dvārakāṃ svajanairvṛtaḥ
pūjayitvā tu deveśaṃ nāradādyairmaharṣibhiḥ
kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ
vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha
āhuko vasudevaśca sahākrūraḥ sasātyakiḥ
abhipraṇamya śirasā pākaśāsanam abruvan
devadeva namaste 'stu lokanātha jagatpate
vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho
kṛtaprasādāstu vayaṃ tava vākyena viśvajit
evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ
mahendraśāsanātsarve sahitāśca maharṣibhiḥ
vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ
arundhatī śacī devī rukmiṇī devakī tathā
divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan
maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ
puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune
abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim
lokapālaistu sahitaḥ sarvairdevair abhiṣṭutaḥ
kirīṭāṅgadahārādyairhastābharaṇakuṇḍalaiḥ
bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam
putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ
śacī devī tathā bhadrām arundhatyādibhistadā
kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ
sahāpsarobhirmuditā bhūṣaṇaiścābhyapūjayan
paulomīm iva manyante subhadrāṃ devayoṣitaḥ
tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ
tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam
yathā tasyaiva hi pitā śacyā iva śatakratuḥ
sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā
pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā
subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ
ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ
evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ
āmantrya yādavānsarve viprajagmuryathāgatam
yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā
vāsudevastadā pārtham uvāca yadunandanaḥ
dvāviṃśaddivasānpārtha ihoṣya bharatarṣabha
māmakaṃ ratham āruhya sainyasugrīvayojitam
subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa
yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata
yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe
evam uktvā pracakrāma antardvīpaṃ janārdanaḥ
kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavattadā
tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ
sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ
abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ
sa hi jiṣṇurvijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām
dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm
sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam
udyatsahasradīptāṃśuḥ śaradīva divākaraḥ
sā tu taṃ manujavyāghram anuraktā manasvinī
kanyāpuragatā bhūtvā tatparā samapadyata
vṛṣṇyandhakapurāttatra apayānaṃ dhanaṃjayaḥ
viniścitya tayā pārthaḥ subhadrām idam abravīt
dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya
bhakṣyairbhojyaiśca kāmaiśca prayaccha pratiyāsyatām
ātmanaśca samuddiśya mahāvratasamāpanam
gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam
tejobalajavopetai ratnairhayavarottamaiḥ
sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya
krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha
kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca
anukarṣānpatākāśca tūṇīrāṃśca dhanūṃṣi ca
sarvānrathavare kuryāḥ sotsedhāśca mahāgadāḥ
arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī
jagāma nṛpaterveśma sakhībhistvaritā saha
krīḍārtham iva tatrasthānrakṣiṇo vākyam abravīt
rathenānena yāsyāmi mahāvratasamāpanam
sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ
subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan
rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti
yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām
yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī
kṣipram ādāya kalyāṇī subhadrārjunam abravīt
ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt
svasti yāhi yathākāmaṃ kurūnkauravanandana
nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā
brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu
snehavanti ca bhojyāni pradadāvīpsitāni ca
yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca
tarpitā vividhairbhakṣyaistānyavāpya vasūni ca
brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ
subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ
raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi
tasmātsā pūrvam āruhya raśmīñjagrāha mādhavī
sodarā vāsudevasya kṛtasvastyayanā hayān
varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ
āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ
mahendradattamukuṭaṃ tathā hyābharaṇāni ca
alaṃkṛtya tu kaunteyaḥ prayātum upacakrame
tataḥ kanyāpure ghoṣastumulaḥ samapadyata
dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam
abhīśuhastāṃ suśroṇīm arjunena rathe sthitām
ūcuḥ kanyāpure kanyā vāsudevasahodarām
sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi
vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam
sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare
yasmātsarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ
upapannastvayā vīraḥ sarvalokamahārathaḥ
svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te
evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā
bhadrā bhadrajavopetānpunar aśvān acodayat
tataścāmarahastā sā sakhī kubjāṅganābhavat
tataḥ kanyāpuradvārātsaghoṣam abhiniḥsṛtam
dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam
subhadrāsaṃgṛhītasya rathasya mahato ravam
meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ
subhadrayā ca sampanne tiṣṭhanrathavare 'rjunaḥ
prababhau parayopetaḥ kailāsa iva gaṅgayā
pārthaḥ subhadrāsahito virarāja mahārathaḥ
pārthasyeva pitā śakro yathā śacyā samanvitaḥ
subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm
cakruḥ kilakilāśabdam āsādya bahavo janāḥ
dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī
abhikāmā sakāmena pārthena saha gacchati
athāpare hi saṃkruddhā gṛhṇīta ghnata māciram
iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt
sa tena janaghoṣeṇa vīro gaja ivārditaḥ
vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat
mumoca niśitānbāṇāndīpyamānānsvatejasā
prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca
prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca
mumoca niśitānbāṇānna ca kaṃcana roṣayat
kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram
prekṣanraivatakadvāraṃ niryayau bharatarṣabhaḥ
śāsanātpuruṣendrasya balena mahatā balī
girau raivatake nityaṃ babhūva vipṛthuśravāḥ
pravāse vāsudevasya tasminhaladharopamaḥ
saṃbabhūva tadā goptā purasya puravardhanaḥ
prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ
niśamya puranirghoṣaṃ svam anīkam acodayat
so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham
niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt
savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam
pārtham āsādya yodhānāṃ vismayaḥ samapadyata
udīrṇarathanāgāśvam anīkam abhivīkṣya tat
uvāca paramaprītā subhadrā bhadrabhāṣiṇī
saṃgrahītum abhiprāyo dīrghakālakṛto mama
yudhyamānasya saṃgrāme rathaṃ tava nararṣabha
ojastejodyutibalair ācitasya mahātmanaḥ
pārthasya vai sārathitve bhavethā ityaśikṣayan
evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ
codayāśvān asaṃsaktānviśantu vipṛthorbalam
bahubhiryudhyamānasya tāvakānāṃ jighāṃsataḥ
paśya bāhubalaṃ bhadre śarānvikṣipato mama
evam uktā tato bhadrā pārthena bharatarṣabha
cucoda cāśvānviśrabdhā tataste viviśurbalam
tadāhatamahāvādyaṃ samudagradhvajāyutam
anīkaṃ vipṛthorhṛṣṭaṃ pārtham evānvavartata
rathairbahuvidhairhṛṣṭāḥ sadaśvaiśca mahājavaiḥ
kirantaḥ śaravarṣāṇi parivavrurdhanaṃjayam
teṣām astrāṇi saṃvārya divyair astrairmahāstravit
āvṛṇonmahad ākāśaṃ śaraiḥ parapuraṃjayaḥ
teṣāṃ bāṇānmahābāhurmakuṭānyaṅgadānyapi
cicheda niśitairbāṇaiḥ śarāṃścaiva dhanūṃṣi ca
yugānīṣā varūthāni yantrāṇi vividhāni ca
ajighāṃsanparānpārthaścicheda niśitaiḥ śaraiḥ
nirdhanuṣkānvikavacānvirathāṃśca mahārathān
kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat
sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt
avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham
saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthurbalam
tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata
tattu senāpatervākyaṃ nātyavartanta yādavāḥ
sāgare mārutoddhūtā velām iva mahormayaḥ
tato rathavarāttūrṇam avaruhya nararṣabhaḥ
abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje
so 'bravītpārtham āsādya dīrghakālam idaṃ tava
nivāsam abhijānāmi śaṅkhacakragadādharāt
na me 'styaviditaṃ kiṃcidyadyad ācaritaṃ tvayā
subhadrāsaṃprayogena prītastava janārdanaḥ
prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya
visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā
tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ
bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi
bandhurbhava subhadrāyā gatiśca tvaṃ dhanaṃjaya
bandhumān asi rāmeṇa mahendrāvarajena ca
mām eva hi sadākārṣīnmantriṇaṃ madhusūdanaḥ
antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya
imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam
idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ
antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ
dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha
paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ
āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani
bhadrām anugamiṣyanti ratnāni ca vasūni ca
ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya
naṣṭaśokairviśokasya suhṛdbhiḥ saṃgamo 'stu te
tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca
kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ
pūrvam eva tu pārthāya kṛṣṇena viniyojitam
sarvaratnasusampūrṇaṃ sarvabhogasamanvitam
- 2
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्
कृष्णस्य मतम् आज्ञाय प्रययौ भरतर्षभः
वृत्तैः सहोत्सवैर् एवं वृष्णयो ऽप्यगमन्पुरीम्
vāsudevābhyanujñātaḥ kathayitvetikṛtyatām
kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ
vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagamanpurīm
- 3
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि
सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना
rathena kāñcanāṅgena kalpitena yathāvidhi
sainyasugrīvayuktena kiṅkiṇījālamālinā
- 4
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना
sarvaśastropapannena jīmūtaravanādinā
jvalitāgniprakāśena dviṣatāṃ harṣaghātinā
- 5
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्
युक्तः सेनानुयात्रेण रथम् आरोप्य माधवीम्
मृगयाव्यपदेशेन यौगपद्येन भारत
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
yuktaḥ senānuyātreṇa ratham āropya mādhavīm
mṛgayāvyapadeśena yaugapadyena bhārata
- 6
सुभद्रा त्वथ शैलेन्द्रम् अभ्यर्च्य सह रैवतम्
दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च
subhadrā tvatha śailendram abhyarcya saha raivatam
daivatāni ca sarvāṇi brāhmaṇānsvasti vācya ca
- 7
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति
सुभद्रां कृष्णभगिनीं स्त्रीभिः परिवृतां तदा
ताम् अभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम्
सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः
pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati
subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā
tām abhidrutya kaunteyaḥ prasahyāropayadratham
subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ
- 8
ततः स पुरुषव्याघ्रस्ताम् आदाय शुचिस्मिताम्
रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति
tataḥ sa puruṣavyāghrastām ādāya śucismitām
rathenākāśagenaiva prayayau svapuraṃ prati
- 9
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः
विक्रोशन्प्राद्रवत्सर्वो द्वारकाम् अभितः पुरीम्
hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ
vikrośanprādravatsarvo dvārakām abhitaḥ purīm
- 10
ते समासाद्य सहिताः सुधर्माम् अभितः सभाम्
सभापालस्य तत्सर्वम् आचख्युः पार्थविक्रमम्
te samāsādya sahitāḥ sudharmām abhitaḥ sabhām
sabhāpālasya tatsarvam ācakhyuḥ pārthavikramam
- 11
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्
teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ
samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām
- 12
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा
अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा
अन्नपानम् अपास्याथ समापेतुः सभां ततः
kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā
antardvīpātsamutpetuḥ sahasā sahitāstadā
annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ
- 13
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च
tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca
maṇividrumacitrāṇi jvalitāgniprabhāṇi ca
- 14
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः
bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ
siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ
- 15
तेषां समुपविष्टानां देवानाम् इव संनये
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः
teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye
ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ
- 16
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः
अमृष्यमाणाः पार्थस्य समुत्पेतुर् अहंकृताः
tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ
amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ
- 17
योजयध्वं रथान् आशु प्रासान् आहरतेति च
नागान् अश्वांस्तथैव च
कवचान् आहर क्षिप्रं
धनूंषि च महार्हाणि कवचानि बृहन्ति च
yojayadhvaṃ rathān āśu prāsān āharateti ca
nāgān aśvāṃstathaiva ca
kavacān āhara kṣipraṃ
dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca
- 18
सूतान् उच्चुक्रुशुः केचिद्रथान्योजयतेति च
स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान्
sūtān uccukruśuḥ kecidrathānyojayateti ca
svayaṃ ca turagānkecinninyurhemavibhūṣitān
- 19
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च
अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत्
ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca
abhikrande nṛvīrāṇāṃ tadāsītsaṃkulaṃ mahat
- 20
वनमाली ततः क्षीबः कैलासशिखरोपमः
नीलवासा मदोत्सिक्त इदं वचनम् अब्रवीत्
vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ
nīlavāsā madotsikta idaṃ vacanam abravīt
- 21
किम् इदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने
अस्य भावम् अविज्ञाय संक्रुद्धा मोघगर्जिताः
kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane
asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ
- 22
एष तावद् अभिप्रायम् आख्यातु स्वं महामतिः
यद् अस्य रुचितं कर्तुं तत्कुरुध्वम् अतन्द्रिताः
eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ
yad asya rucitaṃ kartuṃ tatkurudhvam atandritāḥ
- 23
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्
तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन्
tataste tadvacaḥ śrutvā grāhyarūpaṃ halāyudhāt
tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan
- 24
समं वचो निशम्येति बलदेवस्य धीमतः
पुनर् एव सभामध्ये सर्वे तु समुपाविशन्
samaṃ vaco niśamyeti baladevasya dhīmataḥ
punar eva sabhāmadhye sarve tu samupāviśan
- 25
ततो ऽब्रवीत्कामपालो वासुदेवं परंतपम्
त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत्
किम् अवाग् उपविष्टो ऽसि प्रेक्षमाणो जनार्दन
tato 'bravītkāmapālo vāsudevaṃ paraṃtapam
trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt
kim avāg upaviṣṭo 'si prekṣamāṇo janārdana
- 26
सत्कृतस्त्वत्कृते पार्थः सर्वैर् अस्माभिर् अच्युत
न च सो ऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः
satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta
na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ
- 27
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम् अर्हति
मन्यमानः कुले जातम् आत्मानं पुरुषः क्वचित्
ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati
manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kvacit
- 28
ईप्समानश्च संबन्धं कृतपूर्वं च मानयन्
को हि नाम भवेनार्थी साहसेन समाचरेत्
īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan
ko hi nāma bhavenārthī sāhasena samācaret
- 29
सो ऽवमन्य च नामास्मान् अनादृत्य च केशवम्
प्रसह्य हृतवान् अद्य सुभद्रां मृत्युम् आत्मनः
so 'vamanya ca nāmāsmān anādṛtya ca keśavam
prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ
- 30
कथं हि शिरसो मध्ये पदं तेन कृतं मम
त्वया चेन्नाभ्यनुज्ञातो धर्षयिष्यति माधव
मर्षयिष्यामि गोविन्द पादस्पर्शम् इवोरगः
kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama
tvayā cennābhyanujñāto dharṣayiṣyati mādhava
marṣayiṣyāmi govinda pādasparśam ivoragaḥ

