19 shlokas
- 1
वैशंपायन उवाच
सो ऽब्रवीद् अर्जुनं चैव वासुदेवं च सात्वतम्
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः
vaiśaṃpāyana uvāca
so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam
lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ
- 2
ब्राह्मणो बहुभोक्तास्मि भुञ्जे ऽपरिमितं सदा
भिक्षे वार्ष्णेयपार्थौ वाम् एकां तृप्तिं प्रयच्छताम्
brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā
bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām
- 3
एवम् उक्तौ तम् अब्रूतां ततस्तौ कृष्णपाण्डवौ
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे
evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau
kenānnena bhavāṃstṛpyettasyānnasya yatāvahe
- 4
एवम् उक्तः स भगवान् अब्रवीत्तावुभौ ततः
भाषमाणौ तदा वीरौ किम् अन्नं क्रियताम् इति
evam uktaḥ sa bhagavān abravīttāvubhau tataḥ
bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti
- 5
नाहम् अन्नं बुभुक्षे वै पावकं मां निबोधतम्
यदन्नम् अनुरूपं मे तद्युवां सम्प्रयच्छतम्
nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam
yadannam anurūpaṃ me tadyuvāṃ samprayacchatam
- 6
इदम् इन्द्रः सदा दावं खाण्डवं परिरक्षति
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना
idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati
taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā
- 7
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा
सगणस्तत्कृते दावं परिरक्षति वज्रभृत्
vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā
sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt
- 8
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः
बहूनि घोररूपाणि उग्रवीर्याणि चैव हि
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा
tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ
bahūni ghorarūpāṇi ugravīryāṇi caiva hi
taṃ didhakṣurna śaknomi dagdhuṃ śakrasya tejasā
- 9
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति
ततो दग्धुं न शक्नोमि दिधक्षुर्दावम् ईप्सितम्
sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati
tato dagdhuṃ na śaknomi didhakṣurdāvam īpsitam
- 10
स युवाभ्यां सहायाभ्याम् अस्त्रविद्भ्यां समागतः
दहेयं खाण्डवं दावम् एतद् अन्नं वृतं मया
sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ
daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā
- 11
युवां ह्युदकधारास्ता भूतानि च समन्ततः
उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः
जनमेजय उवाच
वैशंपायन उवाच
रुद्र उवाच
वैशंपायन उवाच
वैशंपायन उवाच
किमर्थं भगवान् अग्निः खाण्डवं दग्धुम् इच्छति
रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम्
न ह्येतत्कारणं ब्रह्मन्न् अल्पं सम्प्रतिभाति मे
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः
एतद्विस्तरशो ब्रह्मञ्श्रोतुम् इच्छामि तत्त्वतः
खाण्डवस्य यथा दाहः पुरा समभवन्मुने
हन्त ते कथयिष्यामि पुराणम् ऋषिसंस्तुतम्
कथाम् इमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्
पौराणः श्रूयते तात राजा हरिहयोपमः
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः
यज्वा दानपतिर्धीमान्यथा नान्यो ऽस्ति कश्चन
ईजे स च महासत्रैः क्रतुभिश्चाप्तदक्षिणैः
तस्य नान्याभवद्बुद्धिर्दिवसे दिवसे नृप
सत्रे क्रियासमारम्भे दानेषु विविधेषु च
तस्यैवं वर्तमानस्य कदाचित्कालपर्यये
सत्रम् आहर्तुकामस्य संवत्सरशतं किल
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः
स तु राजाकरोद्यत्नं महान्तं ससुहृज्जनः
प्रणिपातेन सान्त्वेन दानेन च महायशाः
ऋत्विजो ऽनुनयामास भूयो भूयस्त्वतन्द्रितः
ते चास्य तम् अभिप्रायं न चक्रुर् अमितौजसः
स चाश्रमस्थान्राजर्षिस्तान् उवाच रुषान्वितः
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः
आशु त्याज्यो ऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुम् उत्तमाम्
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः
प्रपन्न एव वो विप्राः प्रसादं कर्तुम् अर्हथ
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः
अथवाहं परित्यक्तो भवद्भिर्द्वेषकारणात्
ऋत्विजो ऽन्यान्गमिष्यामि याजनार्थं तपोधनाः
एतावद् उक्त्वा वचनं विरराम स पार्थिवः
यदा न शेकू राजानं याजनार्थं परंतप
ततस्ते याजकाः क्रुद्धास्तम् ऊचुर्नृपसत्तमम्
तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः
श्रमाद् अस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुम् अर्हसि
बुद्धिमोहं समास्थाय त्वरासंभावितो ऽनघ
गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति
साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः
आराधयन्महादेवं नियतः संशितव्रतः
उपवासपरो राजा दीर्घकालम् अतिष्ठत
कदाचिद्द्वादशे काले कदाचिद् अपि षोडशे
आहारम् अकरोद्राजा मूलानि च फलानि च
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुर् इवाचलः
षण्मासान् अभवद्राजा श्वेतकिः सुसमाहितः
तं तथा नृपशार्दूलं तप्यमानं महत्तपः
शंकरः परया प्रीत्या दर्शयामास भारत
उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा
प्रीतो ऽस्मि राजशार्दूल तपसा ते परंतप
वरं वृणीष्व भद्रं ते यं त्वम् इच्छसि पार्थिव
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः
स्वयं मां देवदेवेश याजयस्व सुरेश्वर
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्
उवाच भगवान्प्रीतः स्मितपूर्वम् इदं वचः
नास्माकम् एतद्विषये वर्तते याजनं प्रति
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना
याजयिष्यामि राजंस्त्वां समयेन परंतप
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः
सततं त्वाज्यधाराभिर्यदि तर्पयसे ऽनलम्
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप
एवम् उक्तस्तु रुद्रेण श्वेतकिर्मनुजाधिपः
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना
पूर्णे तु द्वादशे वर्षे पुनर् आयान्महेश्वरम्
दृष्ट्वैव च स राजानं शंकरो लोकभावनः
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्
तोषितो ऽहं नृपश्रेष्ठ त्वयेह स्वेन कर्मणा
याजनं ब्राह्मणानां तु विधिदृष्टं परंतप
अतो ऽहं त्वां स्वयं नाद्य याजयामि परंतप
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति
मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम्
स्वपुरं पुनर् आगम्य संभारान्पुनर् आर्जयत्
ततः संभृतसंभारो भूयो रुद्रम् उपागमत्
संभृता मम संभाराः सर्वोपकरणानि च
त्वत्प्रसादान्महादेव श्वो मे दीक्षा भवेद् इति
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः
दुर्वाससं समाहूय रुद्रो वचनम् अब्रवीत्
एष राजा महाभागः श्वेतकिर्द्विजसत्तम
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम्
बाढम् इत्येव वचनं रुद्रम् ऋषिर् उवाच ह
ततः सत्रं समभवत्तस्य राज्ञो महात्मनः
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम्
तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः
दुर्वाससाभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः
सो ऽपि राजा महाभागः स्वपुरं प्राविशत्तदा
ततो भगवतो वह्नेर्विकारः समजायत
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्
तत्र ब्राह्मणम् आसीनम् इदं वचनम् अब्रवीत्
तेजसा विप्रहीणो ऽस्मि बलेन च जगत्पते
इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम्
एतच्छ्रुत्वा तु वचनं भगवान्सर्वलोककृत्
हव्यवाहम् इदं वाक्यम् उवाच प्रहसन्न् इव
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः
उपयुक्तं महाभाग तेन त्वां ग्लानिर् आविशत्
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन
मा गमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम्
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्
तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात्
एतच्छ्रुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्
उत्तमं जवम् आस्थाय प्रदुद्राव हुताशनः
आगम्य खाण्डवं दावम् उत्तमं जवम् आस्थितः
सहसा प्रज्वलत्यग्निः क्रुद्धो वायुसमीरितः
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्म तत्र निवासिनः
परमं यत्नम् आतिष्ठन्पावकस्य प्रशान्तये
करैस्तु करिणः शीघ्रं जलम् आदाय सत्वराः
सिषिचुः पावकं क्रुद्धाः शतशो ऽथ सहस्रशः
बहुशीर्षास्तथा नागाः शिरोभिर्जलवृष्टयः
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्छिताः
तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः
विलयं पावकं शीघ्रम् अनयन्भरतोत्तम
अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन्
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः
स तु नैराश्यम् आपन्नः सदा ग्लानिसमन्वितः
पितामहम् उपागच्छत्संक्रुद्धो हव्यवाहनः
तच्च सर्वं यथावृत्तं ब्रह्मणे संन्यवेदयत्
उवाच चैनं भगवान्मुहूर्तं स विचिन्त्य तु
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसे ऽनल
खाण्डवं दावम् अद्यैव मिषतो ऽस्य शतक्रतोः
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो
सम्प्राप्तौ मानुषं लोकं कार्यार्थं हि दिवौकसाम्
अर्जुनं वासुदेवं च यौ तौ लोको ऽभिमन्यते
तावेतौ सहितौ वह्ने खाण्डवस्य समीपतः
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैर् अपि
तौ तु सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः
देवराजं च सहितौ तत्र मे नास्ति संशयः
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः
कृष्णपार्थावुपागम्य यम् अर्थं त्वभ्यभाषत
तं ते कथितवान् अस्मि पूर्वम् एव नृपोत्तम
yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ
uttamāstravido samyaksarvato vārayiṣyathaḥ
janamejaya uvāca
vaiśaṃpāyana uvāca
rudra uvāca
vaiśaṃpāyana uvāca
vaiśaṃpāyana uvāca
kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati
rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam
na hyetatkāraṇaṃ brahmann alpaṃ sampratibhāti me
yaddadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ
etadvistaraśo brahmañśrotum icchāmi tattvataḥ
khāṇḍavasya yathā dāhaḥ purā samabhavanmune
hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam
kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm
paurāṇaḥ śrūyate tāta rājā harihayopamaḥ
śvetakirnāma vikhyāto balavikramasaṃyutaḥ
yajvā dānapatirdhīmānyathā nānyo 'sti kaścana
īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ
tasya nānyābhavadbuddhirdivase divase nṛpa
satre kriyāsamārambhe dāneṣu vividheṣu ca
tasyaivaṃ vartamānasya kadācitkālaparyaye
satram āhartukāmasya saṃvatsaraśataṃ kila
ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ
sa tu rājākarodyatnaṃ mahāntaṃ sasuhṛjjanaḥ
praṇipātena sāntvena dānena ca mahāyaśāḥ
ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ
te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ
sa cāśramasthānrājarṣistān uvāca ruṣānvitaḥ
yadyahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ
āśu tyājyo 'smi yuṣmābhirbrāhmaṇaiśca jugupsitaḥ
tannārhatha kratuśraddhāṃ vyāghātayitum uttamām
asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ
prapanna eva vo viprāḥ prasādaṃ kartum arhatha
sāntvadānādibhirvākyaistattvataḥ kāryavattayā
prasādayitvā vakṣyāmi yannaḥ kāryaṃ dvijottamāḥ
athavāhaṃ parityakto bhavadbhirdveṣakāraṇāt
ṛtvijo 'nyāngamiṣyāmi yājanārthaṃ tapodhanāḥ
etāvad uktvā vacanaṃ virarāma sa pārthivaḥ
yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa
tataste yājakāḥ kruddhāstam ūcurnṛpasattamam
tava karmāṇyajasraṃ vai vartante pārthivottama
tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ
śramād asmātpariśrāntānsa tvaṃ nastyaktum arhasi
buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha
gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati
sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakirnṛpaḥ
kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ
ārādhayanmahādevaṃ niyataḥ saṃśitavrataḥ
upavāsaparo rājā dīrghakālam atiṣṭhata
kadāciddvādaśe kāle kadācid api ṣoḍaśe
āhāram akarodrājā mūlāni ca phalāni ca
ūrdhvabāhustvanimiṣastiṣṭhansthāṇur ivācalaḥ
ṣaṇmāsān abhavadrājā śvetakiḥ susamāhitaḥ
taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahattapaḥ
śaṃkaraḥ parayā prītyā darśayāmāsa bhārata
uvāca cainaṃ bhagavānsnigdhagambhīrayā girā
prīto 'smi rājaśārdūla tapasā te paraṃtapa
varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva
etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ
praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata
yadi me bhagavānprītaḥ sarvalokanamaskṛtaḥ
svayaṃ māṃ devadeveśa yājayasva sureśvara
etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam
uvāca bhagavānprītaḥ smitapūrvam idaṃ vacaḥ
nāsmākam etadviṣaye vartate yājanaṃ prati
tvayā ca sumahattaptaṃ tapo rājanvarārthinā
yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa
samā dvādaśa rājendra brahmacārī samāhitaḥ
satataṃ tvājyadhārābhiryadi tarpayase 'nalam
kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa
evam uktastu rudreṇa śvetakirmanujādhipaḥ
tathā cakāra tatsarvaṃ yathoktaṃ śūlapāṇinā
pūrṇe tu dvādaśe varṣe punar āyānmaheśvaram
dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ
uvāca paramaprītaḥ śvetakiṃ nṛpasattamam
toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā
yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa
ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa
mamāṃśastu kṣititale mahābhāgo dvijottamaḥ
durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati
manniyogānmahātejāḥ saṃbhārāḥ saṃbhriyantu te
etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam
svapuraṃ punar āgamya saṃbhārānpunar ārjayat
tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat
saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca
tvatprasādānmahādeva śvo me dīkṣā bhaved iti
etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ
durvāsasaṃ samāhūya rudro vacanam abravīt
eṣa rājā mahābhāgaḥ śvetakirdvijasattama
enaṃ yājaya viprendra manniyogena bhūmipam
bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha
tataḥ satraṃ samabhavattasya rājño mahātmanaḥ
yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam
tasminparisamāpte tu rājñaḥ satre mahātmanaḥ
durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ
ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ
so 'pi rājā mahābhāgaḥ svapuraṃ prāviśattadā
tato bhagavato vahnervikāraḥ samajāyata
tejasā viprahīṇaśca glāniścainaṃ samāviśat
sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ
jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam
tatra brāhmaṇam āsīnam idaṃ vacanam abravīt
tejasā viprahīṇo 'smi balena ca jagatpate
iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām
etacchrutvā tu vacanaṃ bhagavānsarvalokakṛt
havyavāham idaṃ vākyam uvāca prahasann iva
tvayā dvādaśa varṣāṇi vasordhārāhutaṃ haviḥ
upayuktaṃ mahābhāga tena tvāṃ glānir āviśat
tejasā viprahīṇatvātsahasā havyavāhana
mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi
purā devaniyogena yattvayā bhasmasātkṛtam
ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam
tatra sarvāṇi sattvāni nivasanti vibhāvaso
teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi
gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt
etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam
uttamaṃ javam āsthāya pradudrāva hutāśanaḥ
āgamya khāṇḍavaṃ dāvam uttamaṃ javam āsthitaḥ
sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ
pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ
paramaṃ yatnam ātiṣṭhanpāvakasya praśāntaye
karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ
siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ
bahuśīrṣāstathā nāgāḥ śirobhirjalavṛṣṭayaḥ
mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ
tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ
vilayaṃ pāvakaṃ śīghram anayanbharatottama
anena tu prakāreṇa bhūyo bhūyaśca prajvalan
saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ
sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ
pitāmaham upāgacchatsaṃkruddho havyavāhanaḥ
tacca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat
uvāca cainaṃ bhagavānmuhūrtaṃ sa vicintya tu
upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala
khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ
naranārāyaṇau yau tau pūrvadevau vibhāvaso
samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām
arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate
tāvetau sahitau vahne khāṇḍavasya samīpataḥ
tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca
tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api
tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ
devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ
etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ
kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata
taṃ te kathitavān asmi pūrvam eva nṛpottama
- 12
एवम् उक्ते प्रत्युवाच बीभत्सुर्जातवेदसम्
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः
दिधक्षुं खाण्डवं दावम् अकामस्य शतक्रतोः
evam ukte pratyuvāca bībhatsurjātavedasam
abravīnnṛpaśārdūla tatkālasadṛśaṃ vacaḥ
didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ
- 13
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च
यैर् अहं शक्नुयां योद्धुम् अपि वज्रधरान्बहून्
uttamāstrāṇi me santi divyāni ca bahūni ca
yair ahaṃ śaknuyāṃ yoddhum api vajradharānbahūn
- 14
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे
dhanurme nāsti bhagavanbāhuvīryeṇa saṃmitam
kurvataḥ samare yatnaṃ vegaṃ yadviṣaheta me
- 15
शरैश्च मे ऽर्थो बहुभिर् अक्षयैः क्षिप्रम् अस्यतः
उपासंगौ च मे न स्तः प्रतियोद्धुं पुरंदरम्
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्
śaraiśca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ
upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram
na hi voḍhuṃ rathaḥ śaktaḥ śarānmama yathepsitān
- 16
अश्वांश्च दिव्यान् इच्छेयं पाण्डुरान्वातरंहसः
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्
aśvāṃśca divyān iccheyaṃ pāṇḍurānvātaraṃhasaḥ
rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam
- 17
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे
tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam
yena nāgānpiśācāṃśca nihanyānmādhavo raṇe
- 18
उपायं कर्मणः सिद्धौ भगवन्वक्तुम् अर्हसि
निवारयेयं येनेन्द्रं वर्षमाणं महावने
upāyaṃ karmaṇaḥ siddhau bhagavanvaktum arhasi
nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane
- 19
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक
करणानि समर्थानि भगवन्दातुम् अर्हसि
pauruṣeṇa tu yatkāryaṃ tatkartārau sva pāvaka
karaṇāni samarthāni bhagavandātum arhasi

