29 shlokas
- 1
वैशंपायन उवाच
ततो राज्ञां चरैर् आप्तैश्चारः समुपनीयत
पाण्डवैर् उपसंपन्ना द्रौपदी पतिभिः शुभा
vaiśaṃpāyana uvāca
tato rājñāṃ carair āptaiścāraḥ samupanīyata
pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā
- 2
येन तद्धनुर् आयम्य लक्ष्यं विद्धं महात्मना
सो ऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः
yena taddhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ
- 3
यः शल्यं मद्रराजानम् उत्क्षिप्याभ्रामयद्बली
त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे
yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayadbalī
trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣānraṇe
- 4
न चापि संभ्रमः कश्चिद् आसीत्तत्र महात्मनः
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः
यो ऽसावत्यक्रमीद्युद्धे युध्यन्दुर्योधनं तदा
स राजा पाण्डवश्रेष्ठः श्रेष्ठभाग्बुद्धिवर्धनः
दुर्योधनाद् अवरजैर्यौ युध्येतां प्रतीतवत्
तौ यमौ वृत्तसम्पन्नौ सम्पन्नबलविक्रमौ
चारैः प्रणिहिते चारे राजानो विगतज्वराः
na cāpi saṃbhramaḥ kaścid āsīttatra mahātmanaḥ
sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ
yo 'sāvatyakramīdyuddhe yudhyanduryodhanaṃ tadā
sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāgbuddhivardhanaḥ
duryodhanād avarajairyau yudhyetāṃ pratītavat
tau yamau vṛttasampannau sampannabalavikramau
cāraiḥ praṇihite cāre rājāno vigatajvarāḥ
- 5
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत
brahmarūpadharāñśrutvā pāṇḍurājasutāṃstadā
kaunteyānmanujendrāṇāṃ vismayaḥ samajāyata
- 6
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता
सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनाम्
पुनर्जातान् इति स्मैतान्मन्यन्ते सर्वपार्थिवाः
saputrā hi purā kuntī dagdhā jatugṛhe śrutā
sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām
punarjātān iti smaitānmanyante sarvapārthivāḥ
- 7
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम्
कर्मणा सुनृशंसेन पुरोचनकृतेन वै
वैशंपायनः
शकुनिः
वैशंपायनः
वैशंपायनः
धार्मिकान्वृत्तसम्पन्नान्मातुः प्रियहिते रतान्
यदा तान् ईदृशान्पार्थान् उत्सादयितुम् अर्हति
ततः स्वयंवरे वृत्ते धार्तराष्ट्राः स्म भारत
मन्त्रयन्ते ततः सर्वे कर्णसौबलदूषिताः
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथा परः
उत्सादनीयाः कौन्तेयाः सर्वे क्षत्रस्य मे मताः
एवं पराजिताः सर्वे यदि यूयं गमिष्यथ
अकृत्वा संविदं कांचित्तद्वस्तप्स्यत्यसंशयम्
अयं देशश्च कालश्च पाण्डवोद्धरणाय नः
न चेद् एवं करिष्यध्वं लोके हास्या भविष्यथ
यम् एते संश्रिता वस्तुं कामयन्ते च भूमिपम्
सो ऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम
यावद् एतान्न जानन्ति जीवतो वृष्णिपुंगवाः
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान्
एकीभावं गता राज्ञा द्रुपदेन महात्मना
दुराधर्षतरा राजन्भविष्यन्ति न संशयः
यावत्त्वचलतां सर्वे प्राप्नुवन्ति नराधिपाः
तावद् एव व्यवस्यामः पाण्डवानां वधं प्रति
मुक्ता जतुगृहाद्भीमाद् आशीविषमुखाद् इव
पुनर्यद् इह मुच्यन्ते महन्नो भयम् आविशेत्
तेषाम् इहोपयातानाम् एषां च पुरवासिनाम्
अन्तरे दुष्करं स्थातुं मेषयोर्महतोर् इव
हलधृक्प्रगृहीतानि बलानि बलिनां स्वयम्
यावन्न कुरुसेनायां पतन्ति पतगा इव
तावत्सर्वाभिसारेण पुरम् एतद्विनाश्यताम्
एतद् अत्र परं मन्ये प्राप्तकालं नरर्षभाः
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः
सौमदत्तिर् इदं वाक्यं जगाद परमं ततः
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च
तथा देशं च कालं च षड्विधांश्च नयेद्गुणान्
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम्
समीक्ष्याथाभियुञ्जीत परं व्यसनपीडितम्
ततो ऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान्
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान्
वपुषा भुवि भूतानां नेत्राणि च मनांसि च
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्
न तु केवलदैवेन प्रजा भावेन भेजिरे
यद्बभूव मनःकान्तं कर्मणा स चकार तत्
न ह्य् अयुक्तं न चासक्तं नामृतं न च विप्रियम्
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती
तान् एवं गुणसम्पन्नान्सम्पन्नान्राजलक्षणैः
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथाबलात्
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला
तथैवोत्साहशक्तिश्च पार्थेष्वभ्यधिका सदा
मौलमित्रबलानां च कालज्ञो वै युधिष्ठिरः
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः
अमित्रं यतते जेतुं न रोषेणेति मे मतिः
परिक्रीय धनैः शत्रून्मित्राणि च धनानि च
मूलं च सुदृढं कृत्वा हन्त्यरीन्पाण्डवस्ततः
अशक्यान्पाण्डवान्मन्ये देवैर् अपि सवासवैः
एषाम् अर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ
श्रेयश्च यदि मन्यध्वं मन्मतं यदि वो मतम्
संविदं पाण्डवैः सार्धं कृत्वा याम यथागतम्
गोपुराट्टालकैर् उच्चैर् उपतल्पशतैर् अपि
गुप्तं पुरवरं श्रेष्ठम् एतद् अद्भिश्च संवृतम्
तृणधान्येन्धनरसैस्तथा यन्त्रायुधौषधैः
युक्तं ह्युरुकवाटैश्च द्रव्यागारतुषादिकैः
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम्
दृढप्राकारनिर्यूहं शतघ्नीजालसंवृतम्
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः
तद् एतन्नरगर्भेण पाण्डरेण विराजते
सालेनानेकतालेन सर्वतः संवृतं पुरम्
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः
दानमानार्चिताः सर्वे बाह्याश्चाभ्यन्तराश्च ये
प्रतिरुद्धान् इमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः
तस्मात्संधिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः
स्वराष्ट्रम् एव गच्छामो यद्याप्तं वचनं मम
एतन्मम मतं सर्वैः क्रियतां यदि रोचते
एतच्च सुकृतं मन्ये क्षेमं चापि महीक्षिताम्
सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा
उवाच वचनं काले कालज्ञः सर्वकर्मणाम्
नीतिपूर्वम् इदं सर्वम् उक्तं वचनम् अर्थवत्
वचनं नाभ्यसूयामि श्रूयतां मद्वचःस्थितिः
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः
द्विधाभूतेन मनसा ह्यन्यत्कर्म न सिध्यति
सम्प्रयाणासनाभ्यां तु कर्शनेन तथैव च
नैतच्छक्यं पुरं हन्तुम् आक्रन्दो ऽस्याप्यशोभनः
अवमर्दनकालो ऽत्र मतश्चिन्तयतो मम
यावन्नो वृष्णयः पार्ष्णीं न गृह्णन्ति रणप्रियाः
प्रभवन्तो हृष्टतुष्टाः स्वबाहुबलशालिनः
प्राकारम् अवमृद्नन्तु परिघाः पूरयन्त्वपि
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम्
तृणकाष्ठेन महता खातम् अस्य प्रपूर्यताम्
घुष्यतां राजसैन्येषु परेषां यो हनिष्यति
नागम् अश्वं पदातिं वा दानमानं स लप्स्यते
नागे दश सहस्राणि पञ्च चाश्वपदातिषु
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः
प्रदरश्च न दातव्यो न गन्तव्यम् अचोदितैः
यशो रक्षत भद्रं वो जेष्यामो वै वयं पुरम्
अनुलोमाश्च नो वाताः सर्वतो मृगपक्षिणः
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे
न हि तेषां मनःसक्तिर् इन्द्रियार्थेषु सर्वशः
यथा पुनर् अरिघ्नानां प्रसवो युद्ध एव च
वैकर्तनपुरोवातः सैन्धवोर्मिमहास्वनः
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः
स राजसागरो भीमो भीमघोषप्रदर्शनः
अभिदुद्राव वेगेन पुरं तद् अपसव्यतः
तद् अनीकम् अनाधृष्यं शस्त्राग्निव्यालदीपितम्
समुत्कूलितम् आज्ञाय चुक्रुशुर्द्रुपदात्मजाः
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः
निर्ययुर्नगरद्वारात्त्रासयन्तः परान्रणे
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः
चित्रकेतुः सुकेतुश्च ध्वजसेनश्च वीर्यवान्
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः
द्रुपदश्च महावीर्यः पाण्डरोष्णीषकेतनः
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः
सपुत्रगणमध्यस्थः शुशुभे राजसत्तमः
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्याम् इवोदितः
अथोद्धूतपताकाग्रम् अजिह्मगतिम् अव्ययम्
द्रुपदानीकम् आयान्तं कुरुसैन्यम् अभिद्रवत्
तयोर् उभयतो जज्ञे भैरवस्तुमुलः स्वनः
बलयोः सम्प्रहरतोः स्रवन्त्योः सरितोर् इव
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः
ज्योतींषि विप्रकीर्णानि सर्वतः प्रचकाशिरे
उत्कृष्टभेरीनिनदे सम्प्रवृत्ते महारवे
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः
रथान्वै मेघनिर्घोषान्युक्तान्परमवाजिभिः
धन्विनो ध्वजिनः शुभ्रान् आस्थाय भरतर्षभाः
ततः पाण्डुसुतान्दृष्ट्वा रथस्थान् आत्तकार्मुकान्
नृपाणाम् अभवत्कम्पो वेपथुर्हृदयेषु च
निर्यातेष्वथ पार्थेषु द्रौपदं तद्बलं रणे
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति
स मुहूर्तं व्यतिकरः सैन्यानाम् अभवद्भृशम्
ततो द्वन्द्वम् अयुध्यन्त मृत्युं कृत्वा निवर्तनम्
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः
अर्जुनः प्रेक्ष्य निहतौ सुमित्रप्रियदर्शनौ
जयद्रथसुतं तत्र जघान पितुर् अन्तिके
वृषसेनाद् अवरजं सुबाहुं वै धनंजयः
कर्णपुत्रं महावीर्यं रथनीडाद् अपातयत्
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ
नामृष्येतां महाबाहू प्रहारम् इव सद्गजौ
तौ जग्मतुर् असंभ्रान्तौ फल्गुनस्य रथं प्रति
प्रतिमुक्ततलत्राणौ त्रायमाणौ परस्परम्
संनिपातस्तयोर् आसीत्फल्गुनेन महामृधे
वृत्रशम्बरयोः संख्ये वज्रिणेव महारणे
त्रीन्हयाञ्जघ्नतुस्तत्र फल्गुनस्य नरर्षभौ
ततः किलिकिलाशब्दः कुरूणाम् अभवत्तदा
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान्
निमेषान्तरमात्रेण रथम् अश्वैर् अयोजयत्
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ
सौबलः सौमदत्तिश्च समेयातां परंतपौ
तैः पञ्चभिर् अदीनात्मा भीमसेनो महाबलः
अयुध्यत बलैर्वीरैर् इन्द्रियार्थैर् इवेश्वरः
तैर्निरुद्धो न संत्रासं जगाम समितिंजयः
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी
तस्य ते युगपत्पञ्च पञ्चभिर्निशितैः शरैः
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम्
हताश्वात्स्यन्दनश्रेष्ठाद् अवरुह्य महारथः
चचार विविधान्मार्गान् असिम् उद्यम्य पाण्डवः
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव ह
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः
विधनुष्कं विकवचं विरथं च समीक्ष्य तम्
अभिपेतुर्नरव्याघ्रम् अर्जुनप्रमुखा रथाः
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ
तस्मिन्दाशरथे युद्धे प्रवृत्ते शरवृष्टिभिः
रथा ध्वजाः पताकाश्च सर्वम् अन्तरधीयत
तत्प्रवृत्तं चिरं कालं युद्धं समम् इवाभवत्
रथेनाथ महाबाहुर् अर्जुनो ऽभ्यपतत्पुनः
तम् आपतन्तं दृष्ट्वैव महाबाहुर्धनुर्धरः
कर्णो ऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः
स तेनाभिहतः पार्थो वासविर्वज्रसंनिभान्
त्रीञ्शरान्संदधे क्रुद्धो वधे कर्णस्य पाण्डवः
तैः शरैर् आहतं कर्णं ध्वजयष्टिम् उपाश्रितम्
अपोवाह रथेनाशु सूतः परपुरंजयम्
ततः पराजिते कर्णे धार्तराष्ट्रान्महद्भयम्
विवेश समुदग्रांश्च पाञ्चालान्प्रसमीक्ष्य च
तत्प्रकम्पितम् अत्यर्थं दृष्ट्वा वै सौबलो बलम्
गिरा गम्भीरया वीरः समाश्वासयतासकृत्
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः
धृतं तत्पुनर् एवासीद्बलं पार्थप्रकम्पितम्
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः
अक्रुध्यत्स महाबाहुर् अगारं जातुषं स्मरन्
ततः संग्रामशिरसि ददर्श विपुलद्रुमम्
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम्
महास्कन्धं महोत्सेधं शक्रध्वजम् इवोच्छ्रितम्
चित्रमाल्याम्बरधरं पताकाशतशोभितम्
सालम् उद्यम्य पाणिभ्याम् उद्धृत्य च रणे बली
अभिपेदे परान्संख्ये वज्रपाणिर् इवासुरान्
भीमसेनभयार्तानि फल्गुनाभिहतानि च
न शेकुस्तान्यनीकानि धार्तराष्ट्राभिरक्षितुम्
तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः
तान्निवृत्तान्निरानन्दान्हतवारणवाजिनः
नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम्
स्वम् एव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः
परे ऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः
मुहूर्तम् अभवद्वैरं तेषां वै पाण्डवैः सह
यावत्तद्युद्धम् अभवन्महद्देवासुरोपमम्
सुवृत्तं चक्रिरे सर्वे सुप्राप्ताम् अब्रुवन्वधूम्
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम्
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि
तेषां तद् अभवद्दुःखं हृदि वाचा तु नाब्रुवन्
ततः प्रयाता राजानः सर्व एव यथागतम्
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा
प्राग् एव पुररोधात्तु पाण्डवैर् अश्वसादिनः
प्रेषिता गच्छतारिष्टान् अस्मान् आख्यात शौरये
ते त्व् अदीर्घेण कालेन गत्वा द्वारवतीं पुरीम्
ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ
कुशलं पाण्डवाः सर्वान् आहुः स्मान्धकवृष्णयः
आत्मनश्चाक्षतान् आहुर्विमुक्ताञ्जातुषाद्गृहात्
समाजे द्रौपदीं स्माहुर्लब्धां राजीवलोचनाम्
आत्मनः सदृशीं सर्वे शीलवृत्तसमाधिभिः
तच्छ्रुत्वा वचनं कृष्णस्तान् उवाचोत्तरं वचः
सर्वम् एतद् अहं जाने वधात्तस्य तु रक्षसः
तत उद्योजयामास केशवश्चतुरङ्गिणीम्
सेवां समुपयात्तूर्णं पाञ्चालनगरं प्रति
ततः संकर्षणश्चैव केशवश्च महाबलः
यादवैः सह सर्वैश्च पाण्डवान् अभिजग्मतुः
पितृष्वसारं सम्पूज्य द्रुपदं च यथाविधि
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा महाधनैः
न्यायतः पूजिता राज्ञा द्रुपदेन महात्मना
रेमिरे पाण्डवैः सार्धं पाञ्चालनगरे तदा
dhikkurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
karmaṇā sunṛśaṃsena purocanakṛtena vai
vaiśaṃpāyanaḥ
śakuniḥ
vaiśaṃpāyanaḥ
vaiśaṃpāyanaḥ
dhārmikānvṛttasampannānmātuḥ priyahite ratān
yadā tān īdṛśānpārthān utsādayitum arhati
tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata
mantrayante tataḥ sarve karṇasaubaladūṣitāḥ
kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ
utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ
evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha
akṛtvā saṃvidaṃ kāṃcittadvastapsyatyasaṃśayam
ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ
na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha
yam ete saṃśritā vastuṃ kāmayante ca bhūmipam
so 'lpavīryabalo rājā drupado vai mato mama
yāvad etānna jānanti jīvato vṛṣṇipuṃgavāḥ
caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān
ekībhāvaṃ gatā rājñā drupadena mahātmanā
durādharṣatarā rājanbhaviṣyanti na saṃśayaḥ
yāvattvacalatāṃ sarve prāpnuvanti narādhipāḥ
tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati
muktā jatugṛhādbhīmād āśīviṣamukhād iva
punaryad iha mucyante mahanno bhayam āviśet
teṣām ihopayātānām eṣāṃ ca puravāsinām
antare duṣkaraṃ sthātuṃ meṣayormahator iva
haladhṛkpragṛhītāni balāni balināṃ svayam
yāvanna kurusenāyāṃ patanti patagā iva
tāvatsarvābhisāreṇa puram etadvināśyatām
etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ
śakunervacanaṃ śrutvā bhāṣamāṇasya durmateḥ
saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ
prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca
tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayedguṇān
sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam
samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam
tato 'haṃ pāṇḍavānmanye mitrakośasamanvitān
balasthānvikramasthāṃśca svakṛtaiḥ prakṛtipriyān
vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca
śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām
na tu kevaladaivena prajā bhāvena bhejire
yadbabhūva manaḥkāntaṃ karmaṇā sa cakāra tat
na hy ayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam
bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī
tān evaṃ guṇasampannānsampannānrājalakṣaṇaiḥ
na tānpaśyāmi ye śaktāḥ samucchettuṃ yathābalāt
prabhāvaśaktirvipulā mantraśaktiśca puṣkalā
tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā
maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ
sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ
amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ
parikrīya dhanaiḥ śatrūnmitrāṇi ca dhanāni ca
mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīnpāṇḍavastataḥ
aśakyānpāṇḍavānmanye devair api savāsavaiḥ
eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau
śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam
saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam
gopurāṭṭālakair uccair upatalpaśatair api
guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam
tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ
yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ
bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam
dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam
aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ
prākārakartṛbhirvīrairnṛgarbhastatra pūjitaḥ
tad etannaragarbheṇa pāṇḍareṇa virājate
sālenānekatālena sarvataḥ saṃvṛtaṃ puram
anuraktāḥ prakṛtayo drupadasya mahātmanaḥ
dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye
pratiruddhān imāñjñātvā rājabhirbhīmavikramaiḥ
upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ
tasmātsaṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ
svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama
etanmama mataṃ sarvaiḥ kriyatāṃ yadi rocate
etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām
saumadattervacaḥ śrutvā karṇo vaikartano vṛṣā
uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām
nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat
vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ
dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ
dvidhābhūtena manasā hyanyatkarma na sidhyati
samprayāṇāsanābhyāṃ tu karśanena tathaiva ca
naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ
avamardanakālo 'tra mataścintayato mama
yāvanno vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ
prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ
prākāram avamṛdnantu parighāḥ pūrayantvapi
prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam
tṛṇakāṣṭhena mahatā khātam asya prapūryatām
ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati
nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate
nāge daśa sahasrāṇi pañca cāśvapadātiṣu
rathe vai dviguṇaṃ nāgādvasu dāsyanti pārthivāḥ
yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ
ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ
pradaraśca na dātavyo na gantavyam acoditaiḥ
yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram
anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ
agnayaśca virājante śastrāṇi kavacāni ca
tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ
niryayuḥ pṛthivīpālāścālayantaḥ parānraṇe
na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ
yathā punar arighnānāṃ prasavo yuddha eva ca
vaikartanapurovātaḥ saindhavormimahāsvanaḥ
duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ
sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ
abhidudrāva vegena puraṃ tad apasavyataḥ
tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam
samutkūlitam ājñāya cukruśurdrupadātmajāḥ
te meghasamanirghoṣairbalinaḥ syandanottamaiḥ
niryayurnagaradvārāttrāsayantaḥ parānraṇe
dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ
citraketuḥ suketuśca dhvajasenaśca vīryavān
putrā drupadarājasya balavanto jayaiṣiṇaḥ
drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ
pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ
saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ
candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ
athoddhūtapatākāgram ajihmagatim avyayam
drupadānīkam āyāntaṃ kurusainyam abhidravat
tayor ubhayato jajñe bhairavastumulaḥ svanaḥ
balayoḥ sampraharatoḥ sravantyoḥ saritor iva
prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ
jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire
utkṛṣṭabherīninade sampravṛtte mahārave
amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ
rathānvai meghanirghoṣānyuktānparamavājibhiḥ
dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ
tataḥ pāṇḍusutāndṛṣṭvā rathasthān āttakārmukān
nṛpāṇām abhavatkampo vepathurhṛdayeṣu ca
niryāteṣvatha pārtheṣu draupadaṃ tadbalaṃ raṇe
āviśatparamo harṣaḥ pramodaśca jayaṃ prati
sa muhūrtaṃ vyatikaraḥ sainyānām abhavadbhṛśam
tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam
jaghnatuḥ samare tasminsumitrapriyadarśanau
jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ
arjunaḥ prekṣya nihatau sumitrapriyadarśanau
jayadrathasutaṃ tatra jaghāna pitur antike
vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ
karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat
tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau
nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau
tau jagmatur asaṃbhrāntau phalgunasya rathaṃ prati
pratimuktatalatrāṇau trāyamāṇau parasparam
saṃnipātastayor āsītphalgunena mahāmṛdhe
vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe
trīnhayāñjaghnatustatra phalgunasya nararṣabhau
tataḥ kilikilāśabdaḥ kurūṇām abhavattadā
tānhayānnihatāndṛṣṭvā bhīmasenaḥ pratāpavān
nimeṣāntaramātreṇa ratham aśvair ayojayat
upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau
saubalaḥ saumadattiśca sameyātāṃ paraṃtapau
taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ
ayudhyata balairvīrair indriyārthair iveśvaraḥ
tairniruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ
pañcabhirdviradairmattairniruddha iva kesarī
tasya te yugapatpañca pañcabhirniśitaiḥ śaraiḥ
sārathiṃ vājinaścaiva ninyurvaivasvatakṣayam
hatāśvātsyandanaśreṣṭhād avaruhya mahārathaḥ
cacāra vividhānmārgān asim udyamya pāṇḍavaḥ
aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha
vyacaratpātayañśatrūnsuparṇa iva bhoginaḥ
vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam
abhipeturnaravyāghram arjunapramukhā rathāḥ
dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau
tasmindāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ
rathā dhvajāḥ patākāśca sarvam antaradhīyata
tatpravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat
rathenātha mahābāhur arjuno 'bhyapatatpunaḥ
tam āpatantaṃ dṛṣṭvaiva mahābāhurdhanurdharaḥ
karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ
sa tenābhihataḥ pārtho vāsavirvajrasaṃnibhān
trīñśarānsaṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ
taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam
apovāha rathenāśu sūtaḥ parapuraṃjayam
tataḥ parājite karṇe dhārtarāṣṭrānmahadbhayam
viveśa samudagrāṃśca pāñcālānprasamīkṣya ca
tatprakampitam atyarthaṃ dṛṣṭvā vai saubalo balam
girā gambhīrayā vīraḥ samāśvāsayatāsakṛt
dhārtarāṣṭraistataḥ sarvairduryodhanapuraḥsaraiḥ
dhṛtaṃ tatpunar evāsīdbalaṃ pārthaprakampitam
tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ
akrudhyatsa mahābāhur agāraṃ jātuṣaṃ smaran
tataḥ saṃgrāmaśirasi dadarśa vipuladrumam
āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam
mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam
citramālyāmbaradharaṃ patākāśataśobhitam
sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī
abhipede parānsaṃkhye vajrapāṇir ivāsurān
bhīmasenabhayārtāni phalgunābhihatāni ca
na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum
tāni saṃbhrāntayodhāni śrāntavājigajāni ca
diśaḥ prākālayadbhīmo divīvābhrāṇi mārutaḥ
tānnivṛttānnirānandānhatavāraṇavājinaḥ
nānusasrurna cājaghnurnocuḥ kiṃcicca dāruṇam
svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ
pare 'pyabhiyayurhṛṣṭāḥ puraṃ paurasukhāvahāḥ
muhūrtam abhavadvairaṃ teṣāṃ vai pāṇḍavaiḥ saha
yāvattadyuddham abhavanmahaddevāsuropamam
suvṛttaṃ cakrire sarve suprāptām abruvanvadhūm
kṛtārthaṃ drupadaṃ cocurdhṛṣṭadyumnaṃ ca pārṣatam
śakuniḥ sindhurājaśca karṇaduryodhanāvapi
teṣāṃ tad abhavadduḥkhaṃ hṛdi vācā tu nābruvan
tataḥ prayātā rājānaḥ sarva eva yathāgatam
dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā
prāg eva purarodhāttu pāṇḍavair aśvasādinaḥ
preṣitā gacchatāriṣṭān asmān ākhyāta śauraye
te tv adīrgheṇa kālena gatvā dvāravatīṃ purīm
ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau
kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ
ātmanaścākṣatān āhurvimuktāñjātuṣādgṛhāt
samāje draupadīṃ smāhurlabdhāṃ rājīvalocanām
ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ
tacchrutvā vacanaṃ kṛṣṇastān uvācottaraṃ vacaḥ
sarvam etad ahaṃ jāne vadhāttasya tu rakṣasaḥ
tata udyojayāmāsa keśavaścaturaṅgiṇīm
sevāṃ samupayāttūrṇaṃ pāñcālanagaraṃ prati
tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ
yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ
pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi
draupadīṃ bhūṣaṇaiḥ śubhrairbhūṣayitvā mahādhanaiḥ
nyāyataḥ pūjitā rājñā drupadena mahātmanā
remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā
- 8
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्
vṛtte svayaṃvare caiva rājānaḥ sarva eva te
yathāgataṃ viprajagmurviditvā pāṇḍavānvṛtān
- 9
अथ दुर्योधनो राजा विमना भ्रातृभिः सह
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
atha duryodhano rājā vimanā bhrātṛbhiḥ saha
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
- 10
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्
तं तु दुःशासनो व्रीडन्मन्दं मन्दम् इवाब्रवीत्
खिद्यच्छुष्यन्मुखो राजा दूयमानेन चेतसा
vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam
taṃ tu duḥśāsano vrīḍanmandaṃ mandam ivābravīt
khidyacchuṣyanmukho rājā dūyamānena cetasā
- 11
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्
yadyasau brāhmaṇo na syādvindeta draupadīṃ na saḥ
na hi taṃ tattvato rājanveda kaściddhanaṃjayam
- 12
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम्
धिग् अस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः
बद्ध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम्
उद्वाह्य राज्ञां तैर्न्यस्तं पादं वामं पृथासुतैः
विमुक्ताः कथम् एतेन जतुवेश्महविर्भुजा
अस्माकं पौरुषं सत्त्वं बुद्धिश्चापि गता कुतः
वयं हता मातुलाद्य विश्वस्य च पुरोचनम्
अदग्ध्वा पाण्डवान्दग्ध्वा स्वयं दग्धो हुताशने
मत्तो मातुल मन्ये ऽहं पाण्डवा बुद्धिमत्तराः
तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः
daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
dhig asmatpauruṣaṃ tāta yaddharantīha pāṇḍavāḥ
baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām
udvāhya rājñāṃ tairnyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ
vimuktāḥ katham etena jatuveśmahavirbhujā
asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ
vayaṃ hatā mātulādya viśvasya ca purocanam
adagdhvā pāṇḍavāndagdhvā svayaṃ dagdho hutāśane
matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ
teṣāṃ nāsti bhayaṃ mṛtyormuktānāṃ jatuveśmanaḥ
- 13
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम्
पञ्चपुत्रां किरातीं च विदुरं च महामतिम्
विविशुर्हास्तिनपुरं दीना विगतचेतसः
evaṃ sambhāṣamāṇāste nindantaśca purocanam
pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim
viviśurhāstinapuraṃ dīnā vigatacetasaḥ
- 14
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः
मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च
trastā vigatasaṃkalpā dṛṣṭvā pārthānmahaujasaḥ
muktānhavyavahāccainānsaṃyuktāndrupadena ca
- 15
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम्
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्
मुखानि धार्तराष्ट्राणां दृष्ट्वा क्षत्ता मुदान्वितः
विकसद्धृन्मुखाम्भोजः पद्मं दृष्ट्वेव भास्करम्
dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam
drupadasyātmajāṃścānyānsarvayuddhaviśāradān
mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ
vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram
- 16
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्
सर्वांस्तु बलिनो वीरान्संयुक्तान्द्रुपदेन च
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पान् उपागतान्
vidurastvatha tāñśrutvā draupadyā pāṇḍavānvṛtān
sarvāṃstu balino vīrānsaṃyuktāndrupadena ca
vrīḍitāndhārtarāṣṭrāṃśca bhagnadarpān upāgatān
- 17
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः
वैशंपायनः
सर्वापद्भ्यो विमुक्ताश्च विमुक्ता राजसंगरात्
कृष्णया संवृताश्चैव वीरलक्ष्म्या तथैव च
विदुरोक्तं वचः श्रुत्वा सामान्यात्कौरवा इति
उल्ललास स हर्षेण संतोषभरितो नृपः
प्रहर्षहरितो राजा स्तम्भीभूत इव क्षणम्
tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
vaiśaṃpāyanaḥ
sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt
kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca
viduroktaṃ vacaḥ śrutvā sāmānyātkauravā iti
ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ
praharṣaharito rājā stambhībhūta iva kṣaṇam
- 18
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत
vaicitravīryastu nṛpo niśamya vidurasya tat
abravītparamaprīto diṣṭyā diṣṭyeti bhārata
- 19
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया
दुर्योधनम् अविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः
manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā
duryodhanam avijñānātprajñācakṣurnareśvaraḥ
- 20
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु
पुत्राणां च तथा सर्वं विचित्राभरणं वरम्
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा
atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu
putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
- 21
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान्
पुत्राभिवृद्धिसंतोषश्रवणानन्दनिर्भरम्
कौरवा इति सामान्यान्न मन्येथास्तवात्मजान्
वर्धिता इति मद्वाक्याद्वर्धिताः पाण्डुनन्दनाः
कृष्णया संवृताः पार्था विमुक्ता राजसंगरात्
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च
संकर्षणेन कृष्णेन सत्कृतान्पाण्डुनन्दनान्
एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः
आकारच्छादनार्थं तु दिष्ट्या दिष्ट्येति चाब्रवीत्
एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः
साध्वाचारा तथा कुन्ती संबन्धो द्रुपदेन च
अन्ववाये वसोर्जातः प्रवरो मात्स्यके कुले
वृत्तविद्यातपोवृद्धः पार्थिवानां धुरंधरः
पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः
न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसंभवा
आलिङ्गस्वेति मां क्षत्तः पुनः पुनर् अभाषत
दुर्भावगोपनार्थाय बाहू विस्तार्य दूरतः
एह्येहि विदुर प्राज्ञ माम् आलिङ्गितुम् अर्हसि
इत्युक्त्वाकृष्य विदुरं ज्ञात्वान्तर्भावम् आत्मनः
आलिलिङ्गे दृढं दोर्भ्यां निरुच्छ्वासं दुरात्मवान्
तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान्
समागतान्पाण्डवेयैस्तस्मिन्न् एव स्वयंवरे
athāsya paścādvidura ācakhyau pāṇḍavānvṛtān
putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam
kauravā iti sāmānyānna manyethāstavātmajān
vardhitā iti madvākyādvardhitāḥ pāṇḍunandanāḥ
kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt
sarvānkuśalino vīrānpūjitāndrupadena ca
saṃkarṣaṇena kṛṣṇena satkṛtānpāṇḍunandanān
etacchrutvā tu vacanaṃ vidurasya narādhipaḥ
ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt
evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ
sādhvācārā tathā kuntī saṃbandho drupadena ca
anvavāye vasorjātaḥ pravaro mātsyake kule
vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ
putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ
na mamau me tanau prītistvadvākyāmṛtasaṃbhavā
āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata
durbhāvagopanārthāya bāhū vistārya dūrataḥ
ehyehi vidura prājña mām āliṅgitum arhasi
ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ
āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān
teṣāṃ saṃbandhinaścānyānbahūnbalasamanvitān
samāgatānpāṇḍaveyaistasminn eva svayaṃvare
- 22
धृतराष्ट्र उवाच
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम
सेयम् अभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता
या प्रीतिः पाण्डुपुत्रेषु न सान्यत्र ममाभिभो
नित्यो ऽयं निश्चितः क्षत्तः सत्यं सत्येन ते शपे
तेषां संबन्धिनश्चान्ये बहवः सुमहाबलाः
तन्मे पुत्रा दुरात्मानो विनष्टा इति मे मतिः
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः
मित्रवन्तो ऽभवन्पुत्रा दुर्योधनमुखाः सदा
मया श्रुता यदा वह्नेर्दग्धाः पाण्डुसुता इति
तदादह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च
असहायाश्च मे पुत्रा लूनपक्षा इव द्विजाः
तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम
अद्य मे स्थिरसाम्राज्यम् आ चन्द्रार्कं ममाभवत्
dhṛtarāṣṭra uvāca
yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama
seyam abhyadhikā prītirvṛddhirvidura me matā
yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho
nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape
teṣāṃ saṃbandhinaścānye bahavaḥ sumahābalāḥ
tanme putrā durātmāno vinaṣṭā iti me matiḥ
yatte kuśalino vīrā mitravantaśca pāṇḍavāḥ
mitravanto 'bhavanputrā duryodhanamukhāḥ sadā
mayā śrutā yadā vahnerdagdhāḥ pāṇḍusutā iti
tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca
asahāyāśca me putrā lūnapakṣā iva dvijāḥ
tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama
adya me sthirasāmrājyam ā candrārkaṃ mamābhavat
- 23
को हि द्रुपदम् आसाद्य मित्रं क्षत्तः सबान्धवम्
न बुभूषेद्भवेनार्थी गतश्रीर् अपि पार्थिवः
ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
na bubhūṣedbhavenārthī gataśrīr api pārthivaḥ
- 24
वैशंपायन उवाच
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत
बुद्धिर् एषा महाराज रूढमूला च ते हृदि
कर्मणा मनसा वाचा स्थिरा यदि जनेश्वर
नित्यं भवतु ते बुद्धिर् एषा राजञ्शतं समाः
इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम्
इत्युक्त्वा निरगात्क्षत्ता स्वगृहाय महामते
vaiśaṃpāyana uvāca
taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi
karmaṇā manasā vācā sthirā yadi janeśvara
nityaṃ bhavatu te buddhir eṣā rājañśataṃ samāḥ
ityuktvā prayayau rājanviduraḥ svaṃ niveśanam
ityuktvā niragātkṣattā svagṛhāya mahāmate
- 25
ततो दुर्योधनश्चैव राधेयश्च विशां पते
धृतराष्ट्रम् उपागम्य वचो ऽब्रूताम् इदं तदा
tato duryodhanaścaiva rādheyaśca viśāṃ pate
dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
- 26
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः
विविक्तम् इति वक्ष्यावः किं तवेदं चिकीर्षितम्
saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ
viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
- 27
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिम् आत्मनः
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर
sapatnavṛddhiṃ yattāta manyase vṛddhim ātmanaḥ
abhiṣṭauṣi ca yatkṣattuḥ samīpe dvipadāṃ vara
- 28
अन्यस्मिन्नृप कर्तव्ये त्वम् अन्यत्कुरुषे ऽनघ
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः
anyasminnṛpa kartavye tvam anyatkuruṣe 'nagha
teṣāṃ balavighāto hi kartavyastāta nityaśaḥ
- 29
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान्
te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe
yathā no na graseyuste saputrabalabāndhavān

