22 shlokas
- 1
वैशंपायन उवाच
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः
प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन्
vaiśaṃpāyana uvāca
tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ
pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
- 2
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलम् अन्ततः
आसने काञ्चने शुभ्रे निषसाद महामनाः
pratinandya sa tānsarvānpṛṣṭvā kuśalam antataḥ
āsane kāñcane śubhre niṣasāda mahāmanāḥ
- 3
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः
anujñātāstu te sarve kṛṣṇenāmitatejasā
āsaneṣu mahārheṣu niṣedurdvipadāṃ varāḥ
- 4
ततो मुहूर्तान्मधुरां वाणीम् उच्चार्य पार्षतः
पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः
tato muhūrtānmadhurāṃ vāṇīm uccārya pārṣataḥ
papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ
- 5
कथम् एका बहूनां स्यान्न च स्याद्धर्मसंकरः
एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम्
katham ekā bahūnāṃ syānna ca syāddharmasaṃkaraḥ
etanno bhagavānsarvaṃ prabravītu yathātatham
- 6
व्यास उवाच
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके
यस्य यस्य मतं यद्यच्छ्रोतुम् इच्छामि तस्य तत्
vyāsa uvāca
asmindharme vipralambhe lokavedavirodhake
yasya yasya mataṃ yadyacchrotum icchāmi tasya tat
- 7
द्रुपद उवाच
अधर्मो ऽयं मम मतो विरुद्धो लोकवेदयोः
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम
drupada uvāca
adharmo 'yaṃ mama mato viruddho lokavedayoḥ
na hyekā vidyate patnī bahūnāṃ dvijasattama
- 8
न चाप्याचरितः पूर्वैर् अयं धर्मो महात्मभिः
न च धर्मो ऽप्यनेकस्थश्चरितव्यः सनातनः
na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ
- 9
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति
धर्मसंदेहसंदिग्धं प्रतिभाति हि माम् इदम्
ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati
dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam
- 10
धृष्टद्युम्न उवाच
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन
dhṛṣṭadyumna uvāca
yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
brahmansamabhivarteta sadvṛttaḥ saṃstapodhana
- 11
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन
अधर्मो धर्म इति वा व्यवसायो न शक्यते
na tu dharmasya sūkṣmatvādgatiṃ vidmaḥ kathaṃcana
adharmo dharma iti vā vyavasāyo na śakyate
- 12
कर्तुम् अस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम्
पञ्चानां महिषी कृष्णा भवत्विति कथंचन
kartum asmadvidhairbrahmaṃstato na vyavasāmyaham
pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathaṃcana
- 13
युधिष्ठिर उवाच
न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः
वर्तते हि मनो मे ऽत्र नैषो ऽधर्मः कथंचन
yudhiṣṭhira uvāca
na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana
- 14
श्रूयते हि पुराणे ऽपि जटिला नाम गौतमी
तस्य पुत्री महाप्राज्ञा गौतमस्य यशस्विनी
ऋषीन् अध्यासितवती सप्त धर्मभृतां वर
तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः
संगताभूद्दश भ्रातॄन् एकनाम्नः प्रचेतसः
śrūyate hi purāṇe 'pi jaṭilā nāma gautamī
tasya putrī mahāprājñā gautamasya yaśasvinī
ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
tathaiva munijā vārkṣī tapobhirbhāvitātmanaḥ
saṃgatābhūddaśa bhrātṝn ekanāmnaḥ pracetasaḥ
- 15
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः
gurośca vacanaṃ prāhurdharmaṃ dharmajñasattama
gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
- 16
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यताम् इति
तस्माद् एतद् अहं मन्ये धर्मं द्विजवरोत्तम
sā cāpyuktavatī vācaṃ bhaikṣavadbhujyatām iti
tasmād etad ahaṃ manye dharmaṃ dvijavarottama
- 17
कुन्त्युवाच
भुज्यतां भ्रातृभिः सार्धम् इत्यर्जुनम् अचोदयम्
एवम् एतद्यथाहायं धर्मचारी युधिष्ठिरः
अनृतान्मे भयं तीव्रं मुच्येयम् अनृतात्कथम्
kuntyuvāca
bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam
evam etadyathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
anṛtānme bhayaṃ tīvraṃ mucyeyam anṛtātkatham
- 18
व्यास उवाच
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम्
vyāsa uvāca
anṛtānmokṣyase bhadre dharmaścaiṣa sanātanaḥ
na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam
- 19
यथायं विहितो धर्मो यतश्चायं सनातनः
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः
yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ
yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ
- 20
वैशंपायन उवाच
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः
करे गृहीत्वा राजानं राजवेश्म समाविशत्
vaiśaṃpāyana uvāca
tata utthāya bhagavānvyāso dvaipāyanaḥ prabhuḥ
kare gṛhītvā rājānaṃ rājaveśma samāviśat
- 21
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः
विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ
pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ
vicetasaste tatraiva pratīkṣante sma tāvubhau
- 22
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने
आचख्यौ तद्यथा धर्मो बहूनाम् एकपत्निता
यथा देवा ददुश्चैव राजपुत्र्याः पुरा वरम्
धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वम् ईश्वराः
व्यासः
ऋषिः
व्यासः
नाᄆआयनी
व्यासः
द्रुपदः
व्यासः
इन्द्रसेना
ऋषिः
व्यासः
नाᄆआयनी
महेश्वरः
नाᄆआयनी
महेश्वरः
नाᄆआयनी
महेश्वरः
व्यासः
मा भूद्राजंस्तव तापो मनःस्थः पञ्चानां भार्या दुहिता ममेति
मातुर् एषा पार्थिव प्रार्थिता स्यात्पञ्चानां भार्या दुहिता ममेति
याजोपयाजौ धर्मरतौ तपोभ्यां तौ चक्रतुः पञ्चपतित्वम् अस्याः
सा धर्मतः पाण्डुपुत्रैर् अवाप्ता भार्या कृष्णा मोदतां वै कुलं ते
लोके नान्यो नाथवांस्त्वद्विशिष्टः सर्वारीणाम् अप्रधृष्यो ऽसि राजन्
भूयस्तु मे शृण्विदं त्वं विशोको यथागमं पञ्चपतित्वम् अस्याः
एषा नाᄆआयनी पूर्वं मौद्गल्यं स्थविरं पतिम्
आराधयामास तदा कुष्ठिनं तम् अनिन्दिता
त्वगस्थिभूतं कटुकं लोलम् ईर्ष्युं सुकोपनम्
सुगन्धेतरगन्धाढ्यं वलीपलितधारिणम्
स्थविरं विकृताकारं शीर्यमाणनखत्वचम्
उच्छिष्टम् उपभुञ्जाना पर्युपास्ते महाव्रता
ततः कदाचिद् अङ्गुष्ठो भुञ्जानस्य व्यशीर्यत
अन्नाद् उद्धृत्य तच्चान्नम् उपायुङ्क्ताविशङ्किता
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा
वरं वृणीष्वेत्यसकृद् उक्ता वव्रे वरं तदा
नास्मि वृद्धो न कटुको नेर्ष्युर्नैवातिकोपनः
न च दुर्गन्धवदनो न कृशो न च लोलुपः
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम्
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि
सा तम् अक्लिष्टकर्माणं वरदं सर्वकामदम्
भर्तारम् अनवद्याङ्गी प्रसन्नं प्रत्युवाच ह
पञ्चबाणातिविद्धाहं मन्मथस्य महामते
पञ्चधा मां विभक्तात्मा भगवांल्लोकविश्रुतः
रमय त्वम् अचिन्त्यात्मन्पुनश्चैकत्वम् आस्थितः
तां तथेत्यब्रवीद्धीमान्ब्रह्मर्षिर्वै महातपाः
स पञ्चधानुभूत्वा तां रमयामास सर्वशः
नाᄆआयनीं सुकेशान्तां मुद्गलश्चारुहासिनीम्
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः
विचचार यथाकामं कामरूपवपुः पुनः
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह
सुधामृतरसाहारः सुरलोके चचार ह
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया
सूर्यस्य च रथं दिव्यम् आरुह्य भगवान्प्रभुः
पर्युपेत्य पुनर्मेरुं मेरौ वासम् अरोचयत्
आकाशगङ्गाम् आप्लुत्य तया सह तपोनिधिः
अंशुजालेषु चन्द्रस्य उवास च यथानिलः
गिरिरूपं यदा दध्रे स महर्षिस्तदा पुनः
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी
यदा पुष्पाकुलः सालः संजज्ञे भगवान् ऋषिः
लतात्वम् अथ संपेदे तम् एवाभ्यनुवेष्टती
पुपोष च वपुर्यस्य तस्यानुगं पुनः
सा पुपोष समं भर्तुः स्कन्धेनापि चचार ह
ततस्तस्य च तस्याश्च तुल्या प्रीतिर् अवर्धत
तथा हि भगवांस्तस्याः प्रसादाद् ऋषिसत्तमः
विजज्ञुषी च सा तत्र दैवयोगेन भामिनी
स च तां तपसा देवीं रमयामास योगतः
एकपत्नी पुरा भूत्वा सदैवाग्रे यशस्विनी
अरुन्धतीव सीतेव बभूवातिपतिव्रता
दमयन्त्याश्च मातुः सा विशेषम् अधिकं ययौ
एतत्तथ्यं महाराज मा ते भूद्बुद्धिर् अन्यथा
एषा नाᄆआयनी जज्ञे दैवयोगेन केनचित्
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा
तस्मिंस्तस्या मनः सक्तं न शशाक कदाचन
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे
ब्रूहि तत्कारणं येन ब्रह्मञ्जाता तपस्विनी
सुता ममाध्वरे कृष्णा सर्ववेदविदां वर
शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः
यदर्थं चैव सम्भूता तव यज्ञे यशस्विनी
अहं ते कथयिष्यामि कृष्णायाः पौर्वदेहिकम्
इन्द्रसेनेति विख्याता पुरा नाᄆआयनी शुभा
मौद्गल्यं पतिम् आसाद्य चचार विगतज्वरा
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया
संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा
ततः कदाचिद्धर्मात्मा तृप्तः कामाद्व्यरज्यत
अन्विच्छन्परमं ब्रह्म त्यागधर्मपरो ऽभवत्
उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि
मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा
कामभोगातुराभ्येत्य वचनं चेदम् अब्रवीत्
प्रसीद भगवन्मह्यं न माम् उत्स्रष्टुम् अर्हसि
अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात्
मारो मां बाधते ऽत्यर्थम् अनुगृह्णातु मां भवान्
तर्पयस्व ममाक्षाणि गुह्यं मां बाधते ऽनिशम्
यस्मात्त्वं मयि निःशङ्का ह्यवक्तव्यं प्रभाषसे
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम
भविष्यसि नृलोके त्वं राजपुत्री यशस्विनी
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः
भवितारस्तु ते तत्र पतयः पञ्च विश्रुताः
तैः सार्धं मधुराकारैश्चिरं रतिम् अवाप्स्यसि
सैवं शप्ता तु विमना वनं प्राप्ता यशस्विनी
भोगैर् अतृप्ता देवेशं तपसाराधयत्तदा
निराशीर्मारुताहारा निराहारा तथैव च
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत्
तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम्
वरं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः
भविष्यति परं जन्म मानुषेषु वराङ्गने
भविष्यन्ति च ते भद्रे पतयः पञ्च सुव्रताः
महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि
एकः खलु मया भर्ता वृतः पञ्चापि मे कथम्
भविष्यन्ति ममैकस्याः पतयस्तद्ब्रवीहि मे
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः
पञ्च ते पतयो भद्रे भविष्यन्ति सुखावहाः
धर्म एकः पतिः स्त्रीणां पूर्वम् एव प्रकल्पितः
बहुपत्नीकता पुंसां धर्मश्च पितृभिः कृतः
स्त्रीधर्मः पूर्वम् एवायं निर्मितो मुनिभिः पुरा
सहधर्मचरी भर्तुर् एका एकस्य चोच्यते
एको हि भर्ता नारीणां कौमार इति लौकिकः
आपत्सु च नियोगेन संतानार्थे परः स्मृतः
गच्छेत या तृतीयं तु तस्या निष्कृतिर् उच्यते
चतुर्थे पतिता धर्मात्पञ्चमे वर्धकी भवेत्
एवं गते धर्मपथे न वृणे बहुपुंस्कताम्
अलोकाचरितात्तस्मात्कथं मुच्येय संकरात्
अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे
सकृद् उक्तं त्वया नैतान्नाधर्मस्ते भविष्यति
यदि मे पतयः पञ्च वरम् इच्छामि तैर्मिथः
कौमारं च भवेत्सर्वैः संगमे संगमे च मे
पतिशुश्रूषया चैव सिद्धिः प्राप्ता पुरा मया
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत्
रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम्
अभोगा लप्स्यसे सिद्धिं योगेनापि महत्वताम्
अन्यदेहान्तरे च त्वं रूपभाग्यगुणान्विता
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि
गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे
तम् आनय ममाभ्याशं सुरराजं शुचिस्मिते
इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम्
जगाम गङ्गाम् उद्दिश्य पुण्यां त्रिपथगां नदीम्
tato dvaipāyanastasmai narendrāya mahātmane
ācakhyau tadyathā dharmo bahūnām ekapatnitā
yathā devā daduścaiva rājaputryāḥ purā varam
dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ
vyāsaḥ
ṛṣiḥ
vyāsaḥ
nāᄆāyanī
vyāsaḥ
drupadaḥ
vyāsaḥ
indrasenā
ṛṣiḥ
vyāsaḥ
nāᄆāyanī
maheśvaraḥ
nāᄆāyanī
maheśvaraḥ
nāᄆāyanī
maheśvaraḥ
vyāsaḥ
mā bhūdrājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti
mātur eṣā pārthiva prārthitā syātpañcānāṃ bhāryā duhitā mameti
yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ
sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te
loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan
bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ
eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim
ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā
tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam
sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam
sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam
ucchiṣṭam upabhuñjānā paryupāste mahāvratā
tataḥ kadācid aṅguṣṭho bhuñjānasya vyaśīryata
annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā
tena tasyāḥ prasannena kāmavyāhāriṇā tadā
varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā
nāsmi vṛddho na kaṭuko nerṣyurnaivātikopanaḥ
na ca durgandhavadano na kṛśo na ca lolupaḥ
kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham
vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi
sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam
bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha
pañcabāṇātividdhāhaṃ manmathasya mahāmate
pañcadhā māṃ vibhaktātmā bhagavāṃllokaviśrutaḥ
ramaya tvam acintyātmanpunaścaikatvam āsthitaḥ
tāṃ tathetyabravīddhīmānbrahmarṣirvai mahātapāḥ
sa pañcadhānubhūtvā tāṃ ramayāmāsa sarvaśaḥ
nāᄆāyanīṃ sukeśāntāṃ mudgalaścāruhāsinīm
āśrameṣvadhikaṃ cāpi pūjyamāno maharṣibhiḥ
vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ
yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha
sudhāmṛtarasāhāraḥ suraloke cacāra ha
pūjyamānastathā śacyā śakrasya bhavaneṣvapi
mahendrasenayā sārdhaṃ paryadhāvadriraṃsayā
sūryasya ca rathaṃ divyam āruhya bhagavānprabhuḥ
paryupetya punarmeruṃ merau vāsam arocayat
ākāśagaṅgām āplutya tayā saha taponidhiḥ
aṃśujāleṣu candrasya uvāsa ca yathānilaḥ
girirūpaṃ yadā dadhre sa maharṣistadā punaḥ
tatprabhāvena sā tasya madhye jajñe mahānadī
yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ
latātvam atha saṃpede tam evābhyanuveṣṭatī
pupoṣa ca vapuryasya tasyānugaṃ punaḥ
sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha
tatastasya ca tasyāśca tulyā prītir avardhata
tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ
vijajñuṣī ca sā tatra daivayogena bhāminī
sa ca tāṃ tapasā devīṃ ramayāmāsa yogataḥ
ekapatnī purā bhūtvā sadaivāgre yaśasvinī
arundhatīva sīteva babhūvātipativratā
damayantyāśca mātuḥ sā viśeṣam adhikaṃ yayau
etattathyaṃ mahārāja mā te bhūdbuddhir anyathā
eṣā nāᄆāyanī jajñe daivayogena kenacit
rājaṃstavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā
tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana
tathā praṇihito hyātmā tasyāstasmindvijottame
brūhi tatkāraṇaṃ yena brahmañjātā tapasvinī
sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara
śṛṇu rājanyathā hyasyā datto rudreṇa vai varaḥ
yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī
ahaṃ te kathayiṣyāmi kṛṣṇāyāḥ paurvadehikam
indraseneti vikhyātā purā nāᄆāyanī śubhā
maudgalyaṃ patim āsādya cacāra vigatajvarā
maudgalyasya maharṣeśca ramamāṇasya vai tayā
saṃvatsaragaṇā rājanvyatīyuḥ kṣaṇavattadā
tataḥ kadāciddharmātmā tṛptaḥ kāmādvyarajyata
anvicchanparamaṃ brahma tyāgadharmaparo 'bhavat
utsasarja sa tāṃ vipraḥ sā tadā cāpatadbhuvi
maudgalyo rājaśārdūla tapobhirbhāvitaḥ sadā
kāmabhogāturābhyetya vacanaṃ cedam abravīt
prasīda bhagavanmahyaṃ na mām utsraṣṭum arhasi
avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt
māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān
tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam
yasmāttvaṃ mayi niḥśaṅkā hyavaktavyaṃ prabhāṣase
ācarantī tapovighnaṃ tasmācchṛṇu vaco mama
bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī
pāñcālarājasya sutā drupadasya mahātmanaḥ
bhavitārastu te tatra patayaḥ pañca viśrutāḥ
taiḥ sārdhaṃ madhurākāraiściraṃ ratim avāpsyasi
saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī
bhogair atṛptā deveśaṃ tapasārādhayattadā
nirāśīrmārutāhārā nirāhārā tathaiva ca
anuvartamānā tvādityaṃ tathā pañcatapābhavat
tīvreṇa tapasā tasyāstuṣṭaḥ paśupatiḥ svayam
varaṃ prādāttadā rudraḥ sarvalokeśvaraḥ prabhuḥ
bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane
bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ
mahendravapuṣaḥ sarve mahendrasamavikramāḥ
tatrasthā ca mahatkarma surāṇāṃ tvaṃ kariṣyasi
ekaḥ khalu mayā bhartā vṛtaḥ pañcāpi me katham
bhaviṣyanti mamaikasyāḥ patayastadbravīhi me
pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ
pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ
dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ
bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ
strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā
sahadharmacarī bhartur ekā ekasya cocyate
eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ
āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ
gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate
caturthe patitā dharmātpañcame vardhakī bhavet
evaṃ gate dharmapathe na vṛṇe bahupuṃskatām
alokācaritāttasmātkathaṃ mucyeya saṃkarāt
anāvṛtāḥ purā nāryo hyāsañśudhyanti cārtave
sakṛd uktaṃ tvayā naitānnādharmaste bhaviṣyati
yadi me patayaḥ pañca varam icchāmi tairmithaḥ
kaumāraṃ ca bhavetsarvaiḥ saṃgame saṃgame ca me
patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā
bhogecchā ca mayā prāptā sa ca bhogaśca me bhavet
ratiśca bhadre siddhiśca na bhajete parasparam
abhogā lapsyase siddhiṃ yogenāpi mahatvatām
anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā
pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi
gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe
tam ānaya mamābhyāśaṃ surarājaṃ śucismite
ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam
jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm

