Sanskrit

Mahabharat · Adhyaya 192 1.192.7

1.192.7

धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम्

कर्मणा सुनृशंसेन पुरोचनकृतेन वै

वैशंपायनः

शकुनिः

वैशंपायनः

वैशंपायनः

धार्मिकान्वृत्तसम्पन्नान्मातुः प्रियहिते रतान्

यदा तान् ईदृशान्पार्थान् उत्सादयितुम् अर्हति

ततः स्वयंवरे वृत्ते धार्तराष्ट्राः स्म भारत

मन्त्रयन्ते ततः सर्वे कर्णसौबलदूषिताः

कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथा परः

उत्सादनीयाः कौन्तेयाः सर्वे क्षत्रस्य मे मताः

एवं पराजिताः सर्वे यदि यूयं गमिष्यथ

अकृत्वा संविदं कांचित्तद्वस्तप्स्यत्यसंशयम्

अयं देशश्च कालश्च पाण्डवोद्धरणाय नः

न चेद् एवं करिष्यध्वं लोके हास्या भविष्यथ

यम् एते संश्रिता वस्तुं कामयन्ते च भूमिपम्

सो ऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम

यावद् एतान्न जानन्ति जीवतो वृष्णिपुंगवाः

चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान्

एकीभावं गता राज्ञा द्रुपदेन महात्मना

दुराधर्षतरा राजन्भविष्यन्ति न संशयः

यावत्त्वचलतां सर्वे प्राप्नुवन्ति नराधिपाः

तावद् एव व्यवस्यामः पाण्डवानां वधं प्रति

मुक्ता जतुगृहाद्भीमाद् आशीविषमुखाद् इव

पुनर्यद् इह मुच्यन्ते महन्नो भयम् आविशेत्

तेषाम् इहोपयातानाम् एषां च पुरवासिनाम्

अन्तरे दुष्करं स्थातुं मेषयोर्महतोर् इव

हलधृक्प्रगृहीतानि बलानि बलिनां स्वयम्

यावन्न कुरुसेनायां पतन्ति पतगा इव

तावत्सर्वाभिसारेण पुरम् एतद्विनाश्यताम्

एतद् अत्र परं मन्ये प्राप्तकालं नरर्षभाः

शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः

सौमदत्तिर् इदं वाक्यं जगाद परमं ततः

प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च

तथा देशं च कालं च षड्विधांश्च नयेद्गुणान्

स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम्

समीक्ष्याथाभियुञ्जीत परं व्यसनपीडितम्

ततो ऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान्

बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान्

वपुषा भुवि भूतानां नेत्राणि च मनांसि च

श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्

न तु केवलदैवेन प्रजा भावेन भेजिरे

यद्बभूव मनःकान्तं कर्मणा स चकार तत्

न ह्य् अयुक्तं न चासक्तं नामृतं न च विप्रियम्

भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती

तान् एवं गुणसम्पन्नान्सम्पन्नान्राजलक्षणैः

न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथाबलात्

प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला

तथैवोत्साहशक्तिश्च पार्थेष्वभ्यधिका सदा

मौलमित्रबलानां च कालज्ञो वै युधिष्ठिरः

साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः

अमित्रं यतते जेतुं न रोषेणेति मे मतिः

परिक्रीय धनैः शत्रून्मित्राणि च धनानि च

मूलं च सुदृढं कृत्वा हन्त्यरीन्पाण्डवस्ततः

अशक्यान्पाण्डवान्मन्ये देवैर् अपि सवासवैः

एषाम् अर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ

श्रेयश्च यदि मन्यध्वं मन्मतं यदि वो मतम्

संविदं पाण्डवैः सार्धं कृत्वा याम यथागतम्

गोपुराट्टालकैर् उच्चैर् उपतल्पशतैर् अपि

गुप्तं पुरवरं श्रेष्ठम् एतद् अद्भिश्च संवृतम्

तृणधान्येन्धनरसैस्तथा यन्त्रायुधौषधैः

युक्तं ह्युरुकवाटैश्च द्रव्यागारतुषादिकैः

भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम्

दृढप्राकारनिर्यूहं शतघ्नीजालसंवृतम्

ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः

प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः

तद् एतन्नरगर्भेण पाण्डरेण विराजते

सालेनानेकतालेन सर्वतः संवृतं पुरम्

अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः

दानमानार्चिताः सर्वे बाह्याश्चाभ्यन्तराश्च ये

प्रतिरुद्धान् इमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः

उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः

तस्मात्संधिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः

स्वराष्ट्रम् एव गच्छामो यद्याप्तं वचनं मम

एतन्मम मतं सर्वैः क्रियतां यदि रोचते

एतच्च सुकृतं मन्ये क्षेमं चापि महीक्षिताम्

सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा

उवाच वचनं काले कालज्ञः सर्वकर्मणाम्

नीतिपूर्वम् इदं सर्वम् उक्तं वचनम् अर्थवत्

वचनं नाभ्यसूयामि श्रूयतां मद्वचःस्थितिः

द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः

द्विधाभूतेन मनसा ह्यन्यत्कर्म न सिध्यति

सम्प्रयाणासनाभ्यां तु कर्शनेन तथैव च

नैतच्छक्यं पुरं हन्तुम् आक्रन्दो ऽस्याप्यशोभनः

अवमर्दनकालो ऽत्र मतश्चिन्तयतो मम

यावन्नो वृष्णयः पार्ष्णीं न गृह्णन्ति रणप्रियाः

प्रभवन्तो हृष्टतुष्टाः स्वबाहुबलशालिनः

प्राकारम् अवमृद्नन्तु परिघाः पूरयन्त्वपि

प्रस्रावयन्तु सलिलं क्रियतां विषमं समम्

तृणकाष्ठेन महता खातम् अस्य प्रपूर्यताम्

घुष्यतां राजसैन्येषु परेषां यो हनिष्यति

नागम् अश्वं पदातिं वा दानमानं स लप्स्यते

नागे दश सहस्राणि पञ्च चाश्वपदातिषु

रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः

यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः

अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः

प्रदरश्च न दातव्यो न गन्तव्यम् अचोदितैः

यशो रक्षत भद्रं वो जेष्यामो वै वयं पुरम्

अनुलोमाश्च नो वाताः सर्वतो मृगपक्षिणः

अग्नयश्च विराजन्ते शस्त्राणि कवचानि च

ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः

निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे

न हि तेषां मनःसक्तिर् इन्द्रियार्थेषु सर्वशः

यथा पुनर् अरिघ्नानां प्रसवो युद्ध एव च

वैकर्तनपुरोवातः सैन्धवोर्मिमहास्वनः

दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः

स राजसागरो भीमो भीमघोषप्रदर्शनः

अभिदुद्राव वेगेन पुरं तद् अपसव्यतः

तद् अनीकम् अनाधृष्यं शस्त्राग्निव्यालदीपितम्

समुत्कूलितम् आज्ञाय चुक्रुशुर्द्रुपदात्मजाः

ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः

निर्ययुर्नगरद्वारात्त्रासयन्तः परान्रणे

धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः

चित्रकेतुः सुकेतुश्च ध्वजसेनश्च वीर्यवान्

पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः

द्रुपदश्च महावीर्यः पाण्डरोष्णीषकेतनः

पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः

सपुत्रगणमध्यस्थः शुशुभे राजसत्तमः

चन्द्रमा ज्योतिषां मध्ये पौर्णमास्याम् इवोदितः

अथोद्धूतपताकाग्रम् अजिह्मगतिम् अव्ययम्

द्रुपदानीकम् आयान्तं कुरुसैन्यम् अभिद्रवत्

तयोर् उभयतो जज्ञे भैरवस्तुमुलः स्वनः

बलयोः सम्प्रहरतोः स्रवन्त्योः सरितोर् इव

प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः

ज्योतींषि विप्रकीर्णानि सर्वतः प्रचकाशिरे

उत्कृष्टभेरीनिनदे सम्प्रवृत्ते महारवे

अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः

रथान्वै मेघनिर्घोषान्युक्तान्परमवाजिभिः

धन्विनो ध्वजिनः शुभ्रान् आस्थाय भरतर्षभाः

ततः पाण्डुसुतान्दृष्ट्वा रथस्थान् आत्तकार्मुकान्

नृपाणाम् अभवत्कम्पो वेपथुर्हृदयेषु च

निर्यातेष्वथ पार्थेषु द्रौपदं तद्बलं रणे

आविशत्परमो हर्षः प्रमोदश्च जयं प्रति

स मुहूर्तं व्यतिकरः सैन्यानाम् अभवद्भृशम्

ततो द्वन्द्वम् अयुध्यन्त मृत्युं कृत्वा निवर्तनम्

जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ

जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः

अर्जुनः प्रेक्ष्य निहतौ सुमित्रप्रियदर्शनौ

जयद्रथसुतं तत्र जघान पितुर् अन्तिके

वृषसेनाद् अवरजं सुबाहुं वै धनंजयः

कर्णपुत्रं महावीर्यं रथनीडाद् अपातयत्

तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ

नामृष्येतां महाबाहू प्रहारम् इव सद्गजौ

तौ जग्मतुर् असंभ्रान्तौ फल्गुनस्य रथं प्रति

प्रतिमुक्ततलत्राणौ त्रायमाणौ परस्परम्

संनिपातस्तयोर् आसीत्फल्गुनेन महामृधे

वृत्रशम्बरयोः संख्ये वज्रिणेव महारणे

त्रीन्हयाञ्जघ्नतुस्तत्र फल्गुनस्य नरर्षभौ

ततः किलिकिलाशब्दः कुरूणाम् अभवत्तदा

तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान्

निमेषान्तरमात्रेण रथम् अश्वैर् अयोजयत्

उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ

सौबलः सौमदत्तिश्च समेयातां परंतपौ

तैः पञ्चभिर् अदीनात्मा भीमसेनो महाबलः

अयुध्यत बलैर्वीरैर् इन्द्रियार्थैर् इवेश्वरः

तैर्निरुद्धो न संत्रासं जगाम समितिंजयः

पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी

तस्य ते युगपत्पञ्च पञ्चभिर्निशितैः शरैः

सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम्

हताश्वात्स्यन्दनश्रेष्ठाद् अवरुह्य महारथः

चचार विविधान्मार्गान् असिम् उद्यम्य पाण्डवः

अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव ह

व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः

विधनुष्कं विकवचं विरथं च समीक्ष्य तम्

अभिपेतुर्नरव्याघ्रम् अर्जुनप्रमुखा रथाः

धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ

तस्मिन्दाशरथे युद्धे प्रवृत्ते शरवृष्टिभिः

रथा ध्वजाः पताकाश्च सर्वम् अन्तरधीयत

तत्प्रवृत्तं चिरं कालं युद्धं समम् इवाभवत्

रथेनाथ महाबाहुर् अर्जुनो ऽभ्यपतत्पुनः

तम् आपतन्तं दृष्ट्वैव महाबाहुर्धनुर्धरः

कर्णो ऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः

स तेनाभिहतः पार्थो वासविर्वज्रसंनिभान्

त्रीञ्शरान्संदधे क्रुद्धो वधे कर्णस्य पाण्डवः

तैः शरैर् आहतं कर्णं ध्वजयष्टिम् उपाश्रितम्

अपोवाह रथेनाशु सूतः परपुरंजयम्

ततः पराजिते कर्णे धार्तराष्ट्रान्महद्भयम्

विवेश समुदग्रांश्च पाञ्चालान्प्रसमीक्ष्य च

तत्प्रकम्पितम् अत्यर्थं दृष्ट्वा वै सौबलो बलम्

गिरा गम्भीरया वीरः समाश्वासयतासकृत्

धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः

धृतं तत्पुनर् एवासीद्बलं पार्थप्रकम्पितम्

ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः

अक्रुध्यत्स महाबाहुर् अगारं जातुषं स्मरन्

ततः संग्रामशिरसि ददर्श विपुलद्रुमम्

आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम्

महास्कन्धं महोत्सेधं शक्रध्वजम् इवोच्छ्रितम्

चित्रमाल्याम्बरधरं पताकाशतशोभितम्

सालम् उद्यम्य पाणिभ्याम् उद्धृत्य च रणे बली

अभिपेदे परान्संख्ये वज्रपाणिर् इवासुरान्

भीमसेनभयार्तानि फल्गुनाभिहतानि च

न शेकुस्तान्यनीकानि धार्तराष्ट्राभिरक्षितुम्

तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च

दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः

तान्निवृत्तान्निरानन्दान्हतवारणवाजिनः

नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम्

स्वम् एव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः

परे ऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः

मुहूर्तम् अभवद्वैरं तेषां वै पाण्डवैः सह

यावत्तद्युद्धम् अभवन्महद्देवासुरोपमम्

सुवृत्तं चक्रिरे सर्वे सुप्राप्ताम् अब्रुवन्वधूम्

कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम्

शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि

तेषां तद् अभवद्दुःखं हृदि वाचा तु नाब्रुवन्

ततः प्रयाता राजानः सर्व एव यथागतम्

धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा

प्राग् एव पुररोधात्तु पाण्डवैर् अश्वसादिनः

प्रेषिता गच्छतारिष्टान् अस्मान् आख्यात शौरये

ते त्व् अदीर्घेण कालेन गत्वा द्वारवतीं पुरीम्

ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ

कुशलं पाण्डवाः सर्वान् आहुः स्मान्धकवृष्णयः

आत्मनश्चाक्षतान् आहुर्विमुक्ताञ्जातुषाद्गृहात्

समाजे द्रौपदीं स्माहुर्लब्धां राजीवलोचनाम्

आत्मनः सदृशीं सर्वे शीलवृत्तसमाधिभिः

तच्छ्रुत्वा वचनं कृष्णस्तान् उवाचोत्तरं वचः

सर्वम् एतद् अहं जाने वधात्तस्य तु रक्षसः

तत उद्योजयामास केशवश्चतुरङ्गिणीम्

सेवां समुपयात्तूर्णं पाञ्चालनगरं प्रति

ततः संकर्षणश्चैव केशवश्च महाबलः

यादवैः सह सर्वैश्च पाण्डवान् अभिजग्मतुः

पितृष्वसारं सम्पूज्य द्रुपदं च यथाविधि

द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा महाधनैः

न्यायतः पूजिता राज्ञा द्रुपदेन महात्मना

रेमिरे पाण्डवैः सार्धं पाञ्चालनगरे तदा

Transliteration

dhikkurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam

karmaṇā sunṛśaṃsena purocanakṛtena vai

vaiśaṃpāyanaḥ

śakuniḥ

vaiśaṃpāyanaḥ

vaiśaṃpāyanaḥ

dhārmikānvṛttasampannānmātuḥ priyahite ratān

yadā tān īdṛśānpārthān utsādayitum arhati

tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata

mantrayante tataḥ sarve karṇasaubaladūṣitāḥ

kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ

utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ

evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha

akṛtvā saṃvidaṃ kāṃcittadvastapsyatyasaṃśayam

ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ

na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha

yam ete saṃśritā vastuṃ kāmayante ca bhūmipam

so 'lpavīryabalo rājā drupado vai mato mama

yāvad etānna jānanti jīvato vṛṣṇipuṃgavāḥ

caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān

ekībhāvaṃ gatā rājñā drupadena mahātmanā

durādharṣatarā rājanbhaviṣyanti na saṃśayaḥ

yāvattvacalatāṃ sarve prāpnuvanti narādhipāḥ

tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati

muktā jatugṛhādbhīmād āśīviṣamukhād iva

punaryad iha mucyante mahanno bhayam āviśet

teṣām ihopayātānām eṣāṃ ca puravāsinām

antare duṣkaraṃ sthātuṃ meṣayormahator iva

haladhṛkpragṛhītāni balāni balināṃ svayam

yāvanna kurusenāyāṃ patanti patagā iva

tāvatsarvābhisāreṇa puram etadvināśyatām

etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ

śakunervacanaṃ śrutvā bhāṣamāṇasya durmateḥ

saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ

prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca

tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayedguṇān

sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam

samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam

tato 'haṃ pāṇḍavānmanye mitrakośasamanvitān

balasthānvikramasthāṃśca svakṛtaiḥ prakṛtipriyān

vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca

śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām

na tu kevaladaivena prajā bhāvena bhejire

yadbabhūva manaḥkāntaṃ karmaṇā sa cakāra tat

na hy ayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam

bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī

tān evaṃ guṇasampannānsampannānrājalakṣaṇaiḥ

na tānpaśyāmi ye śaktāḥ samucchettuṃ yathābalāt

prabhāvaśaktirvipulā mantraśaktiśca puṣkalā

tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā

maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ

sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ

amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ

parikrīya dhanaiḥ śatrūnmitrāṇi ca dhanāni ca

mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīnpāṇḍavastataḥ

aśakyānpāṇḍavānmanye devair api savāsavaiḥ

eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau

śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam

saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam

gopurāṭṭālakair uccair upatalpaśatair api

guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam

tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ

yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ

bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam

dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam

aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ

prākārakartṛbhirvīrairnṛgarbhastatra pūjitaḥ

tad etannaragarbheṇa pāṇḍareṇa virājate

sālenānekatālena sarvataḥ saṃvṛtaṃ puram

anuraktāḥ prakṛtayo drupadasya mahātmanaḥ

dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye

pratiruddhān imāñjñātvā rājabhirbhīmavikramaiḥ

upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ

tasmātsaṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ

svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama

etanmama mataṃ sarvaiḥ kriyatāṃ yadi rocate

etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām

saumadattervacaḥ śrutvā karṇo vaikartano vṛṣā

uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām

nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat

vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ

dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ

dvidhābhūtena manasā hyanyatkarma na sidhyati

samprayāṇāsanābhyāṃ tu karśanena tathaiva ca

naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ

avamardanakālo 'tra mataścintayato mama

yāvanno vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ

prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ

prākāram avamṛdnantu parighāḥ pūrayantvapi

prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam

tṛṇakāṣṭhena mahatā khātam asya prapūryatām

ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati

nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate

nāge daśa sahasrāṇi pañca cāśvapadātiṣu

rathe vai dviguṇaṃ nāgādvasu dāsyanti pārthivāḥ

yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ

ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ

pradaraśca na dātavyo na gantavyam acoditaiḥ

yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram

anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ

agnayaśca virājante śastrāṇi kavacāni ca

tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ

niryayuḥ pṛthivīpālāścālayantaḥ parānraṇe

na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ

yathā punar arighnānāṃ prasavo yuddha eva ca

vaikartanapurovātaḥ saindhavormimahāsvanaḥ

duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ

sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ

abhidudrāva vegena puraṃ tad apasavyataḥ

tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam

samutkūlitam ājñāya cukruśurdrupadātmajāḥ

te meghasamanirghoṣairbalinaḥ syandanottamaiḥ

niryayurnagaradvārāttrāsayantaḥ parānraṇe

dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ

citraketuḥ suketuśca dhvajasenaśca vīryavān

putrā drupadarājasya balavanto jayaiṣiṇaḥ

drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ

pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ

saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ

candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ

athoddhūtapatākāgram ajihmagatim avyayam

drupadānīkam āyāntaṃ kurusainyam abhidravat

tayor ubhayato jajñe bhairavastumulaḥ svanaḥ

balayoḥ sampraharatoḥ sravantyoḥ saritor iva

prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ

jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire

utkṛṣṭabherīninade sampravṛtte mahārave

amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ

rathānvai meghanirghoṣānyuktānparamavājibhiḥ

dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ

tataḥ pāṇḍusutāndṛṣṭvā rathasthān āttakārmukān

nṛpāṇām abhavatkampo vepathurhṛdayeṣu ca

niryāteṣvatha pārtheṣu draupadaṃ tadbalaṃ raṇe

āviśatparamo harṣaḥ pramodaśca jayaṃ prati

sa muhūrtaṃ vyatikaraḥ sainyānām abhavadbhṛśam

tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam

jaghnatuḥ samare tasminsumitrapriyadarśanau

jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ

arjunaḥ prekṣya nihatau sumitrapriyadarśanau

jayadrathasutaṃ tatra jaghāna pitur antike

vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ

karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat

tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau

nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau

tau jagmatur asaṃbhrāntau phalgunasya rathaṃ prati

pratimuktatalatrāṇau trāyamāṇau parasparam

saṃnipātastayor āsītphalgunena mahāmṛdhe

vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe

trīnhayāñjaghnatustatra phalgunasya nararṣabhau

tataḥ kilikilāśabdaḥ kurūṇām abhavattadā

tānhayānnihatāndṛṣṭvā bhīmasenaḥ pratāpavān

nimeṣāntaramātreṇa ratham aśvair ayojayat

upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau

saubalaḥ saumadattiśca sameyātāṃ paraṃtapau

taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ

ayudhyata balairvīrair indriyārthair iveśvaraḥ

tairniruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ

pañcabhirdviradairmattairniruddha iva kesarī

tasya te yugapatpañca pañcabhirniśitaiḥ śaraiḥ

sārathiṃ vājinaścaiva ninyurvaivasvatakṣayam

hatāśvātsyandanaśreṣṭhād avaruhya mahārathaḥ

cacāra vividhānmārgān asim udyamya pāṇḍavaḥ

aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha

vyacaratpātayañśatrūnsuparṇa iva bhoginaḥ

vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam

abhipeturnaravyāghram arjunapramukhā rathāḥ

dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau

tasmindāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ

rathā dhvajāḥ patākāśca sarvam antaradhīyata

tatpravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat

rathenātha mahābāhur arjuno 'bhyapatatpunaḥ

tam āpatantaṃ dṛṣṭvaiva mahābāhurdhanurdharaḥ

karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ

sa tenābhihataḥ pārtho vāsavirvajrasaṃnibhān

trīñśarānsaṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ

taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam

apovāha rathenāśu sūtaḥ parapuraṃjayam

tataḥ parājite karṇe dhārtarāṣṭrānmahadbhayam

viveśa samudagrāṃśca pāñcālānprasamīkṣya ca

tatprakampitam atyarthaṃ dṛṣṭvā vai saubalo balam

girā gambhīrayā vīraḥ samāśvāsayatāsakṛt

dhārtarāṣṭraistataḥ sarvairduryodhanapuraḥsaraiḥ

dhṛtaṃ tatpunar evāsīdbalaṃ pārthaprakampitam

tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ

akrudhyatsa mahābāhur agāraṃ jātuṣaṃ smaran

tataḥ saṃgrāmaśirasi dadarśa vipuladrumam

āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam

mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam

citramālyāmbaradharaṃ patākāśataśobhitam

sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī

abhipede parānsaṃkhye vajrapāṇir ivāsurān

bhīmasenabhayārtāni phalgunābhihatāni ca

na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum

tāni saṃbhrāntayodhāni śrāntavājigajāni ca

diśaḥ prākālayadbhīmo divīvābhrāṇi mārutaḥ

tānnivṛttānnirānandānhatavāraṇavājinaḥ

nānusasrurna cājaghnurnocuḥ kiṃcicca dāruṇam

svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ

pare 'pyabhiyayurhṛṣṭāḥ puraṃ paurasukhāvahāḥ

muhūrtam abhavadvairaṃ teṣāṃ vai pāṇḍavaiḥ saha

yāvattadyuddham abhavanmahaddevāsuropamam

suvṛttaṃ cakrire sarve suprāptām abruvanvadhūm

kṛtārthaṃ drupadaṃ cocurdhṛṣṭadyumnaṃ ca pārṣatam

śakuniḥ sindhurājaśca karṇaduryodhanāvapi

teṣāṃ tad abhavadduḥkhaṃ hṛdi vācā tu nābruvan

tataḥ prayātā rājānaḥ sarva eva yathāgatam

dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā

prāg eva purarodhāttu pāṇḍavair aśvasādinaḥ

preṣitā gacchatāriṣṭān asmān ākhyāta śauraye

te tv adīrgheṇa kālena gatvā dvāravatīṃ purīm

ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau

kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ

ātmanaścākṣatān āhurvimuktāñjātuṣādgṛhāt

samāje draupadīṃ smāhurlabdhāṃ rājīvalocanām

ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ

tacchrutvā vacanaṃ kṛṣṇastān uvācottaraṃ vacaḥ

sarvam etad ahaṃ jāne vadhāttasya tu rakṣasaḥ

tata udyojayāmāsa keśavaścaturaṅgiṇīm

sevāṃ samupayāttūrṇaṃ pāñcālanagaraṃ prati

tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ

yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ

pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi

draupadīṃ bhūṣaṇaiḥ śubhrairbhūṣayitvā mahādhanaiḥ

nyāyataḥ pūjitā rājñā drupadena mahātmanā

remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā

By System Admin

Translation

Draft in progress