24 shlokas
- 1
ब्रह्मोवाच
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान्
brahmovāca
snātvā pretaśilādau tu varuṇāsthāmṛtena ca
piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān
- 2
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते
आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः
asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate
āvāhayiṣye tānsarvāndarbhapṛṣṭhe tilodakaiḥ
- 3
पितृवंशे मृता ये च मातृवंशे च ये मृताः
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 4
मातामहकुले ये च गतिर्येषां न विद्यते
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
mātāmahakule ye ca gatiryeṣāṃ na vidyate
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 5
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
ajātadantā ye kecidye ca garbhe prapīḍitāḥ
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 6
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
bandhuvargāśca ye kecinnāmagotravivarjitāḥ
svagotre paragotre vā gatiryeṣāṃ na vidyate
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 7
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम्
udbandhanamṛtā ye ca viṣaśastrahatāśca ye
ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham
- 8
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये
दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम्
agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye
daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham
- 9
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम्
agnidagdhāśca ye kecinnāgnidagdhāstathāpare
vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham
- 10
रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
raurave cāndhatāmisre kālasūtre ca ye gatāḥ
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 11
असिपत्रवने घोरे कुम्भीपाके च ये गताः
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
asipatravane ghore kumbhīpāke ca ye gatāḥ
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 12
अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम्
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 13
पशुयोनिं गता ये च पक्षिकीटसरीसृपाः
अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम्
paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ
athavā vṛkṣayonisthāstebhyaḥ piṇḍaṃ dadāmyaham
- 14
असंख्ययातनासंस्था ये नीता यमशासनैः
तेषाम् उद्धरणार्थाय इमं पिण्डं ददाम्यहम्
asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
- 15
जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम्
jātyantarasahasreṣu bhramanti svena karmaṇā
mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham
- 16
ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा
ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ
te sarve tṛptimāyāntu piṇḍadānena sarvadā
- 17
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा
ye kecitpretarūpeṇa vartante pitaro mama
te sarve tṛptimāyāntu piṇḍadānena sarvadā
- 18
ये मे पितृकुले जाताः कुले मातुस्तथैव च
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः
ye me pitṛkule jātāḥ kule mātustathaiva ca
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ
- 19
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः
क्रियालोपहता ये च जात्यन्धाः पङ्गवस्तथा
ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ
kriyālopahatā ye ca jātyandhāḥ paṅgavastathā
- 20
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्
virūpā āmagarbhāśca jñātājñātāḥ kule mama
teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām
- 21
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा
मया गयां समासाद्य पितॄणां निष्कृतिः कृता
sākṣiṇaḥ santu me devā brahmeśānādayastathā
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā
- 22
आगतो ऽहं गयां देव पितृकार्ये गदाधर
तन्मे साक्षी भवत्वद्य अनृणो ऽहमृणत्रयात्
āgato 'haṃ gayāṃ deva pitṛkārye gadādhara
tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt
- 23
महानदी ब्रह्मसरो ऽक्षयो वटः प्रभासम् उद्यन्तमहो गयाशिरः
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम्
mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ
sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām
- 24
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमो ऽध्यायः
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ

