13 shlokas
- 1
सूत उवाच
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम्
द्वारे धाता विधाता च गङ्गायमुनया सह
sūta uvāca
gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm
dvāre dhātā vidhātā ca gaṅgāyamunayā saha
- 2
शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ
śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā
pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau
- 3
पश्चिमे बलप्रबलौ जयश्च विजयो यजेत्
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती
paścime balaprabalau jayaśca vijayo yajet
uttare śrīścaturdvāre gaṇo durgā sarasvatī
- 4
क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम्
सिद्धो गुरुर्नलकूबरं कोणे भगवतं यजेत्
kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam
siddho gururnalakūbaraṃ koṇe bhagavataṃ yajet
- 5
पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत्
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्मकम्
pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet
tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmakam
- 6
अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः
ऐश्वर्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे
anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ
aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare
- 7
सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे
तमसे कन्दपद्माय यजेत्कं काकतत्त्वकम्
sattvāya prakṛtātmane rajase moharūpiṇe
tamase kandapadmāya yajetkaṃ kākatattvakam
- 8
विद्यातत्त्वं परं तत्त्वं सूर्येन्दुवह्निमण्डलम्
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत्
vidyātattvaṃ paraṃ tattvaṃ sūryenduvahnimaṇḍalam
vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet
- 9
गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते
अङ्गानि यथा चक्रं च सुचक्रं च विचक्रं च तथैच
gopījanavallabhāya svāhānto manurucyate
aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica
- 10
त्रैलोक्यरक्षकं चक्रम् असुरारिसुदर्शनम्
हृदादिपूर्वकोणेषु अस्त्रं शक्तिं च पूर्वतः
trailokyarakṣakaṃ cakram asurārisudarśanam
hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ
- 11
रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि
लक्ष्मणा मित्रविन्दा च जाम्बवत्या सुशीलया
rukmiṇī satyabhāmā ca sunandā nāgnajityapi
lakṣmaṇā mitravindā ca jāmbavatyā suśīlayā
- 12
शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत्
खड्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत्
śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet
khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet
- 13
मुकुटं वलमालां च ऐन्द्राद्यान्ध्वजमुख्यकान्
कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत्
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामान् अवाप्नुयात्
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशो ऽध्यायः
mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān
kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet
japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

