24 shlokas
- 1
अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात्
atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt
- 2
कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात्
kuśābhāve kuśasthāne kāśāndūrvāṃ vā dadyāt
- 3
वासो ऽर्थे कार्पासोत्थं सूत्रम्
vāso 'rthe kārpāsotthaṃ sūtram
- 4
दशां विसर्जयेत्यद्यप्यहतवस्त्रजा स्यात्
daśāṃ visarjayetyadyapyahatavastrajā syāt
- 5
उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि
ugragandhīnyagandhīni kaṇṭakijāni ca puṣpāṇi
- 6
शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात्
śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt
- 7
वसां मेदं च दीपार्थे न दद्यात्
vasāṃ medaṃ ca dīpārthe na dadyāt
- 8
घृतं तैलं वा दद्यात्
ghṛtaṃ tailaṃ vā dadyāt
- 9
जीवजं सर्वं धूपार्थे न दद्यात्
jīvajaṃ sarvaṃ dhūpārthe na dadyāt
- 10
मधुघृतसंयुक्तं गुग्गुलुं दद्यात्
madhughṛtasaṃyuktaṃ gugguluṃ dadyāt
- 11
चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे
candanakuṅkumakarpūrāgarupadmakānyanulepanārthe
- 12
न प्रत्यक्षलवणं दद्यात्
na pratyakṣalavaṇaṃ dadyāt
- 13
हस्तेन च घृतव्यञ्जनादि
hastena ca ghṛtavyañjanādi
- 14
तैजसानि पात्राणि दद्यात्
taijasāni pātrāṇi dadyāt
- 15
विशेषतो राजतानि
viśeṣato rājatāni
- 16
खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात्
khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt
- 17
पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत्
pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet
- 18
राजमाषमसूरपर्युषितकृतलवणानि च
rājamāṣamasūraparyuṣitakṛtalavaṇāni ca
- 19
कोपं परिहरेत्
kopaṃ pariharet
- 20
नाश्रु पातयेत्
nāśru pātayet
- 21
न त्वरां कुर्यात्
na tvarāṃ kuryāt
- 22
घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि
ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni
- 23
अत्र च श्लोको भवति
atra ca śloko bhavati
- 24
सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा
दत्तम् अक्षय्यतां याति फल्गुपात्रेण चाप्यथ
sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā
dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha

