9 shlokas
- 1
अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम्
atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham
- 2
अङ्गुष्ठमूले ब्राह्मम्
aṅguṣṭhamūle brāhmam
- 3
अङ्गुल्यग्रे दैवम्
aṅgulyagre daivam
- 4
तर्जनीमूले पित्र्यम्
tarjanīmūle pitryam
- 5
अनग्न्युष्णाभिर् अफेनिलाभिः अशूद्रैककरावर्जिताभिर् अक्षाराभिर् अद्भिः शुचौ देशे स्वासीनो ऽन्तर्जानु प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत्
anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaścodaṅmukho vā tanmanāḥ sumanāścācāmet
- 6
ब्राह्मेण तीर्थेन त्रिर् आचामेत्
brāhmeṇa tīrthena trir ācāmet
- 7
द्विः प्रमृज्यात्
dviḥ pramṛjyāt
- 8
खान्यद्भिर्मूर्धानं हृदयं स्पृशेत्
khānyadbhirmūrdhānaṃ hṛdayaṃ spṛśet
- 9
हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिर् अन्ततः
hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ
śudhyeranstrī ca śūdraśca sakṛtspṛṣṭābhir antataḥ

