26 shlokas
- 1
ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात्
brāhme muhūrte utthāya mūtrapurīṣotsargaṃ kuryāt
- 2
दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च
dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayośca
- 3
नाप्रछादितायां भूमौ
nāprachāditāyāṃ bhūmau
- 4
न फालकृष्टायाम्
na phālakṛṣṭāyām
- 5
न छायायाम्
na chāyāyām
- 6
न चोषरे
na coṣare
- 7
न शाद्वले
na śādvale
- 8
न ससत्त्वे
na sasattve
- 9
न गर्ते
na garte
- 10
न वल्मीके
na valmīke
- 11
न पथि
na pathi
- 12
न रथ्यायाम्
na rathyāyām
- 13
न पराशुचौ
na parāśucau
- 14
नोद्याने
nodyāne
- 15
नोद्यानोदकसमीपयोः
nodyānodakasamīpayoḥ
- 16
न भस्मनि
na bhasmani
- 17
नाङ्गारे
nāṅgāre
- 18
न गोमये
na gomaye
- 19
न गोव्रजे
na govraje
- 20
नाकाशे
nākāśe
- 21
नोदके
nodake
- 22
न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाम्
na pratyanilānalendvarkastrīgurubrāhmaṇānām
- 23
नैवानवगुण्ठितशिराः
naivānavaguṇṭhitaśirāḥ
- 24
लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात्
loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaścotthāyādbhirmṛdbhiścoddhṛtābhirgandhalepakṣayakaraṃ śaucaṃ kuryāt
- 25
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः
ekā liṅge gude tisrastathaikatra kare daśa
ubhayoḥ sapta dātavyā mṛdastisrastu pādayoḥ
- 26
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम्
etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām
triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam

