17 shlokas
- 1
नार्द्रपादः सुप्यात्
nārdrapādaḥ supyāt
- 2
नोत्तरापरशिराः
nottarāparaśirāḥ
- 3
न नग्नः
na nagnaḥ
- 4
नानुवंशम्
nānuvaṃśam
- 5
नाकाशे
nākāśe
- 6
न पालाशे शयने
na pālāśe śayane
- 7
न पञ्चदारुकृते
na pañcadārukṛte
- 8
न गजभग्नकृते
na gajabhagnakṛte
- 9
न विद्युद्दग्धकृते
na vidyuddagdhakṛte
- 10
न भिन्ने
na bhinne
- 11
नाग्निपृष्ठे
nāgnipṛṣṭhe
- 12
न घटासिक्तद्रुमजे
na ghaṭāsiktadrumaje
- 13
न श्मशानशून्यालयदेवतायतनेषु
na śmaśānaśūnyālayadevatāyataneṣu
- 14
न चपलमध्ये
na capalamadhye
- 15
न नारीमध्ये
na nārīmadhye
- 16
न धान्यगोगुरुहुताशनसुराणाम् उपरि
na dhānyagoguruhutāśanasurāṇām upari
- 17
नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि
देशे न च अशुचौ नार्द्रे न च पर्वतमस्तके
nocchiṣṭo na divā supyātsaṃdhyayorna ca bhasmani
deśe na ca aśucau nārdre na ca parvatamastake

