50 shlokas
- 1
अथ योगक्षेमार्थम् ईश्वरम् अभिगच्छेत्
atha yogakṣemārtham īśvaram abhigacchet
- 2
नैको ऽध्वानं प्रपद्येत
naiko 'dhvānaṃ prapadyeta
- 3
नाधार्मिकैः सार्धम्
nādhārmikaiḥ sārdham
- 4
न वृषलैः
na vṛṣalaiḥ
- 5
न द्विषद्भिः
na dviṣadbhiḥ
- 6
नातिप्रत्यूषसि
nātipratyūṣasi
- 7
नातिसायम्
nātisāyam
- 8
न संध्ययोः
na saṃdhyayoḥ
- 9
न मध्याह्ने
na madhyāhne
- 10
न संनिहितपानीयम्
na saṃnihitapānīyam
- 11
नातितूर्णम्
nātitūrṇam
- 12
न सततं बालव्याधितार्तैर्वाहनैः
na satataṃ bālavyādhitārtairvāhanaiḥ
- 13
न हीनाङ्गैः
na hīnāṅgaiḥ
- 14
न दीनैः
na dīnaiḥ
- 15
न गोभिः
na gobhiḥ
- 16
नादान्तैः
nādāntaiḥ
- 17
यवसोदके वाहनानाम् अदत्त्वा आत्मनः क्षुत्तृष्णापनोदनं न कुर्यात्
yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt
- 18
न चतुष्पथम् अधितिष्ठेत्
na catuṣpatham adhitiṣṭhet
- 19
न रात्रौ वृक्षमूले
na rātrau vṛkṣamūle
- 20
न शून्यालयम्
na śūnyālayam
- 21
न तृणम्
na tṛṇam
- 22
न पशूनां बन्धनागारम्
na paśūnāṃ bandhanāgāram
- 23
न केशतुषकपालास्थिभस्माङ्गारान्
na keśatuṣakapālāsthibhasmāṅgārān
- 24
न कार्पासास्थि
na kārpāsāsthi
- 25
चतुष्पथं प्रदक्षिणीकुर्यात्
catuṣpathaṃ pradakṣiṇīkuryāt
- 26
देवतार्चां च
devatārcāṃ ca
- 27
प्रज्ञातांश्च वनस्पतीन्
prajñātāṃśca vanaspatīn
- 28
अग्निब्राह्मणगणिकापूर्णकुम्भादर्शछत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च
agnibrāhmaṇagaṇikāpūrṇakumbhādarśachatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃśca
- 29
तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च
tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃśca
- 30
वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च
vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca

