61 shlokas
- 1
शारीरैर्मलैः सुराभिर्मद्यैर्वा यद् उपहतं तद् अत्यन्तोपहतम्
śārīrairmalaiḥ surābhirmadyairvā yad upahataṃ tad atyantopahatam
- 2
अत्यन्तोपहतं सर्वं लोहभाण्डम् अग्नौ प्रक्षिप्तं शुध्येत्
atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet
- 3
मणिमयम् अश्ममयम् अब्जं च सप्तरात्रं महीनिखननेन
maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena
- 4
शृङ्गदन्तास्थिमयं तक्षणेन
śṛṅgadantāsthimayaṃ takṣaṇena
- 5
दारवं मृन्मयं च जह्यात्
dāravaṃ mṛnmayaṃ ca jahyāt
- 6
अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात्
atyantopahatasya vastrasya yatprakṣālitaṃ sadvirajyate tacchindyāt
- 7
सौवर्णराजताब्जमणिमयानां निर्लेपानाम् अद्भिः शुद्धिः
sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ
- 8
अश्ममयानां चमसानां ग्रहाणां च
aśmamayānāṃ camasānāṃ grahāṇāṃ ca
- 9
चरुस्रुक्स्रुवाणाम् उष्णेनाम्भसा
carusruksruvāṇām uṣṇenāmbhasā
- 10
यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन
yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena
- 11
स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन
sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena
- 12
शयनयानासनानां च
śayanayānāsanānāṃ ca
- 13
बहूनां च
bahūnāṃ ca
- 14
धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च
dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca
- 15
शाकमूलफलपुष्पाणां च
śākamūlaphalapuṣpāṇāṃ ca
- 16
तृणकाष्ठशुष्कपलाशानां च
tṛṇakāṣṭhaśuṣkapalāśānāṃ ca
- 17
एतेषां प्रक्षालनेन
eteṣāṃ prakṣālanena
- 18
अल्पानां च
alpānāṃ ca
- 19
ऊषैः कौशेयाविकयोः
ūṣaiḥ kauśeyāvikayoḥ
- 20
अरिष्टकैः कुतपानाम्
ariṣṭakaiḥ kutapānām
- 21
श्रीफलैर् अंशुपट्टानाम्
śrīphalair aṃśupaṭṭānām
- 22
गौरसर्षपैः क्षौमाणाम्
gaurasarṣapaiḥ kṣaumāṇām
- 23
शृङ्गास्थिदन्तमयानां च
śṛṅgāsthidantamayānāṃ ca
- 24
पद्माक्षैर्मृगलोमिकानाम्
padmākṣairmṛgalomikānām
- 25
ताम्ररीतित्रपुसीसमयानाम् अम्लोदकेन
tāmrarītitrapusīsamayānām amlodakena
- 26
भस्मना कांस्यलोहयोः
bhasmanā kāṃsyalohayoḥ
- 27
तक्षणेन दारवाणाम्
takṣaṇena dāravāṇām
- 28
गोवालैः फलसंभवानाम्
govālaiḥ phalasaṃbhavānām
- 29
प्रोक्षणेन संहतानाम्
prokṣaṇena saṃhatānām
- 30
उत्पवनेन द्रवाणाम्
utpavanena dravāṇām

