27 shlokas
- 1
अथातः सर्ववेदपवित्राणि भवन्ति
athātaḥ sarvavedapavitrāṇi bhavanti
- 2
येषां जप्यैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते
yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante
- 3
अघमर्षणम्
aghamarṣaṇam
- 4
देवकृतम्
devakṛtam
- 5
शुद्धवत्यः
śuddhavatyaḥ
- 6
तरत्समन्दीयम्
taratsamandīyam
- 7
कूश्माण्ड्यः
kūśmāṇḍyaḥ
- 8
पावमान्यः
pāvamānyaḥ
- 9
दुर्गासावित्री
durgāsāvitrī
- 10
अतीषङ्गाः
atīṣaṅgāḥ
- 11
पदस्तोमाः
padastomāḥ
- 12
सामानि व्याहृतयः
sāmāni vyāhṛtayaḥ
- 13
भारुण्डाणि
bhāruṇḍāṇi
- 14
चन्द्रसाम
candrasāma
- 15
पुरुषव्रते सामनी
puruṣavrate sāmanī
- 16
अब्लिङ्गम्
abliṅgam
- 17
बार्हस्पत्यम्
bārhaspatyam
- 18
गोसूक्तम्
gosūktam
- 19
अश्वसूक्तम्
aśvasūktam
- 20
सामनी चन्द्रसूक्ते च
sāmanī candrasūkte ca
- 21
शतरुद्रियम्
śatarudriyam
- 22
अथर्वशिरः
atharvaśiraḥ
- 23
त्रिसुपर्णम्
trisuparṇam
- 24
महाव्रतम्
mahāvratam
- 25
नारायणीयम्
nārāyaṇīyam
- 26
पुरुषसूक्तं च
puruṣasūktaṃ ca
- 27
त्रीण्याज्यदोहानि रथंतरं च अग्निव्रतं वामदेव्यं बृहच्च
एतानि गीतानि पुनन्ति जन्तून्जातिस्मरत्वं लभते यदीच्छेत्
trīṇyājyadohāni rathaṃtaraṃ ca agnivrataṃ vāmadevyaṃ bṛhacca
etāni gītāni punanti jantūnjātismaratvaṃ labhate yadīcchet

