17 shlokas
- 1
नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियम् उपेयात्
nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt
- 2
न श्राद्धं भुक्त्वा
na śrāddhaṃ bhuktvā
- 3
न दत्त्वा
na dattvā
- 4
नोपनिमन्त्रितः श्राद्धे
nopanimantritaḥ śrāddhe
- 5
न व्रती
na vratī
- 6
न दीक्षितः
na dīkṣitaḥ
- 7
न देवायतनश्मशानशून्यालयेषु
na devāyatanaśmaśānaśūnyālayeṣu
- 8
न वृक्षमूलेषु
na vṛkṣamūleṣu
- 9
न दिवा
na divā
- 10
न संध्ययोः
na saṃdhyayoḥ
- 11
न मलिनाम्
na malinām
- 12
न मलिनः
na malinaḥ
- 13
नाभ्यक्ताम्
nābhyaktām
- 14
नाभ्यक्तः
nābhyaktaḥ
- 15
न रोगार्ताम्
na rogārtām
- 16
न रोगार्तः
na rogārtaḥ
- 17
न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम्
नोपेयाद्गुर्विणीं नारीं दीर्घम् आयुर्जिजीविषुः
na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām
nopeyādgurviṇīṃ nārīṃ dīrgham āyurjijīviṣuḥ

