49 shlokas
- 1
चन्द्रार्कोपरागे नाश्नीयात्
candrārkoparāge nāśnīyāt
- 2
स्नात्वा मुक्तयोर् अश्नीयात्
snātvā muktayor aśnīyāt
- 3
अमुक्तयोर् अस्तं गतयोः स्नात्वा दृष्ट्वा चापरे ऽह्नि
amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni
- 4
न गोब्राह्मणोपरागे ऽश्नीयात्
na gobrāhmaṇoparāge 'śnīyāt
- 5
न राज्ञो व्यसने
na rājño vyasane
- 6
प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात्
pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt
- 7
यदा कृतं मन्येत वैश्वदेवम् अपि
yadā kṛtaṃ manyeta vaiśvadevam api
- 8
पर्वणि च यदा कृतं मन्येत पर्व
parvaṇi ca yadā kṛtaṃ manyeta parva
- 9
नाश्नीयाच्चाजीर्णे
nāśnīyāccājīrṇe
- 10
नार्धरात्रे
nārdharātre
- 11
न मध्याह्ने
na madhyāhne
- 12
न संध्ययोः
na saṃdhyayoḥ
- 13
नार्द्रवासाः
nārdravāsāḥ
- 14
नैकवासाः
naikavāsāḥ
- 15
न नग्नः
na nagnaḥ
- 16
नोदके
nodake
- 17
नोत्कुटकः
notkuṭakaḥ
- 18
न भिन्नासनगतः
na bhinnāsanagataḥ
- 19
न च शयनगतः
na ca śayanagataḥ
- 20
न भिन्नभोजने
na bhinnabhojane
- 21
नोत्सङ्गे
notsaṅge
- 22
न भुवि
na bhuvi
- 23
न पाणौ
na pāṇau
- 24
लवणं च यत्र दद्यात्तन्नाश्नीयात्
lavaṇaṃ ca yatra dadyāttannāśnīyāt
- 25
न बालकान्निर्भर्त्सयेत्
na bālakānnirbhartsayet
- 26
नैको मृष्टम्
naiko mṛṣṭam
- 27
नोद्धृतस्नेहम्
noddhṛtasneham
- 28
न दिवा धानाः
na divā dhānāḥ
- 29
न रात्रौ तिलसंबन्धम्
na rātrau tilasaṃbandham
- 30
न दधिसक्तून्
na dadhisaktūn

