२० श्लोकाः
- 1
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥
यान्त्रिकं प्रारूपम्ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam |
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||
यान्त्रिकं प्रारूपम्श्रीभगवानुवाच। ऊर्ध्वमूलम् अधःशाखम् अव्ययम् अश्वत्थं प्राहुः, छन्दांसि यस्य पर्णानि, यः तं वेद सः वेदवित्।
- 2
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥
यान्त्रिकं प्रारूपम्adhaścordhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ |
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyaloke ||
यान्त्रिकं प्रारूपम्तस्य शाखाः अधः च ऊर्ध्वं प्रसृताः गुणप्रवृद्धाः विषयप्रवालाः, अधः च मनुष्यलोके कर्मानुबन्धीनि मूलानि अनुसन्ततानि।
- 3
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥
यान्त्रिकं प्रारूपम्na rūpamasyeha tathopalabhyate
nānto na cādirna ca sampratiṣṭhā |
aśvatthamenaṃ suvirūḍhamūlaṃ
asaṅgaśastreṇa dṛḍhena chittvā ||
यान्त्रिकं प्रारूपम्अस्य रूपम् इह तथा न उपलभ्यते, न अन्तः न च आदिः न च सम्प्रतिष्ठा, एनं सुविरूढमूलम् अश्वत्थं दृढेन असङ्गशस्त्रेण छित्त्वा,
- 4
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥
यान्त्रिकं प्रारूपम्tataḥ padaṃ tatparimārgitavyaṃ
yasmingatā na nivartanti bhūyaḥ |
tameva cādyaṃ puruṣaṃ prapadye |
yataḥ pravṛttiḥ prasṛtā purāṇī ||
यान्त्रिकं प्रारूपम्ततः तत् पदं परिमार्गितव्यं, यस्मिन् गताः भूयः न निवर्तन्ति, यतः पुराणी प्रवृत्तिः प्रसृता, तम् एव च आद्यं पुरुषं प्रपद्ये।
- 5
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् ॥
यान्त्रिकं प्रारूपम्nirmānamohā jitasaṅgadoṣā
adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasaṃjñair-
gacchantyamūḍhāḥ padamavyayaṃ tat ||
यान्त्रिकं प्रारूपम्निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसंज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययं पदं गच्छन्ति।
- 6
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥
यान्त्रिकं प्रारूपम्na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |
yadgatvā na nivartante taddhāma paramaṃ mama ||
यान्त्रिकं प्रारूपम्यत् सूर्यः न भासयते, न शशाङ्कः, न पावकः, यत् गत्वा न निवर्तन्ते, तत् मम परमं धाम।
- 7
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥
यान्त्रिकं प्रारूपम्mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||
यान्त्रिकं प्रारूपम्मम एव सनातनः अंशः जीवलोके जीवभूतः प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति।
- 8
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥
यान्त्रिकं प्रारूपम्śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ||
यान्त्रिकं प्रारूपम्ईश्वरः यत् शरीरम् अवाप्नोति, यत् च अपि उत्क्रामति, वायुः आशयात् गन्धान् इव एतानि गृहीत्वा संयाति।
- 9
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥
यान्त्रिकं प्रारूपम्śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||
यान्त्रिकं प्रारूपम्अयं श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च मनः च अधिष्ठाय विषयान् उपसेवते।
- 10
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥
यान्त्रिकं प्रारूपम्utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||
यान्त्रिकं प्रारूपम्उत्क्रामन्तं स्थितं वा अपि गुणान्वितं भुञ्जानं वा विमूढाः न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति।
- 11
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥
यान्त्रिकं प्रारूपम्yatanto yoginaścainaṃ paśyantyātmanyavasthitam |
yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ ||
यान्त्रिकं प्रारूपम्यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति, अकृतात्मानः अचेतसः यतन्तः अपि एनं न पश्यन्ति।
- 12
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
यान्त्रिकं प्रारूपम्yadādityagataṃ tejo jagadbhāsayate'khilam |
yaccandramasi yaccāgnau tattejo viddhi māmakam ||
यान्त्रिकं प्रारूपम्आदित्यगतं यत् तेजः अखिलं जगत् भासयते, यत् चन्द्रमसि, यत् च अग्नौ, तत् तेजः मामकं विद्धि।
- 13
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥
यान्त्रिकं प्रारूपम्gāmāviśya ca bhūtāni dhārayāmyahamojasā |
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||
यान्त्रिकं प्रारूपम्अहं च गाम् आविश्य ओजसा भूतानि धारयामि, रसात्मकः सोमः भूत्वा च सर्वाः ओषधीः पुष्णामि।
- 14
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥
यान्त्रिकं प्रारूपम्ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||
यान्त्रिकं प्रारूपम्अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः चतुर्विधम् अन्नं पचामि।
- 15
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥
यान्त्रिकं प्रारूपम्sarvasya cāhaṃ hṛdi sanniviṣṭo
mattaḥ smṛtirjñānamapohanañca |
vedaiśca sarvairahameva vedyo
vedāntakṛdvedavideva cāham ||
यान्त्रिकं प्रारूपम्अहं च सर्वस्य हृदि सन्निविष्टः, मत्तः स्मृतिः ज्ञानम् अपोहनं च, सर्वैः वेदैः च अहम् एव वेद्यः, वेदान्तकृत् वेदवित् एव च अहम्।
- 16
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
यान्त्रिकं प्रारूपम्dvāvimau puruṣau loke kṣaraścākṣara eva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ||
यान्त्रिकं प्रारूपम्लोके इमौ द्वौ पुरुषौ, क्षरः च अक्षरः एव च, सर्वाणि भूतानि क्षरः, कूटस्थः अक्षरः उच्यते।
- 17
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यान्त्रिकं प्रारूपम्uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ |
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||
यान्त्रिकं प्रारूपम्उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः, यः अव्ययः ईश्वरः लोकत्रयम् आविश्य बिभर्ति।
- 18
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यान्त्रिकं प्रारूपम्yasmātkṣaramatīto'hamakṣarādapi cottamaḥ |
ato'smi loke vede ca prathitaḥ puruṣottamaḥ ||
यान्त्रिकं प्रारूपम्यस्मात् अहं क्षरम् अतीतः, अक्षरात् अपि च उत्तमः, अतः लोके वेदे च पुरुषोत्तमः प्रथितः अस्मि।
- 19
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥
यान्त्रिकं प्रारूपम्yo māmevamasammūḍho jānāti puruṣottamam |
sa sarvavidbhajati māṃ sarvabhāvena bhārata ||
यान्त्रिकं प्रारूपम्भारत, यः असम्मूढः माम् एवं पुरुषोत्तमं जानाति, सः सर्ववित् सर्वभावेन मां भजति।
- 20
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥
यान्त्रिकं प्रारूपम्iti guhyatamaṃ śāstramidamuktaṃ mayānagha |
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||
यान्त्रिकं प्रारूपम्अनघ भारत, इति इदं गुह्यतमं शास्त्रं मया उक्तम्, एतत् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात्।