संस्कृतम्

अध्यायः 4

ज्ञानकर्मसंन्यासयोगः

४२ श्लोकाः

४२ श्लोकाः

  1. 1

    इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥

    imaṃ vivasvate yogaṃ proktavānahamavyayam |

    vivasvānmanave prāha manurikṣvākave'bravīt ||

    यान्त्रिकं प्रारूपम्

    श्रीभगवानुवाच। अहम् इमम् अव्ययं योगं विवस्वते प्रोक्तवान्। विवस्वान् मनवे प्राह, मनुः इक्ष्वाकवे अब्रवीत्।

    यान्त्रिकं प्रारूपम्
  2. 2

    एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

    स कालेनेह महता योगो नष्टः परन्तप ॥

    evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |

    sa kāleneha mahatā yogo naṣṭaḥ parantapa ||

    यान्त्रिकं प्रारूपम्

    हे परन्तप, एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः। सः योगः इह महता कालेन नष्टः।

    यान्त्रिकं प्रारूपम्
  3. 3

    स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

    भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥

    sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ |

    bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam ||

    यान्त्रिकं प्रारूपम्

    सः एव अयं पुरातनः योगः अद्य मया ते प्रोक्तः, मे भक्तः सखा च असि इति। एतत् हि उत्तमं रहस्यम्।

    यान्त्रिकं प्रारूपम्
  4. 4

    अपरं भवतो जन्म परं जन्म विवस्वतः ।

    कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥

    aparaṃ bhavato janma paraṃ janma vivasvataḥ |

    kathametadvijānīyāṃ tvamādau proktavāniti ||

    यान्त्रिकं प्रारूपम्

    अर्जुन उवाच। भवतः जन्म अपरं, विवस्वतः जन्म परम्। त्वम् आदौ प्रोक्तवान् इति एतत् कथं विजानीयाम्।

    यान्त्रिकं प्रारूपम्
  5. 5

    बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

    तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥

    bahūni me vyatītāni janmāni tava cārjuna |

    tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||

    यान्त्रिकं प्रारूपम्

    श्रीभगवानुवाच। हे अर्जुन, मे तव च बहूनि जन्मानि व्यतीतानि। हे परन्तप, तानि सर्वाणि अहं वेद, त्वं न वेत्थ।

    यान्त्रिकं प्रारूपम्
  6. 6

    अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

    प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥

    ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san |

    prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||

    यान्त्रिकं प्रारूपम्

    अजः अपि सन्, अव्ययात्मा, भूतानाम् ईश्वरः अपि सन्, स्वां प्रकृतिम् अधिष्ठाय आत्ममायया सम्भवामि।

    यान्त्रिकं प्रारूपम्
  7. 7

    यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

    अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥

    yadā yadā hi dharmasya glānirbhavati bhārata |

    abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||

    यान्त्रिकं प्रारूपम्

    हे भारत, यदा यदा हि धर्मस्य ग्लानिः भवति, अधर्मस्य अभ्युत्थानं, तदा अहम् आत्मानं सृजामि।

    यान्त्रिकं प्रारूपम्
  8. 8

    परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

    paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |

    dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||

    यान्त्रिकं प्रारूपम्

    साधूनां परित्राणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय युगे युगे सम्भवामि।

    यान्त्रिकं प्रारूपम्
  9. 9

    जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

    त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥

    janma karma ca me divyamevaṃ yo vetti tattvataḥ |

    tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ||

    यान्त्रिकं प्रारूपम्

    हे अर्जुन, मे जन्म कर्म च दिव्यम्, एवं यः तत्त्वतः वेत्ति, सः देहं त्यक्त्वा पुनर्जन्म न एति, माम् एति।

    यान्त्रिकं प्रारूपम्
  10. 10

    वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

    बहवो ज्ञानतपसा पूता मद्भावमागताः ॥

    vītarāgabhayakrodhā manmayā māmupāśritāḥ |

    bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||

    यान्त्रिकं प्रारूपम्

    वीतरागभयक्रोधाः मन्मयाः माम् उपाश्रिताः बहवः ज्ञानतपसा पूताः मद्भावम् आगताः।

    यान्त्रिकं प्रारूपम्
  11. 11

    ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

    मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

    ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |

    mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||

    यान्त्रिकं प्रारूपम्

    ये यथा मां प्रपद्यन्ते, तान् तथा एव अहं भजामि। हे पार्थ, मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते।

    यान्त्रिकं प्रारूपम्
  12. 12

    काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

    क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥

    kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |

    kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||

    यान्त्रिकं प्रारूपम्

    इह कर्मणां सिद्धिं काङ्क्षन्तः देवताः यजन्ते। मानुषे लोके हि कर्मजा सिद्धिः क्षिप्रं भवति।

    यान्त्रिकं प्रारूपम्
  13. 13

    चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।

    तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥

    cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |

    tasya kartāramapi māṃ viddhyakartāramavyayam ||

    यान्त्रिकं प्रारूपम्

    गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम्। तस्य कर्तारम् अपि माम् अकर्तारम् अव्ययं विद्धि।

    यान्त्रिकं प्रारूपम्
  14. 14

    न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

    इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥

    na māṃ karmāṇi limpanti na me karmaphale spṛhā |

    iti māṃ yo'bhijānāti karmabhirna sa badhyate ||

    यान्त्रिकं प्रारूपम्

    कर्माणि मां न लिम्पन्ति, मे कर्मफले स्पृहा न। इति यः माम् अभिजानाति, सः कर्मभिः न बध्यते।

    यान्त्रिकं प्रारूपम्
  15. 15

    एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।

    कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥

    evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |

    kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||

    यान्त्रिकं प्रारूपम्

    पूर्वैः अपि मुमुक्षुभिः एवं ज्ञात्वा कर्म कृतम्। तस्मात् त्वं पूर्वैः पूर्वतरं कृतं कर्म एव कुरु।

    यान्त्रिकं प्रारूपम्
  16. 16

    किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।

    तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥

    kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ |

    tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ||

    यान्त्रिकं प्रारूपम्

    किं कर्म किम् अकर्म इति अत्र कवयः अपि मोहिताः। तत् कर्म ते प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे।

    यान्त्रिकं प्रारूपम्
  17. 17

    कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

    अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥

    karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |

    akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||

    यान्त्रिकं प्रारूपम्

    कर्मणः अपि हि बोद्धव्यं, विकर्मणः च बोद्धव्यम्, अकर्मणः च बोद्धव्यम्। कर्मणः गतिः गहना।

    यान्त्रिकं प्रारूपम्
  18. 18

    कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।

    स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥

    karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ |

    sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||

    यान्त्रिकं प्रारूपम्

    यः कर्मणि अकर्म पश्येत्, यः च अकर्मणि कर्म, सः मनुष्येषु बुद्धिमान्, सः युक्तः कृत्स्नकर्मकृत्।

    यान्त्रिकं प्रारूपम्
  19. 19

    यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।

    ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥

    yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |

    jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||

    यान्त्रिकं प्रारूपम्

    यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः, तं ज्ञानाग्निदग्धकर्माणं बुधाः पण्डितम् आहुः।

    यान्त्रिकं प्रारूपम्
  20. 20

    त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

    कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥

    tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |

    karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ||

    यान्त्रिकं प्रारूपम्

    कर्मफलासङ्गं त्यक्त्वा नित्यतृप्तः निराश्रयः, सः कर्मणि अभिप्रवृत्तः अपि किञ्चित् न एव करोति।

    यान्त्रिकं प्रारूपम्
  21. 21

    निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

    शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥

    nirāśīryatacittātmā tyaktasarvaparigrahaḥ |

    śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||

    यान्त्रिकं प्रारूपम्

    निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः केवलं शारीरं कर्म कुर्वन् किल्बिषं न आप्नोति।

    यान्त्रिकं प्रारूपम्
  22. 22

    यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

    समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥

    yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ |

    samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||

    यान्त्रिकं प्रारूपम्

    यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः सिद्धौ असिद्धौ च समः कृत्वा अपि न निबध्यते।

    यान्त्रिकं प्रारूपम्
  23. 23

    गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।

    यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥

    gatasaṅgasya muktasya jñānāvasthitacetasaḥ |

    yajñāyācarataḥ karma samagraṃ pravilīyate ||

    यान्त्रिकं प्रारूपम्

    गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते।

    यान्त्रिकं प्रारूपम्
  24. 24

    ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

    brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |

    brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||

    यान्त्रिकं प्रारूपम्

    अर्पणं ब्रह्म, हविः ब्रह्म, ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मकर्मसमाधिना तेन ब्रह्म एव गन्तव्यम्।

    यान्त्रिकं प्रारूपम्
  25. 25

    दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

    ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥

    daivamevāpare yajñaṃ yoginaḥ paryupāsate |

    brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||

    यान्त्रिकं प्रारूपम्

    अपरे योगिनः दैवम् एव यज्ञं पर्युपासते। अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम् उपजुह्वति।

    यान्त्रिकं प्रारूपम्
  26. 26

    श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

    शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥

    śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |

    śabdādīnviṣayānanya indriyāgniṣu juhvati ||

    यान्त्रिकं प्रारूपम्

    अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति। अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति।

    यान्त्रिकं प्रारूपम्
  27. 27

    सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

    आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥

    sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |

    ātmasaṃyamayogāgnau juhvati jñānadīpite ||

    यान्त्रिकं प्रारूपम्

    अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति।

    यान्त्रिकं प्रारूपम्
  28. 28

    द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

    स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥

    dravyayajñāstapoyajñā yogayajñāstathāpare |

    svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||

    यान्त्रिकं प्रारूपम्

    तथा अपरे संशितव्रताः यतयः द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः स्वाध्यायज्ञानयज्ञाः च।

    यान्त्रिकं प्रारूपम्
  29. 29

    अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।

    प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥

    apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare |

    prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||

    यान्त्रिकं प्रारूपम्

    तथा अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा अपाने प्राणं जुह्वति, प्राणे अपानम्।

    यान्त्रिकं प्रारूपम्
  30. 30

    अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

    सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥

    apare niyatāhārāḥ prāṇānprāṇeṣu juhvati |

    sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ||

    यान्त्रिकं प्रारूपम्

    अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति। एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः।

    यान्त्रिकं प्रारूपम्