२० श्लोकाः
- 1
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥
यान्त्रिकं प्रारूपम्evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate |
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||
यान्त्रिकं प्रारूपम्अर्जुन उवाच। ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अपि अव्यक्तम् अक्षरं, तेषां के योगवित्तमाः।
- 2
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥
यान्त्रिकं प्रारूपम्mayyāveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetāḥ te me yuktatamā matāḥ ||
यान्त्रिकं प्रारूपम्श्रीभगवानुवाच। ये मयि मनः आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः माम् उपासते, ते मे युक्ततमाः मताः।
- 3
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥
यान्त्रिकं प्रारूपम्ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate |
sarvatragamacintyañca kūṭasthamacalandhruvam ||
यान्त्रिकं प्रारूपम्ये तु अनिर्देश्यम् अव्यक्तं सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् अक्षरं पर्युपासते,
- 4
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥
यान्त्रिकं प्रारूपम्sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||
यान्त्रिकं प्रारूपम्इन्द्रियग्रामं सन्नियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः ते माम् एव प्राप्नुवन्ति।
- 5
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥
यान्त्रिकं प्रारूपम्kleśo'dhikatarasteṣāmavyaktāsaktacetasām |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||
यान्त्रिकं प्रारूपम्अव्यक्तासक्तचेतसां तेषां क्लेशः अधिकतरः, हि अव्यक्ता गतिः देहवद्भिः दुःखम् अवाप्यते।
- 6
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
यान्त्रिकं प्रारूपम्ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate ||
यान्त्रिकं प्रारूपम्ये तु मत्पराः सर्वाणि कर्माणि मयि संन्यस्य अनन्येन एव योगेन मां ध्यायन्तः उपासते,
- 7
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥
यान्त्रिकं प्रारूपम्teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmi nacirātpārtha mayyāveśitacetasām ||
यान्त्रिकं प्रारूपम्पार्थ, मयि आवेशितचेतसां तेषाम् अहं मृत्युसंसारसागरात् नचिरात् समुद्धर्ता भवामि।
- 8
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥
यान्त्रिकं प्रारूपम्mayyeva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||
यान्त्रिकं प्रारूपम्मयि एव मनः आधत्स्व, मयि बुद्धिं निवेशय, अतः ऊर्ध्वं मयि एव निवसिष्यसि, संशयः न।
- 9
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥
यान्त्रिकं प्रारूपम्atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram |
abhyāsayogena tato māmicchāptuṃ dhanañjaya ||
यान्त्रिकं प्रारूपम्धनञ्जय, अथ मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततः अभ्यासयोगेन माम् आप्तुम् इच्छ।
- 10
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥
यान्त्रिकं प्रारूपम्abhyāse'pyasamartho'si matkarmaparamo bhava |
madarthamapi karmāṇi kurvansiddhimavāpsyasi ||
यान्त्रिकं प्रारूपम्अभ्यासे अपि असमर्थः असि, मत्कर्मपरमः भव, मदर्थं कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि।
- 11
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥
यान्त्रिकं प्रारूपम्athaitadapyaśakto'si kartuṃ madyogamāśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||
यान्त्रिकं प्रारूपम्अथ एतत् अपि कर्तुम् अशक्तः असि, ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागं कुरु।
- 12
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥
यान्त्रिकं प्रारूपम्śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate |
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||
यान्त्रिकं प्रारूपम्अभ्यासात् ज्ञानं हि श्रेयः, ज्ञानात् ध्यानं विशिष्यते, ध्यानात् कर्मफलत्यागः, त्यागात् अनन्तरं शान्तिः।
- 13
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥
यान्त्रिकं प्रारूपम्adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||
यान्त्रिकं प्रारूपम्सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी,
- 14
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥
यान्त्रिकं प्रारूपम्santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||
यान्त्रिकं प्रारूपम्सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः, सः मे प्रियः।
- 15
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥
यान्त्रिकं प्रारूपम्yasmānnodvijate loko lokānnodvijate ca yaḥ |
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||
यान्त्रिकं प्रारूपम्यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः च हर्षामर्षभयोद्वेगैः मुक्तः, सः मे प्रियः।
- 16
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥
यान्त्रिकं प्रारूपम्anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||
यान्त्रिकं प्रारूपम्अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी यः मद्भक्तः, सः मे प्रियः।
- 17
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥
यान्त्रिकं प्रारूपम्yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati |
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||
यान्त्रिकं प्रारूपम्यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति, शुभाशुभपरित्यागी भक्तिमान् यः, सः मे प्रियः।
- 18
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥
यान्त्रिकं प्रारूपम्samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ |
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||
यान्त्रिकं प्रारूपम्शत्रौ च मित्रे च समः, तथा मानापमानयोः, शीतोष्णसुखदुःखेषु समः, सङ्गविवर्जितः,
- 19
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥
यान्त्रिकं प्रारूपम्tulyanindāstutirmaunī santuṣṭo yena kenacit |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||
यान्त्रिकं प्रारूपम्तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः।
- 20
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥
यान्त्रिकं प्रारूपम्ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktāste'tīva me priyāḥ ||
यान्त्रिकं प्रारूपम्ये तु श्रद्दधानाः मत्परमाः इदं धर्म्यामृतं यथोक्तं पर्युपासते, ते भक्ताः मे अतीव प्रियाः।