२८ श्लोकाः
- 1
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥
यान्त्रिकं प्रारूपम्kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||
यान्त्रिकं प्रारूपम्अर्जुन उवाच। हे पुरुषोत्तम, तत् ब्रह्म किम्, अध्यात्मं किं, कर्म किम्। अधिभूतं च किं प्रोक्तम्, अधिदैवं किम् उच्यते।
- 2
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥
यान्त्रिकं प्रारूपम्adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana |
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ ||
यान्त्रिकं प्रारूपम्हे मधुसूदन, अत्र अस्मिन् देहे अधियज्ञः कः, कथम्। प्रयाणकाले च नियतात्मभिः कथं ज्ञेयः असि।
- 3
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥
यान्त्रिकं प्रारूपम्akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||
यान्त्रिकं प्रारूपम्श्रीभगवानुवाच। परमम् अक्षरं ब्रह्म। स्वभावः अध्यात्मम् उच्यते। भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः।
- 4
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥
यान्त्रिकं प्रारूपम्adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam |
adhiyajño'hamevātra dehe dehabhṛtāṃ vara ||
यान्त्रिकं प्रारूपम्हे देहभृतां वर, क्षरः भावः अधिभूतम्, पुरुषः च अधिदैवतम्। अत्र देहे अहम् एव अधियज्ञः।
- 5
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥
यान्त्रिकं प्रारूपम्antakāle ca māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||
यान्त्रिकं प्रारूपम्अन्तकाले च माम् एव स्मरन् कलेवरं मुक्त्वा यः प्रयाति, सः मद्भावं याति, अत्र संशयः न अस्ति।
- 6
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥
यान्त्रिकं प्रारूपम्yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||
यान्त्रिकं प्रारूपम्हे कौन्तेय, अन्ते यं यं वा अपि भावं स्मरन् कलेवरं त्यजति, सदा तद्भावभावितः तं तम् एव एति।
- 7
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥
यान्त्रिकं प्रारूपम्tasmātsarveṣu kāleṣu māmanusmara yudhya ca |
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||
यान्त्रिकं प्रारूपम्तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च। मयि अर्पितमनोबुद्धिः असंशयः माम् एव एष्यसि।
- 8
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥
यान्त्रिकं प्रारूपम्abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||
यान्त्रिकं प्रारूपम्हे पार्थ, अभ्यासयोगयुक्तेन न अन्यगामिना चेतसा अनुचिन्तयन् परमं दिव्यं पुरुषं याति।
- 9
कविं पुराणमनुशासितार-
मणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् ॥
यान्त्रिकं प्रारूपम्kaviṃ purāṇamanuśāsitāra-
maṇoraṇīyaṃsamanusmaredyaḥ |
sarvasya dhātāramacintyarūpa-
mādityavarṇaṃ tamasaḥ parastāt ||
यान्त्रिकं प्रारूपम्यः कविं पुराणम् अनुशासितारम् अणोः अणीयांसं सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् अनुस्मरेत्,
- 10
प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥
यान्त्रिकं प्रारूपम्prayāṇakāle manasā'calena
bhaktyā yukto yogabalena caiva |
bhruvormadhye prāṇamāveśya samyak
sa taṃ paraṃ puruṣamupaiti divyam ||
यान्त्रिकं प्रारूपम्सः प्रयाणकाले अचलेन मनसा भक्त्या युक्तः योगबलेन च एव भ्रुवोः मध्ये प्राणं सम्यक् आवेश्य तं परं दिव्यं पुरुषम् उपैति।
- 11
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥
यान्त्रिकं प्रारूपम्yadakṣaraṃ vedavido vadanti
viśanti yadyatayo vītarāgāḥ |
yadicchanto brahmacaryaṃ caranti
tatte padaṃ saṅgraheṇa pravakṣye ||
यान्त्रिकं प्रारूपम्वेदविदः यत् अक्षरं वदन्ति, वीतरागाः यतयः यत् विशन्ति, यत् इच्छन्तः ब्रह्मचर्यं चरन्ति, तत् पदं ते सङ्ग्रहेण प्रवक्ष्ये।
- 12
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥
यान्त्रिकं प्रारूपम्sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||
यान्त्रिकं प्रारूपम्सर्वद्वाराणि संयम्य, मनः च हृदि निरुध्य, आत्मनः प्राणं मूर्ध्नि आधाय, योगधारणाम् आस्थितः,
- 13
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥
यान्त्रिकं प्रारूपम्omityekākṣaraṃ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||
यान्त्रिकं प्रारूपम्ओम् इति एकाक्षरं ब्रह्म व्याहरन्, माम् अनुस्मरन्, देहं त्यजन् यः प्रयाति, सः परमां गतिं याति।
- 14
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥
यान्त्रिकं प्रारूपम्ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||
यान्त्रिकं प्रारूपम्हे पार्थ, यः अनन्यचेताः सततं नित्यशः मां स्मरति, तस्य नित्ययुक्तस्य योगिनः अहं सुलभः।
- 15
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
यान्त्रिकं प्रारूपम्māmupetya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||
यान्त्रिकं प्रारूपम्परमां संसिद्धिं गताः महात्मानः माम् उपेत्य दुःखालयम् अशाश्वतं पुनर्जन्म न आप्नुवन्ति।
- 16
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥
यान्त्रिकं प्रारूपम्ābrahmabhuvanāllokāḥ punarāvartino'rjuna |
māmupetya tu kaunteya punarjanma na vidyate ||
यान्त्रिकं प्रारूपम्हे अर्जुन, आब्रह्मभुवनात् लोकाः पुनरावर्तिनः। हे कौन्तेय, माम् उपेत्य तु पुनर्जन्म न विद्यते।
- 17
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥
यान्त्रिकं प्रारूपम्sahasrayugaparyantamaharyad brahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ ||
यान्त्रिकं प्रारूपम्ये जनाः ब्रह्मणः यत् अहः सहस्रयुगपर्यन्तं, रात्रिं युगसहस्रान्तां विदुः, ते अहोरात्रविदः।
- 18
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥
यान्त्रिकं प्रारूपम्avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃjñake ||
यान्त्रिकं प्रारूपम्अहरागमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति। रात्र्यागमे तत्र एव अव्यक्तसंज्ञके प्रलीयन्ते।
- 19
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥
यान्त्रिकं प्रारूपम्bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ||
यान्त्रिकं प्रारूपम्हे पार्थ, सः एव अयं भूतग्रामः भूत्वा भूत्वा रात्र्यागमे अवशः प्रलीयते, अहरागमे प्रभवति।
- 20
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥
यान्त्रिकं प्रारूपम्parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ |
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||
यान्त्रिकं प्रारूपम्तस्मात् अव्यक्तात् तु परः अन्यः सनातनः अव्यक्तः भावः, यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति।
- 21
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥
यान्त्रिकं प्रारूपम्avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante taddhāma paramaṃ mama ||
यान्त्रिकं प्रारूपम्अव्यक्तः अक्षरः इति उक्तः, तं परमां गतिम् आहुः। यं प्राप्य न निवर्तन्ते, तत् मम परमं धाम।
- 22
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥
यान्त्रिकं प्रारूपम्puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||
यान्त्रिकं प्रारूपम्हे पार्थ, सः परः पुरुषः तु अनन्यया भक्त्या लभ्यः, यस्य अन्तःस्थानि भूतानि, येन इदं सर्वं ततम्।
- 23
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥
यान्त्रिकं प्रारूपम्yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||
यान्त्रिकं प्रारूपम्हे भरतर्षभ, यत्र काले तु प्रयाताः योगिनः अनावृत्तिम् आवृत्तिं च एव यान्ति, तं कालं वक्ष्यामि।
- 24
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥
यान्त्रिकं प्रारूपम्agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavido janāḥ ||
यान्त्रिकं प्रारूपम्अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणम्, तत्र प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति।
- 25
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥
यान्त्रिकं प्रारूपम्dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṃ jyotiryogī prāpya nivartate ||
यान्त्रिकं प्रारूपम्धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिणायनम्, तत्र योगी चान्द्रमसं ज्योतिः प्राप्य निवर्तते।
- 26
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥
यान्त्रिकं प्रारूपम्śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate |
ekayā yātyanāvṛttimanyayāvartate punaḥ ||
यान्त्रिकं प्रारूपम्जगतः एते शुक्लकृष्णे गती हि शाश्वते मते। एकया अनावृत्तिं याति, अन्यया पुनः आवर्तते।
- 27
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥
यान्त्रिकं प्रारूपम्naite sṛtī pārtha jānanyogī muhyati kaścana |
tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||
यान्त्रिकं प्रारूपम्हे पार्थ, एते सृती जानन् कश्चन योगी न मुह्यति। तस्मात् हे अर्जुन, सर्वेषु कालेषु योगयुक्तः भव।
- 28
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥
यान्त्रिकं प्रारूपम्vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalaṃ pradiṣṭam |
atyeti tatsarvamidaṃ viditvā
yogī paraṃ sthānamupaiti cādyam ||
यान्त्रिकं प्रारूपम्इदं विदित्वा योगी वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्यफलं प्रदिष्टं, तत् सर्वम् अत्येति, आद्यं परं स्थानं च उपैति।