संस्कृतम्

अध्यायः 17

श्रद्धात्रयविभागयोगः

२८ श्लोकाः

२८ श्लोकाः

  1. 1

    ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

    तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥

    ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ |

    teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||

    यान्त्रिकं प्रारूपम्

    अर्जुन उवाच। कृष्ण, ये शास्त्रविधिम् उत्सृज्य श्रद्धया अन्विताः यजन्ते, तेषां निष्ठा तु का, सत्त्वम् आहो रजः तमः।

    यान्त्रिकं प्रारूपम्
  2. 2

    त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

    सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥

    trividhā bhavati śraddhā dehināṃ sā svabhāvajā |

    sāttvikī rājasī caiva tāmasī ceti tāṃ śa‍ṛṇu ||

    यान्त्रिकं प्रारूपम्

    श्रीभगवानुवाच। देहिनां सा स्वभावजा श्रद्धा त्रिविधा भवति, सात्त्विकी राजसी च एव तामसी च इति, तां शृणु।

    यान्त्रिकं प्रारूपम्
  3. 3

    सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

    श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥

    sattvānurūpā sarvasya śraddhā bhavati bhārata |

    śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||

    यान्त्रिकं प्रारूपम्

    भारत, सर्वस्य श्रद्धा सत्त्वानुरूपा भवति, अयं पुरुषः श्रद्धामयः, यः यच्छ्रद्धः सः सः एव।

    यान्त्रिकं प्रारूपम्
  4. 4

    यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।

    प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥

    yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ |

    pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||

    यान्त्रिकं प्रारूपम्

    सात्त्विकाः देवान् यजन्ते, राजसाः यक्षरक्षांसि, अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते।

    यान्त्रिकं प्रारूपम्
  5. 5

    अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

    दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥

    aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |

    dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||

    यान्त्रिकं प्रारूपम्

    ये जनाः दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः अशास्त्रविहितं घोरं तपः तप्यन्ते,

    यान्त्रिकं प्रारूपम्
  6. 6

    कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।

    मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥

    karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ |

    māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||

    यान्त्रिकं प्रारूपम्

    अचेतसः शरीरस्थं भूतग्रामं कर्षयन्तः, अन्तःशरीरस्थं मां च एव, तान् आसुरनिश्चयान् विद्धि।

    यान्त्रिकं प्रारूपम्
  7. 7

    आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

    यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥

    āhārastvapi sarvasya trividho bhavati priyaḥ |

    yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śa‍ṛṇu ||

    यान्त्रिकं प्रारूपम्

    सर्वस्य प्रियः आहारः तु अपि त्रिविधः भवति, तथा यज्ञः तपः दानं च, तेषाम् इमं भेदं शृणु।

    यान्त्रिकं प्रारूपम्
  8. 8

    आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

    रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥

    āyuḥsattvabalārogyasukhaprītivivardhanāḥ |

    rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||

    यान्त्रिकं प्रारूपम्

    आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः।

    यान्त्रिकं प्रारूपम्
  9. 9

    कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

    आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥

    kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |

    āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||

    यान्त्रिकं प्रारूपम्

    कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहाराः राजसस्य इष्टाः।

    यान्त्रिकं प्रारूपम्
  10. 10

    यातयामं गतरसं पूति पर्युषितं च यत् ।

    उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥

    yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat |

    ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||

    यान्त्रिकं प्रारूपम्

    यत् यातयामं गतरसं पूति पर्युषितं च उच्छिष्टम् अपि च अमेध्यं भोजनं तामसप्रियम्।

    यान्त्रिकं प्रारूपम्
  11. 11

    अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

    यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥

    aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate |

    yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||

    यान्त्रिकं प्रारूपम्

    अफलाकाङ्क्षिभिः यष्टव्यम् एव इति मनः समाधाय विधिदृष्टः यः यज्ञः इज्यते, सः सात्त्विकः।

    यान्त्रिकं प्रारूपम्
  12. 12

    अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।

    इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥

    abhisandhāya tu phalaṃ dambhārthamapi caiva yat |

    ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||

    यान्त्रिकं प्रारूपम्

    भरतश्रेष्ठ, यत् तु फलम् अभिसन्धाय दम्भार्थम् अपि च एव इज्यते, तं यज्ञं राजसं विद्धि।

    यान्त्रिकं प्रारूपम्
  13. 13

    विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।

    श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥

    vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam |

    śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||

    यान्त्रिकं प्रारूपम्

    विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते।

    यान्त्रिकं प्रारूपम्
  14. 14

    देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

    ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥

    devadvijaguruprājñapūjanaṃ śaucamārjavam |

    brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||

    यान्त्रिकं प्रारूपम्

    देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते।

    यान्त्रिकं प्रारूपम्
  15. 15

    अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

    स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥

    anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |

    svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||

    यान्त्रिकं प्रारूपम्

    अनुद्वेगकरं सत्यं प्रियहितं च यत् वाक्यं, स्वाध्यायाभ्यसनं च एव, वाङ्मयं तपः उच्यते।

    यान्त्रिकं प्रारूपम्
  16. 16

    मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

    भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥

    manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |

    bhāvasaṃśuddhirityetattapo mānasamucyate ||

    यान्त्रिकं प्रारूपम्

    मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसं तपः उच्यते।

    यान्त्रिकं प्रारूपम्
  17. 17

    श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।

    अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥

    śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ |

    aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||

    यान्त्रिकं प्रारूपम्

    युक्तैः अफलाकाङ्क्षिभिः नरैः परया श्रद्धया तप्तं तत् त्रिविधं तपः सात्त्विकं परिचक्षते।

    यान्त्रिकं प्रारूपम्
  18. 18

    सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

    क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥

    satkāramānapūjārthaṃ tapo dambhena caiva yat |

    kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||

    यान्त्रिकं प्रारूपम्

    यत् तपः सत्कारमानपूजार्थं दम्भेन च एव क्रियते, तत् इह चलम् अध्रुवं राजसं प्रोक्तम्।

    यान्त्रिकं प्रारूपम्
  19. 19

    मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

    परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥

    mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ |

    parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||

    यान्त्रिकं प्रारूपम्

    यत् तपः मूढग्राहेण आत्मनः पीडया परस्य उत्सादनार्थं वा क्रियते, तत् तामसम् उदाहृतम्।

    यान्त्रिकं प्रारूपम्
  20. 20

    दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

    देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥

    dātavyamiti yaddānaṃ dīyate'nupakāriṇe |

    deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||

    यान्त्रिकं प्रारूपम्

    दातव्यम् इति यत् दानं देशे काले च पात्रे च अनुपकारिणे दीयते, तत् दानं सात्त्विकं स्मृतम्।

    यान्त्रिकं प्रारूपम्
  21. 21

    यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

    दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥

    yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ |

    dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||

    यान्त्रिकं प्रारूपम्

    यत् तु प्रत्युपकारार्थं, फलम् उद्दिश्य वा पुनः, परिक्लिष्टं च दीयते, तत् दानं राजसं स्मृतम्।

    यान्त्रिकं प्रारूपम्
  22. 22

    अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

    असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥

    adeśakāle yaddānamapātrebhyaśca dīyate |

    asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||

    यान्त्रिकं प्रारूपम्

    यत् दानम् अदेशकाले अपात्रेभ्यः च असत्कृतम् अवज्ञातं दीयते, तत् तामसम् उदाहृतम्।

    यान्त्रिकं प्रारूपम्
  23. 23

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।

    ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥

    oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |

    brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||

    यान्त्रिकं प्रारूपम्

    ॐ तत् सत् इति ब्रह्मणः त्रिविधः निर्देशः स्मृतः, तेन पुरा ब्राह्मणाः वेदाः च यज्ञाः च विहिताः।

    यान्त्रिकं प्रारूपम्
  24. 24

    तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।

    प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

    tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ |

    pravartante vidhānoktāḥ satataṃ brahmavādinām ||

    यान्त्रिकं प्रारूपम्

    तस्मात् ब्रह्मवादिनां विधानोक्ताः यज्ञदानतपःक्रियाः सततम् ॐ इति उदाहृत्य प्रवर्तन्ते।

    यान्त्रिकं प्रारूपम्
  25. 25

    तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।

    दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥

    tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ |

    dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||

    यान्त्रिकं प्रारूपम्

    तत् इति फलम् अनभिसन्धाय मोक्षकाङ्क्षिभिः विविधाः यज्ञतपःक्रियाः दानक्रियाः च क्रियन्ते।

    यान्त्रिकं प्रारूपम्
  26. 26

    सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।

    प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥

    sadbhāve sādhubhāve ca sadityetatprayujyate |

    praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||

    यान्त्रिकं प्रारूपम्

    पार्थ, सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते, तथा प्रशस्ते कर्मणि सच्छब्दः युज्यते।

    यान्त्रिकं प्रारूपम्
  27. 27

    यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

    कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥

    yajñe tapasi dāne ca sthitiḥ saditi cocyate |

    karma caiva tadarthīyaṃ sadityevābhidhīyate ||

    यान्त्रिकं प्रारूपम्

    यज्ञे तपसि दाने च स्थितिः च सत् इति उच्यते, तदर्थीयं कर्म च एव सत् इति एव अभिधीयते।

    यान्त्रिकं प्रारूपम्
  28. 28

    अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

    असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥

    aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat |

    asadityucyate pārtha na ca tatpretya no iha ||

    यान्त्रिकं प्रारूपम्

    पार्थ, अश्रद्धया यत् हुतं दत्तं तपः तप्तं कृतं च, तत् असत् इति उच्यते, तत् न च प्रेत्य नो इह।

    यान्त्रिकं प्रारूपम्