७८ श्लोकाः
- 1
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥
यान्त्रिकं प्रारूपम्saṃnyāsasya mahābāho tattvamicchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||
यान्त्रिकं प्रारूपम्अर्जुन उवाच। महाबाहो हृषीकेश केशिनिषूदन, संन्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुम् इच्छामि।
- 2
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥
यान्त्रिकं प्रारूपम्kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||
यान्त्रिकं प्रारूपम्श्रीभगवानुवाच। कवयः काम्यानां कर्मणां न्यासं संन्यासं विदुः, विचक्षणाः सर्वकर्मफलत्यागं त्यागं प्राहुः।
- 3
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥
यान्त्रिकं प्रारूपम्tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyamiti cāpare ||
यान्त्रिकं प्रारूपम्एके मनीषिणः कर्म दोषवत् त्याज्यम् इति प्राहुः, अपरे च यज्ञदानतपःकर्म न त्याज्यम् इति।
- 4
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥
यान्त्रिकं प्रारूपम्niścayaṃ śaṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||
यान्त्रिकं प्रारूपम्भरतसत्तम, तत्र त्यागे मे निश्चयं शृणु, पुरुषव्याघ्र, त्यागः हि त्रिविधः सम्प्रकीर्तितः।
- 5
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
यान्त्रिकं प्रारूपम्yajñadānatapaḥkarma na tyājyaṃ kāryameva tat |
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||
यान्त्रिकं प्रारूपम्यज्ञदानतपःकर्म न त्याज्यं, तत् कार्यम् एव, यज्ञः दानं तपः च एव मनीषिणां पावनानि।
- 6
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥
यान्त्रिकं प्रारूपम्etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matamuttamam ||
यान्त्रिकं प्रारूपम्पार्थ, एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति मे निश्चितम् उत्तमं मतम्।
- 7
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥
यान्त्रिकं प्रारूपम्niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||
यान्त्रिकं प्रारूपम्नियतस्य तु कर्मणः संन्यासः न उपपद्यते, मोहात् तस्य परित्यागः तामसः परिकीर्तितः।
- 8
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥
यान्त्रिकं प्रारूपम्duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||
यान्त्रिकं प्रारूपम्यः दुःखम् इति एव कायक्लेशभयात् कर्म त्यजेत्, सः राजसं त्यागं कृत्वा त्यागफलं न एव लभेत्।
- 9
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥
यान्त्रिकं प्रारूपम्kāryamityeva yatkarma niyataṃ kriyate'rjuna |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||
यान्त्रिकं प्रारूपम्अर्जुन, कार्यम् इति एव यत् नियतं कर्म सङ्गं फलं च एव त्यक्त्वा क्रियते, सः त्यागः सात्त्विकः मतः।
- 10
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥
यान्त्रिकं प्रारूपम्na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||
यान्त्रिकं प्रारूपम्सत्त्वसमाविष्टः मेधावी छिन्नसंशयः त्यागी अकुशलं कर्म न द्वेष्टि, कुशले न अनुषज्जते।
- 11
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥
यान्त्रिकं प्रारूपम्na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||
यान्त्रिकं प्रारूपम्हि देहभृता कर्माणि अशेषतः त्यक्तुं न शक्यं, यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते।
- 12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥
यान्त्रिकं प्रारूपम्aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||
यान्त्रिकं प्रारूपम्अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् अत्यागिनां प्रेत्य भवति, संन्यासिनां तु क्वचित् न।
- 13
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥
यान्त्रिकं प्रारूपम्pañcaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||
यान्त्रिकं प्रारूपम्महाबाहो, कृतान्ते साङ्ख्ये सर्वकर्मणां सिद्धये प्रोक्तानि एतानि पञ्च कारणानि मे निबोध।
- 14
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
यान्त्रिकं प्रारूपम्adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||
यान्त्रिकं प्रारूपम्अधिष्ठानं तथा कर्ता पृथग्विधं च करणं विविधाः च पृथक् चेष्टाः, अत्र पञ्चमं दैवं च एव।
- 15
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥
यान्त्रिकं प्रारूपम्śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||
यान्त्रिकं प्रारूपम्नरः शरीरवाङ्मनोभिः न्याय्यं वा विपरीतं वा यत् कर्म प्रारभते, तस्य एते पञ्च हेतवः।
- 16
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥
यान्त्रिकं प्रारूपम्tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||
यान्त्रिकं प्रारूपम्तत्र एवं सति यः तु अकृतबुद्धित्वात् केवलम् आत्मानं कर्तारं पश्यति, सः दुर्मतिः न पश्यति।
- 17
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥
यान्त्रिकं प्रारूपम्yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |
hatvā'pi sa imā~llokānna hanti na nibadhyate ||
यान्त्रिकं प्रारूपम्यस्य अहङ्कृतः भावः न, यस्य बुद्धिः न लिप्यते, सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते।
- 18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥
यान्त्रिकं प्रारूपम्jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ||
यान्त्रिकं प्रारूपम्ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना, करणं कर्म कर्ता इति त्रिविधः कर्मसङ्ग्रहः।
- 19
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥
यान्त्रिकं प्रारूपम्jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ |
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||
यान्त्रिकं प्रारूपम्गुणसङ्ख्याने ज्ञानं कर्म च कर्ता च गुणभेदतः त्रिधा एव प्रोच्यते, तानि अपि यथावत् शृणु।
- 20
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
यान्त्रिकं प्रारूपम्sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||
यान्त्रिकं प्रारूपम्येन सर्वभूतेषु एकम् अव्ययं भावं विभक्तेषु अविभक्तम् ईक्षते, तत् ज्ञानं सात्त्विकं विद्धि।
- 21
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
यान्त्रिकं प्रारूपम्pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān |
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||
यान्त्रिकं प्रारूपम्यत् तु ज्ञानं पृथक्त्वेन सर्वेषु भूतेषु पृथग्विधान् नानाभावान् वेत्ति, तत् ज्ञानं राजसं विद्धि।
- 22
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥
यान्त्रिकं प्रारूपम्yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||
यान्त्रिकं प्रारूपम्यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च, तत् तामसम् उदाहृतम्।
- 23
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥
यान्त्रिकं प्रारूपम्niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamucyate ||
यान्त्रिकं प्रारूपम्यत् नियतं कर्म सङ्गरहितम् अरागद्वेषतः अफलप्रेप्सुना कृतं, तत् सात्त्विकम् उच्यते।
- 24
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥
यान्त्रिकं प्रारूपम्yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||
यान्त्रिकं प्रारूपम्यत् तु कर्म कामेप्सुना साहङ्कारेण वा पुनः बहुलायासं क्रियते, तत् राजसम् उदाहृतम्।
- 25
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥
यान्त्रिकं प्रारूपम्anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam |
mohādārabhyate karma yattattāmasamucyate ||
यान्त्रिकं प्रारूपम्यत् कर्म अनुबन्धं क्षयं हिंसां पौरुषं च अनपेक्ष्य मोहात् आरभ्यते, तत् तामसम् उच्यते।
- 26
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥
यान्त्रिकं प्रारूपम्muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||
यान्त्रिकं प्रारूपम्मुक्तसङ्गः अनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते।
- 27
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥
यान्त्रिकं प्रारूपम्rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||
यान्त्रिकं प्रारूपम्रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः।
- 28
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥
यान्त्रिकं प्रारूपम्ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||
यान्त्रिकं प्रारूपम्अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते।
- 29
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥
यान्त्रिकं प्रारूपम्buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śaṛṇu |
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||
यान्त्रिकं प्रारूपम्धनञ्जय, बुद्धेः धृतेः च एव गुणतः त्रिविधं भेदम् अशेषेण पृथक्त्वेन प्रोच्यमानं शृणु।
- 30
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥
यान्त्रिकं प्रारूपम्pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye |
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||
यान्त्रिकं प्रारूपम्पार्थ, या बुद्धिः प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च वेत्ति, सा सात्त्विकी।