संस्कृतम्

अध्यायः 3

कर्मयोगः

४३ श्लोकाः

४३ श्लोकाः

  1. 1

    ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।

    तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥

    jyāyasī cetkarmaṇaste matā buddhirjanārdana |

    tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||

    यान्त्रिकं प्रारूपम्

    अर्जुन उवाच। हे जनार्दन, चेत् ते कर्मणः बुद्धिः ज्यायसी मता, तत् हे केशव, मां घोरे कर्मणि किं नियोजयसि।

    यान्त्रिकं प्रारूपम्
  2. 2

    व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।

    तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥

    vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |

    tadekaṃ vada niścitya yena śreyo'hamāpnuyām ||

    यान्त्रिकं प्रारूपम्

    व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव। तत् एकं निश्चित्य वद, येन अहं श्रेयः आप्नुयाम्।

    यान्त्रिकं प्रारूपम्
  3. 3

    लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

    ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥

    loke'smin dvividhā niṣṭhā purā proktā mayānagha |

    jñānayogena sāṅkhyānāṃ karmayogena yoginām ||

    यान्त्रिकं प्रारूपम्

    श्रीभगवानुवाच। हे अनघ, अस्मिन् लोके द्विविधा निष्ठा मया पुरा प्रोक्ता, साङ्ख्यानां ज्ञानयोगेन, योगिनां कर्मयोगेन।

    यान्त्रिकं प्रारूपम्
  4. 4

    न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।

    न च संन्यसनादेव सिद्धिं समधिगच्छति ॥

    na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |

    na ca saṃnyasanādeva siddhiṃ samadhigacchati ||

    यान्त्रिकं प्रारूपम्

    पुरुषः कर्मणाम् अनारम्भात् नैष्कर्म्यं न अश्नुते, न च संन्यसनात् एव सिद्धिं समधिगच्छति।

    यान्त्रिकं प्रारूपम्
  5. 5

    न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

    कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥

    na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt |

    kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||

    यान्त्रिकं प्रारूपम्

    कश्चित् जातु क्षणम् अपि अकर्मकृत् न हि तिष्ठति। सर्वः हि प्रकृतिजैः गुणैः अवशः कर्म कार्यते।

    यान्त्रिकं प्रारूपम्
  6. 6

    कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

    इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥

    karmendriyāṇi saṃyamya ya āste manasā smaran |

    indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||

    यान्त्रिकं प्रारूपम्

    यः विमूढात्मा कर्मेन्द्रियाणि संयम्य मनसा इन्द्रियार्थान् स्मरन् आस्ते, सः मिथ्याचारः उच्यते।

    यान्त्रिकं प्रारूपम्
  7. 7

    यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।

    कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥

    yastvindriyāṇi manasā niyamyārabhate'rjuna |

    karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||

    यान्त्रिकं प्रारूपम्

    हे अर्जुन, यः तु मनसा इन्द्रियाणि नियम्य असक्तः कर्मेन्द्रियैः कर्मयोगम् आरभते, सः विशिष्यते।

    यान्त्रिकं प्रारूपम्
  8. 8

    नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

    शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥

    niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |

    śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||

    यान्त्रिकं प्रारूपम्

    त्वं नियतं कर्म कुरु। अकर्मणः हि कर्म ज्यायः। अकर्मणः ते शरीरयात्रा अपि च न प्रसिद्ध्येत्।

    यान्त्रिकं प्रारूपम्
  9. 9

    यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।

    तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥

    yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ |

    tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||

    यान्त्रिकं प्रारूपम्

    यज्ञार्थात् कर्मणः अन्यत्र अयं लोकः कर्मबन्धनः। हे कौन्तेय, मुक्तसङ्गः तदर्थं कर्म समाचर।

    यान्त्रिकं प्रारूपम्
  10. 10

    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥

    sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |

    anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ||

    यान्त्रिकं प्रारूपम्

    पुरा प्रजापतिः सहयज्ञाः प्रजाः सृष्ट्वा उवाच, अनेन प्रसविष्यध्वम्, एषः वः इष्टकामधुक् अस्तु।

    यान्त्रिकं प्रारूपम्
  11. 11

    देवान्भावयतानेन ते देवा भावयन्तु वः ।

    परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥

    devānbhāvayatānena te devā bhāvayantu vaḥ |

    parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||

    यान्त्रिकं प्रारूपम्

    अनेन देवान् भावयत, ते देवाः वः भावयन्तु। परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ।

    यान्त्रिकं प्रारूपम्
  12. 12

    इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।

    तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥

    iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ |

    tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||

    यान्त्रिकं प्रारूपम्

    यज्ञभाविताः देवाः वः इष्टान् भोगान् दास्यन्ते हि। तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते, सः स्तेनः एव।

    यान्त्रिकं प्रारूपम्
  13. 13

    यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

    भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥

    yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |

    bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||

    यान्त्रिकं प्रारूपम्

    यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषैः मुच्यन्ते। ये तु आत्मकारणात् पचन्ति, ते पापाः अघं भुञ्जते।

    यान्त्रिकं प्रारूपम्
  14. 14

    अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।

    यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥

    annādbhavanti bhūtāni parjanyādannasambhavaḥ |

    yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||

    यान्त्रिकं प्रारूपम्

    भूतानि अन्नात् भवन्ति, अन्नसम्भवः पर्जन्यात्, पर्जन्यः यज्ञात् भवति, यज्ञः कर्मसमुद्भवः।

    यान्त्रिकं प्रारूपम्
  15. 15

    कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।

    तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥

    karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |

    tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||

    यान्त्रिकं प्रारूपम्

    कर्म ब्रह्मोद्भवं विद्धि, ब्रह्म अक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्।

    यान्त्रिकं प्रारूपम्
  16. 16

    एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

    अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥

    evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |

    aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||

    यान्त्रिकं प्रारूपम्

    हे पार्थ, यः इह एवं प्रवर्तितं चक्रं न अनुवर्तयति, सः अघायुः इन्द्रियारामः मोघं जीवति।

    यान्त्रिकं प्रारूपम्
  17. 17

    यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।

    आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥

    yastvātmaratireva syādātmatṛptaśca mānavaḥ |

    ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||

    यान्त्रिकं प्रारूपम्

    यः तु मानवः आत्मरतिः एव आत्मतृप्तः च आत्मनि एव च सन्तुष्टः स्यात्, तस्य कार्यं न विद्यते।

    यान्त्रिकं प्रारूपम्
  18. 18

    नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

    न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥

    naiva tasya kṛtenārtho nākṛteneha kaścana |

    na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||

    यान्त्रिकं प्रारूपम्

    तस्य इह कृतेन अर्थः न एव, अकृतेन कश्चन न। अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः न।

    यान्त्रिकं प्रारूपम्
  19. 19

    तस्मादसक्तः सततं कार्यं कर्म समाचर ।

    असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥

    tasmādasaktaḥ satataṃ kāryaṃ karma samācara |

    asakto hyācarankarma paramāpnoti pūruṣaḥ ||

    यान्त्रिकं प्रारूपम्

    तस्मात् असक्तः सततं कार्यं कर्म समाचर। असक्तः हि कर्म आचरन् पूरुषः परम् आप्नोति।

    यान्त्रिकं प्रारूपम्
  20. 20

    कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

    लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥

    karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |

    lokasaṅgrahamevāpi sampaśyankartumarhasi ||

    यान्त्रिकं प्रारूपम्

    जनकादयः हि कर्मणा एव संसिद्धिम् आस्थिताः। लोकसङ्ग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि।

    यान्त्रिकं प्रारूपम्
  21. 21

    यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

    स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥

    yadyadācarati śreṣṭhastattadevetaro janaḥ |

    sa yatpramāṇaṃ kurute lokastadanuvartate ||

    यान्त्रिकं प्रारूपम्

    श्रेष्ठः यत् यत् आचरति, इतरः जनः तत् तत् एव। सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते।

    यान्त्रिकं प्रारूपम्
  22. 22

    न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

    नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥

    na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |

    nānavāptamavāptavyaṃ varta eva ca karmaṇi ||

    यान्त्रिकं प्रारूपम्

    हे पार्थ, मे त्रिषु लोकेषु किञ्चन कर्तव्यं न अस्ति, अनवाप्तम् अवाप्तव्यं न, कर्मणि च वर्ते एव।

    यान्त्रिकं प्रारूपम्
  23. 23

    यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।

    मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

    yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |

    mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||

    यान्त्रिकं प्रारूपम्

    हे पार्थ, यदि अहं जातु अतन्द्रितः कर्मणि न वर्तेयं, मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते हि।

    यान्त्रिकं प्रारूपम्
  24. 24

    उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।

    सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥

    utsīdeyurime lokā na kuryāṃ karma cedaham |

    saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||

    यान्त्रिकं प्रारूपम्

    चेत् अहं कर्म न कुर्यां, इमे लोकाः उत्सीदेयुः। सङ्करस्य च कर्ता स्याम्, इमाः प्रजाः उपहन्याम्।

    यान्त्रिकं प्रारूपम्
  25. 25

    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।

    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥

    saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |

    kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham ||

    यान्त्रिकं प्रारूपम्

    हे भारत, यथा कर्मणि सक्ताः अविद्वांसः कुर्वन्ति, तथा विद्वान् असक्तः लोकसङ्ग्रहं चिकीर्षुः कुर्यात्।

    यान्त्रिकं प्रारूपम्
  26. 26

    न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।

    जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥

    na buddhibhedaṃ janayedajñānāṃ karmasaṅginām |

    joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||

    यान्त्रिकं प्रारूपम्

    विद्वान् कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदं न जनयेत्। युक्तः समाचरन् सर्वकर्माणि जोषयेत्।

    यान्त्रिकं प्रारूपम्
  27. 27

    प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

    अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥

    prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |

    ahaṅkāravimūḍhātmā kartāhamiti manyate ||

    यान्त्रिकं प्रारूपम्

    प्रकृतेः गुणैः सर्वशः कर्माणि क्रियमाणानि, अहङ्कारविमूढात्मा अहं कर्ता इति मन्यते।

    यान्त्रिकं प्रारूपम्
  28. 28

    तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।

    गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥

    tattvavittu mahābāho guṇakarmavibhāgayoḥ |

    guṇā guṇeṣu vartanta iti matvā na sajjate ||

    यान्त्रिकं प्रारूपम्

    हे महाबाहो, गुणकर्मविभागयोः तत्त्ववित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते।

    यान्त्रिकं प्रारूपम्
  29. 29

    प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।

    तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥

    prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu |

    tānakṛtsnavido mandānkṛtsnavinna vicālayet ||

    यान्त्रिकं प्रारूपम्

    प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते। तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत्।

    यान्त्रिकं प्रारूपम्
  30. 30

    मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

    निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥

    mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |

    nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||

    यान्त्रिकं प्रारूपम्

    सर्वाणि कर्माणि अध्यात्मचेतसा मयि संन्यस्य, निराशीः निर्ममः भूत्वा, विगतज्वरः युध्यस्व।

    यान्त्रिकं प्रारूपम्