संस्कृतम्

अध्यायः 9

राजविद्याराजगुह्ययोगः

३४ श्लोकाः

३४ श्लोकाः

  1. 1

    इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

    ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥

    idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |

    jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt ||

    यान्त्रिकं प्रारूपम्

    श्रीभगवानुवाच। अनसूयवे ते तु इदं गुह्यतमं विज्ञानसहितं ज्ञानं प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे।

    यान्त्रिकं प्रारूपम्
  2. 2

    राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

    प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥

    rājavidyā rājaguhyaṃ pavitramidamuttamam |

    pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||

    यान्त्रिकं प्रारूपम्

    इदं राजविद्या राजगुह्यं पवित्रम् उत्तमं प्रत्यक्षावगमं धर्म्यं कर्तुं सुसुखम् अव्ययम्।

    यान्त्रिकं प्रारूपम्
  3. 3

    अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

    अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥

    aśraddadhānāḥ puruṣā dharmasyāsya parantapa |

    aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||

    यान्त्रिकं प्रारूपम्

    हे परन्तप, अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते।

    यान्त्रिकं प्रारूपम्
  4. 4

    मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

    मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥

    mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |

    matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||

    यान्त्रिकं प्रारूपम्

    अव्यक्तमूर्तिना मया इदं सर्वं जगत् ततम्। सर्वभूतानि मत्स्थानि, अहं च तेषु न अवस्थितः।

    यान्त्रिकं प्रारूपम्
  5. 5

    न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

    भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥

    na ca matsthāni bhūtāni paśya me yogamaiśvaram |

    bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||

    यान्त्रिकं प्रारूपम्

    भूतानि च मत्स्थानि न। मे ऐश्वरं योगं पश्य। मम आत्मा भूतभृत्, न च भूतस्थः, भूतभावनः।

    यान्त्रिकं प्रारूपम्
  6. 6

    यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

    तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥

    yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |

    tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||

    यान्त्रिकं प्रारूपम्

    यथा सर्वत्रगः महान् वायुः नित्यम् आकाशस्थितः, तथा सर्वाणि भूतानि मत्स्थानि इति उपधारय।

    यान्त्रिकं प्रारूपम्
  7. 7

    सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

    कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥

    sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |

    kalpakṣaye punastāni kalpādau visṛjāmyaham ||

    यान्त्रिकं प्रारूपम्

    हे कौन्तेय, कल्पक्षये सर्वभूतानि मामिकां प्रकृतिं यान्ति। कल्पादौ पुनः तानि अहं विसृजामि।

    यान्त्रिकं प्रारूपम्
  8. 8

    प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।

    भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥

    prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ |

    bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||

    यान्त्रिकं प्रारूपम्

    स्वां प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् अवशम् इमं कृत्स्नं भूतग्रामं पुनः पुनः विसृजामि।

    यान्त्रिकं प्रारूपम्
  9. 9

    न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

    उदासीनवदासीनमसक्तं तेषु कर्मसु ॥

    na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |

    udāsīnavadāsīnamasaktaṃ teṣu karmasu ||

    यान्त्रिकं प्रारूपम्

    हे धनञ्जय, तेषु कर्मसु असक्तम् उदासीनवत् आसीनं मां तानि कर्माणि न च निबध्नन्ति।

    यान्त्रिकं प्रारूपम्
  10. 10

    मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

    हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥

    mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |

    hetunānena kaunteya jagadviparivartate ||

    यान्त्रिकं प्रारूपम्

    हे कौन्तेय, मया अध्यक्षेण प्रकृतिः सचराचरं सूयते। अनेन हेतुना जगत् विपरिवर्तते।

    यान्त्रिकं प्रारूपम्
  11. 11

    अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

    परं भावमजानन्तो मम भूतमहेश्वरम् ॥

    avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam |

    paraṃ bhāvamajānanto mama bhūtamaheśvaram ||

    यान्त्रिकं प्रारूपम्

    मूढाः मम भूतमहेश्वरं परं भावम् अजानन्तः मानुषीं तनुम् आश्रितं माम् अवजानन्ति।

    यान्त्रिकं प्रारूपम्
  12. 12

    मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

    राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

    moghāśā moghakarmāṇo moghajñānā vicetasaḥ |

    rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||

    यान्त्रिकं प्रारूपम्

    मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च एव मोहिनीं प्रकृतिं श्रिताः।

    यान्त्रिकं प्रारूपम्
  13. 13

    महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।

    भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥

    mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |

    bhajantyananyamanaso jñātvā bhūtādimavyayam ||

    यान्त्रिकं प्रारूपम्

    हे पार्थ, महात्मानः तु दैवीं प्रकृतिम् आश्रिताः मां भूतादिम् अव्ययं ज्ञात्वा अनन्यमनसः भजन्ति।

    यान्त्रिकं प्रारूपम्
  14. 14

    सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।

    नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥

    satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |

    namasyantaśca māṃ bhaktyā nityayuktā upāsate ||

    यान्त्रिकं प्रारूपम्

    दृढव्रताः सततं मां कीर्तयन्तः यतन्तः च भक्त्या मां नमस्यन्तः च नित्ययुक्ताः उपासते।

    यान्त्रिकं प्रारूपम्
  15. 15

    ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।

    एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥

    jñānayajñena cāpyanye yajanto māmupāsate |

    ekatvena pṛthaktvena bahudhā viśvatomukham ||

    यान्त्रिकं प्रारूपम्

    अन्ये च अपि ज्ञानयज्ञेन यजन्तः एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखं माम् उपासते।

    यान्त्रिकं प्रारूपम्
  16. 16

    अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।

    मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥

    ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham |

    mantro'hamahamevājyamahamagnirahaṃ hutam ||

    यान्त्रिकं प्रारूपम्

    अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहम् औषधम्, अहं मन्त्रः, अहम् एव आज्यम्, अहम् अग्निः, अहं हुतम्।

    यान्त्रिकं प्रारूपम्
  17. 17

    पिताहमस्य जगतो माता धाता पितामहः ।

    वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥

    pitāhamasya jagato mātā dhātā pitāmahaḥ |

    vedyaṃ pavitramoṅkāra ṛksāma yajureva ca ||

    यान्त्रिकं प्रारूपम्

    अहम् अस्य जगतः पिता, माता, धाता, पितामहः, वेद्यं, पवित्रम्, ओङ्कारः, ऋक् साम यजुः एव च।

    यान्त्रिकं प्रारूपम्
  18. 18

    गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।

    प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥

    gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |

    prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||

    यान्त्रिकं प्रारूपम्

    गतिः, भर्ता, प्रभुः, साक्षी, निवासः, शरणं, सुहृत्, प्रभवः, प्रलयः, स्थानं, निधानम्, अव्ययं बीजम्।

    यान्त्रिकं प्रारूपम्
  19. 19

    तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।

    अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥

    tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca |

    amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||

    यान्त्रिकं प्रारूपम्

    हे अर्जुन, अहं तपामि, अहं वर्षं निगृह्णामि उत्सृजामि च। अहम् अमृतं च एव मृत्युः च, सत् असत् च।

    यान्त्रिकं प्रारूपम्
  20. 20

    त्रैविद्या मां सोमपाः पूतपापा

    यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।

    ते पुण्यमासाद्य सुरेन्द्रलोक-

    मश्नन्ति दिव्यान्दिवि देवभोगान् ॥

    traividyā māṃ somapāḥ pūtapāpā

    yajñairiṣṭvā svargatiṃ prārthayante |

    te puṇyamāsādya surendraloka-

    maśnanti divyāndivi devabhogān ||

    यान्त्रिकं प्रारूपम्

    त्रैविद्याः सोमपाः पूतपापाः यज्ञैः माम् इष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यं सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति।

    यान्त्रिकं प्रारूपम्
  21. 21

    ते तं भुक्त्वा स्वर्गलोकं विशालं

    क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

    एवं त्रयीधर्ममनुप्रपन्ना

    गतागतं कामकामा लभन्ते ॥

    te taṃ bhuktvā svargalokaṃ viśālaṃ

    kṣīṇe puṇye martyalokaṃ viśanti |

    evaṃ trayīdharmamanuprapannā

    gatāgataṃ kāmakāmā labhante ||

    यान्त्रिकं प्रारूपम्

    ते तं विशालं स्वर्गलोकं भुक्त्वा पुण्ये क्षीणे मर्त्यलोकं विशन्ति। एवं त्रयीधर्मम् अनुप्रपन्नाः कामकामाः गतागतं लभन्ते।

    यान्त्रिकं प्रारूपम्
  22. 22

    अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

    तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

    ananyāścintayanto māṃ ye janāḥ paryupāsate |

    teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||

    यान्त्रिकं प्रारूपम्

    ये जनाः अनन्याः मां चिन्तयन्तः पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमम् अहं वहामि।

    यान्त्रिकं प्रारूपम्
  23. 23

    येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।

    तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥

    ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ |

    te'pi māmeva kaunteya yajantyavidhipūrvakam ||

    यान्त्रिकं प्रारूपम्

    हे कौन्तेय, ये अपि भक्ताः श्रद्धया अन्विताः अन्यदेवताः यजन्ते, ते अपि माम् एव अविधिपूर्वकं यजन्ति।

    यान्त्रिकं प्रारूपम्
  24. 24

    अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

    न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥

    ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca |

    na tu māmabhijānanti tattvenātaścyavanti te ||

    यान्त्रिकं प्रारूपम्

    अहं हि सर्वयज्ञानां भोक्ता च प्रभुः एव च। ते तु मां तत्त्वेन न अभिजानन्ति, अतः च्यवन्ति।

    यान्त्रिकं प्रारूपम्
  25. 25

    यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।

    भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥

    yānti devavratā devānpitṝnyānti pitṛvratāḥ |

    bhūtāni yānti bhūtejyā yānti madyājino'pi mām ||

    यान्त्रिकं प्रारूपम्

    देवव्रताः देवान् यान्ति, पितृव्रताः पितॄन् यान्ति, भूतेज्याः भूतानि यान्ति, मद्याजिनः अपि मां यान्ति।

    यान्त्रिकं प्रारूपम्
  26. 26

    पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

    तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥

    patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |

    tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||

    यान्त्रिकं प्रारूपम्

    यः मे भक्त्या पत्रं पुष्पं फलं तोयं प्रयच्छति, प्रयतात्मनः तत् भक्त्युपहृतम् अहम् अश्नामि।

    यान्त्रिकं प्रारूपम्
  27. 27

    यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

    यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

    yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |

    yattapasyasi kaunteya tatkuruṣva madarpaṇam ||

    यान्त्रिकं प्रारूपम्

    हे कौन्तेय, यत् करोषि, यत् अश्नासि, यत् जुहोषि, यत् ददासि, यत् तपस्यसि, तत् मदर्पणं कुरुष्व।

    यान्त्रिकं प्रारूपम्
  28. 28

    शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

    संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥

    śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ |

    saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||

    यान्त्रिकं प्रारूपम्

    एवं शुभाशुभफलैः कर्मबन्धनैः मोक्ष्यसे। संन्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि।

    यान्त्रिकं प्रारूपम्
  29. 29

    समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

    ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥

    samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ |

    ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||

    यान्त्रिकं प्रारूपम्

    अहं सर्वभूतेषु समः, मे द्वेष्यः न अस्ति, न प्रियः। ये तु मां भक्त्या भजन्ति, ते मयि, अहम् अपि च तेषु।

    यान्त्रिकं प्रारूपम्
  30. 30

    अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

    साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

    api cetsudurācāro bhajate māmananyabhāk |

    sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||

    यान्त्रिकं प्रारूपम्

    चेत् सुदुराचारः अपि अनन्यभाक् मां भजते, सः साधुः एव मन्तव्यः, सः हि सम्यक् व्यवसितः।

    यान्त्रिकं प्रारूपम्