४७ श्लोकाः
- 1
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥
यान्त्रिकं प्रारूपम्anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||
यान्त्रिकं प्रारूपम्श्रीभगवानुवाच। यः कर्मफलम् अनाश्रितः कार्यं कर्म करोति, सः संन्यासी च योगी च, न निरग्निः न च अक्रियः।
- 2
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥
यान्त्रिकं प्रारूपम्yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||
यान्त्रिकं प्रारूपम्हे पाण्डव, यं संन्यासम् इति प्राहुः, तं योगं विद्धि। असंन्यस्तसङ्कल्पः कश्चन योगी न हि भवति।
- 3
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥
यान्त्रिकं प्रारूपम्ārurukṣormuneryogaṃ karma kāraṇamucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||
यान्त्रिकं प्रारूपम्योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते। तस्य एव योगारूढस्य शमः कारणम् उच्यते।
- 4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥
यान्त्रिकं प्रारूपम्yadā hi nendriyārtheṣu na karmasvanuṣajjate |
sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||
यान्त्रिकं प्रारूपम्यदा हि इन्द्रियार्थेषु न अनुषज्जते, कर्मसु न, सर्वसङ्कल्पसंन्यासी, तदा योगारूढः उच्यते।
- 5
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
यान्त्रिकं प्रारूपम्uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||
यान्त्रिकं प्रारूपम्आत्मना आत्मानम् उद्धरेत्, आत्मानं न अवसादयेत्। आत्मा एव हि आत्मनः बन्धुः, आत्मा एव आत्मनः रिपुः।
- 6
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥
यान्त्रिकं प्रारूपम्bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat ||
यान्त्रिकं प्रारूपम्येन आत्मना एव आत्मा जितः, तस्य आत्मनः आत्मा बन्धुः। अनात्मनः तु आत्मा एव शत्रुवत् शत्रुत्वे वर्तेत।
- 7
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥
यान्त्रिकं प्रारूपम्jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||
यान्त्रिकं प्रारूपम्जितात्मनः प्रशान्तस्य शीतोष्णसुखदुःखेषु तथा मानापमानयोः परमात्मा समाहितः।
- 8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥
यान्त्रिकं प्रारूपम्jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||
यान्त्रिकं प्रारूपम्ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः समलोष्टाश्मकाञ्चनः योगी युक्तः इति उच्यते।
- 9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥
यान्त्रिकं प्रारूपम्suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||
यान्त्रिकं प्रारूपम्सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु अपि च पापेषु समबुद्धिः विशिष्यते।
- 10
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥
यान्त्रिकं प्रारूपम्yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ekākī yatacittātmā nirāśīraparigrahaḥ ||
यान्त्रिकं प्रारूपम्योगी रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः सततम् आत्मानं युञ्जीत।
- 11
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥
यान्त्रिकं प्रारूपम्śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||
यान्त्रिकं प्रारूपम्शुचौ देशे आत्मनः स्थिरम् आसनं नातिउच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरं प्रतिष्ठाप्य,
- 12
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥
यान्त्रिकं प्रारूपम्tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ |
upaviśyāsane yuñjyādyogamātmaviśuddhaye ||
यान्त्रिकं प्रारूपम्तत्र आसने उपविश्य मनः एकाग्रं कृत्वा यतचित्तेन्द्रियक्रियः आत्मविशुद्धये योगं युञ्ज्यात्।
- 13
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
यान्त्रिकं प्रारूपम्samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ |
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||
यान्त्रिकं प्रारूपम्कायशिरोग्रीवं समम् अचलं धारयन् स्थिरः, स्वं नासिकाग्रं सम्प्रेक्ष्य, दिशः च अनवलोकयन्,
- 14
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥
यान्त्रिकं प्रारूपम्praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||
यान्त्रिकं प्रारूपम्प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तः मत्परः युक्तः आसीत।
- 15
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥
यान्त्रिकं प्रारूपम्yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||
यान्त्रिकं प्रारूपम्एवं सदा आत्मानं युञ्जन् नियतमानसः योगी मत्संस्थां निर्वाणपरमां शान्तिम् अधिगच्छति।
- 16
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥
यान्त्रिकं प्रारूपम्nātyaśnatastu yogo'sti na caikāntamanaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna ||
यान्त्रिकं प्रारूपम्हे अर्जुन, अत्यश्नतः तु योगः न अस्ति, न च एकान्तम् अनश्नतः, न च अतिस्वप्नशीलस्य, न एव च जाग्रतः।
- 17
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥
यान्त्रिकं प्रारूपम्yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||
यान्त्रिकं प्रारूपम्युक्ताहारविहारस्य, कर्मसु युक्तचेष्टस्य, युक्तस्वप्नावबोधस्य योगः दुःखहा भवति।
- 18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥
यान्त्रिकं प्रारूपम्yadā viniyataṃ cittamātmanyevāvatiṣṭhate |
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||
यान्त्रिकं प्रारूपम्यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते, सर्वकामेभ्यः निःस्पृहः, तदा युक्तः इति उच्यते।
- 19
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥
यान्त्रिकं प्रारूपम्yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogamātmanaḥ ||
यान्त्रिकं प्रारूपम्यथा निवातस्थः दीपः न इङ्गते, सा उपमा योगं युञ्जतः यतचित्तस्य योगिनः आत्मनः स्मृता।
- 20
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥
यान्त्रिकं प्रारूपम्yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||
यान्त्रिकं प्रारूपम्यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति,
- 21
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥
यान्त्रिकं प्रारूपम्sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam |
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||
यान्त्रिकं प्रारूपम्यत्र बुद्धिग्राह्यम् अतीन्द्रियं यत् तत् आत्यन्तिकं सुखं वेत्ति, यत्र स्थितः च अयं तत्त्वतः न एव चलति,
- 22
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥
यान्त्रिकं प्रारूपम्yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasminsthito na duḥkhena guruṇāpi vicālyate ||
यान्त्रिकं प्रारूपम्यं च लब्ध्वा अपरं लाभं ततः अधिकं न मन्यते, यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते,
- 23
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥
यान्त्रिकं प्रारूपम्taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo'nirviṇṇacetasā ||
यान्त्रिकं प्रारूपम्तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात्। सः योगः निश्चयेन अनिर्विण्णचेतसा योक्तव्यः।
- 24
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥
यान्त्रिकं प्रारूपम्saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ||
यान्त्रिकं प्रारूपम्सङ्कल्पप्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा, मनसा एव इन्द्रियग्रामं समन्ततः विनियम्य,
- 25
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥
यान्त्रिकं प्रारूपम्śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||
यान्त्रिकं प्रारूपम्धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत्। मनः आत्मसंस्थं कृत्वा किञ्चित् अपि न चिन्तयेत्।
- 26
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥
यान्त्रिकं प्रारूपम्yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ||
यान्त्रिकं प्रारूपम्चञ्चलम् अस्थिरं मनः यतः यतः निश्चरति, ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत्।
- 27
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥
यान्त्रिकं प्रारूपम्praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||
यान्त्रिकं प्रारूपम्प्रशान्तमनसं शान्तरजसं ब्रह्मभूतम् अकल्मषम् एनं योगिनं हि उत्तमं सुखम् उपैति।
- 28
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥
यान्त्रिकं प्रारूपम्yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||
यान्त्रिकं प्रारूपम्एवं सदा आत्मानं युञ्जन् विगतकल्मषः योगी सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते।
- 29
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥
यान्त्रिकं प्रारूपम्sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ ||
यान्त्रिकं प्रारूपम्योगयुक्तात्मा सर्वत्र समदर्शनः आत्मानं सर्वभूतस्थं, सर्वभूतानि च आत्मनि ईक्षते।
- 30
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
यान्त्रिकं प्रारूपम्yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||
यान्त्रिकं प्रारूपम्यः मां सर्वत्र पश्यति, सर्वं च मयि पश्यति, तस्य अहं न प्रणश्यामि, सः च मे न प्रणश्यति।