संस्कृतम्

अध्यायः 16

दैवासुरसम्पद्विभागयोगः

२४ श्लोकाः

२४ श्लोकाः

  1. 1

    अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

    दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥

    abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ |

    dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||

    यान्त्रिकं प्रारूपम्

    श्रीभगवानुवाच। अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम्,

    यान्त्रिकं प्रारूपम्
  2. 2

    अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

    दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥

    ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |

    dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||

    यान्त्रिकं प्रारूपम्

    अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनं भूतेषु दया अलोलुप्त्वं मार्दवं ह्रीः अचापलम्,

    यान्त्रिकं प्रारूपम्
  3. 3

    तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

    भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥

    tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |

    bhavanti sampadaṃ daivīmabhijātasya bhārata ||

    यान्त्रिकं प्रारूपम्

    भारत, तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानिता, दैवीं सम्पदम् अभिजातस्य भवन्ति।

    यान्त्रिकं प्रारूपम्
  4. 4

    दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।

    अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥

    dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca |

    ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||

    यान्त्रिकं प्रारूपम्

    पार्थ, दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च अज्ञानं च आसुरीं सम्पदम् अभिजातस्य।

    यान्त्रिकं प्रारूपम्
  5. 5

    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।

    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥

    daivī sampadvimokṣāya nibandhāyāsurī matā |

    mā śucaḥ sampadaṃ daivīmabhijāto'si pāṇḍava ||

    यान्त्रिकं प्रारूपम्

    दैवी सम्पत् विमोक्षाय, आसुरी निबन्धाय मता, पाण्डव, मा शुचः, दैवीं सम्पदम् अभिजातः असि।

    यान्त्रिकं प्रारूपम्
  6. 6

    द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।

    दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श‍ृणु ॥

    dvau bhūtasargau loke'smindaiva āsura eva ca |

    daivo vistaraśaḥ prokta āsuraṃ pārtha me śa‍ṛṇu ||

    यान्त्रिकं प्रारूपम्

    पार्थ, अस्मिन् लोके द्वौ भूतसर्गौ, दैवः आसुरः एव च, दैवः विस्तरशः प्रोक्तः, आसुरं मे शृणु।

    यान्त्रिकं प्रारूपम्
  7. 7

    प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।

    न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥

    pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |

    na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||

    यान्त्रिकं प्रारूपम्

    आसुराः जनाः प्रवृत्तिं च निवृत्तिं च न विदुः, तेषु न शौचं न अपि च आचारः न सत्यं विद्यते।

    यान्त्रिकं प्रारूपम्
  8. 8

    असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

    अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥

    asatyamapratiṣṭhaṃ te jagadāhuranīśvaram |

    aparasparasambhūtaṃ kimanyatkāmahaitukam ||

    यान्त्रिकं प्रारूपम्

    ते जगत् असत्यम् अप्रतिष्ठम् अनीश्वरम् अपरस्परसम्भूतम् आहुः, कामहैतुकम् अन्यत् किम्।

    यान्त्रिकं प्रारूपम्
  9. 9

    एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

    प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥

    etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ |

    prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ||

    यान्त्रिकं प्रारूपम्

    एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति।

    यान्त्रिकं प्रारूपम्
  10. 10

    काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

    मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥

    kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ |

    mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ||

    यान्त्रिकं प्रारूपम्

    दुष्पूरं कामम् आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते।

    यान्त्रिकं प्रारूपम्
  11. 11

    चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

    कामोपभोगपरमा एतावदिति निश्चिताः ॥

    cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ |

    kāmopabhogaparamā etāvaditi niścitāḥ ||

    यान्त्रिकं प्रारूपम्

    प्रलयान्ताम् अपरिमेयां च चिन्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः,

    यान्त्रिकं प्रारूपम्
  12. 12

    आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

    ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥

    āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |

    īhante kāmabhogārthamanyāyenārthasañcayān ||

    यान्त्रिकं प्रारूपम्

    आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ईहन्ते।

    यान्त्रिकं प्रारूपम्
  13. 13

    इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।

    इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥

    idamadya mayā labdhamimaṃ prāpsye manoratham |

    idamastīdamapi me bhaviṣyati punardhanam ||

    यान्त्रिकं प्रारूपम्

    इदम् अद्य मया लब्धम्, इमं मनोरथं प्राप्स्ये, इदम् अस्ति, इदम् अपि धनं पुनः मे भविष्यति।

    यान्त्रिकं प्रारूपम्
  14. 14

    असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥

    asau mayā hataḥ śatrurhaniṣye cāparānapi |

    īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī ||

    यान्त्रिकं प्रारूपम्

    असौ शत्रुः मया हतः, अपरान् अपि च हनिष्ये, अहम् ईश्वरः, अहं भोगी, अहं सिद्धः बलवान् सुखी।

    यान्त्रिकं प्रारूपम्
  15. 15

    आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।

    यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥

    āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā |

    yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||

    यान्त्रिकं प्रारूपम्

    आढ्यः अभिजनवान् अस्मि, मया सदृशः अन्यः कः अस्ति, यक्ष्ये दास्यामि मोदिष्ये, इति अज्ञानविमोहिताः।

    यान्त्रिकं प्रारूपम्
  16. 16

    अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

    प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥

    anekacittavibhrāntā mohajālasamāvṛtāḥ |

    prasaktāḥ kāmabhogeṣu patanti narake'śucau ||

    यान्त्रिकं प्रारूपम्

    अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति।

    यान्त्रिकं प्रारूपम्
  17. 17

    आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।

    यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥

    ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |

    yajante nāmayajñaiste dambhenāvidhipūrvakam ||

    यान्त्रिकं प्रारूपम्

    आत्मसम्भाविताः स्तब्धाः धनमानमदान्विताः ते दम्भेन अविधिपूर्वकं नामयज्ञैः यजन्ते।

    यान्त्रिकं प्रारूपम्
  18. 18

    अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।

    मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥

    ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |

    māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ||

    यान्त्रिकं प्रारूपम्

    अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः अभ्यसूयकाः आत्मपरदेहेषु मां प्रद्विषन्तः,

    यान्त्रिकं प्रारूपम्
  19. 19

    तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।

    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥

    tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān |

    kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||

    यान्त्रिकं प्रारूपम्

    द्विषतः क्रूरान् अशुभान् नराधमान् तान् अहं संसारेषु आसुरीषु एव योनिषु अजस्रं क्षिपामि।

    यान्त्रिकं प्रारूपम्
  20. 20

    आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

    मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥

    āsurīṃ yonimāpannā mūḍhā janmani janmani |

    māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||

    यान्त्रिकं प्रारूपम्

    कौन्तेय, मूढाः जन्मनि जन्मनि आसुरीं योनिम् आपन्नाः माम् अप्राप्य एव ततः अधमां गतिं यान्ति।

    यान्त्रिकं प्रारूपम्
  21. 21

    त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

    कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥

    trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |

    kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||

    यान्त्रिकं प्रारूपम्

    कामः क्रोधः तथा लोभः इदं त्रिविधम् आत्मनः नाशनं नरकस्य द्वारम्, तस्मात् एतत् त्रयं त्यजेत्।

    यान्त्रिकं प्रारूपम्
  22. 22

    एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।

    आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥

    etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |

    ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||

    यान्त्रिकं प्रारूपम्

    कौन्तेय, एतैः त्रिभिः तमोद्वारैः विमुक्तः नरः आत्मनः श्रेयः आचरति, ततः परां गतिं याति।

    यान्त्रिकं प्रारूपम्
  23. 23

    यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

    न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥

    yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |

    na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||

    यान्त्रिकं प्रारूपम्

    यः शास्त्रविधिम् उत्सृज्य कामकारतः वर्तते, सः न सिद्धिम् अवाप्नोति, न सुखं, न परां गतिम्।

    यान्त्रिकं प्रारूपम्
  24. 24

    तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

    ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥

    tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |

    jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||

    यान्त्रिकं प्रारूपम्

    तस्मात् कार्याकार्यव्यवस्थितौ ते शास्त्रं प्रमाणम्, शास्त्रविधानोक्तं ज्ञात्वा इह कर्म कर्तुम् अर्हसि।

    यान्त्रिकं प्रारूपम्