225 shlokas
- 1
मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुर् उच्यते
वंशो द्विर्वेत्रो माकन्दी हरिद्रा वनजा तथा
mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate
vaṃśo dvirvetro mākandī haridrā vanajā tathā
- 2
शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकम् अथापरम्
रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः
śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam
rasono dvividhaḥ proktaḥ palāṇḍuśca dvidhā mataḥ
- 3
विंशत्येकोत्तरं मूलं शरणं द्वंद्वम् उच्यते
आलूकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः
viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate
ālūkasaptakaṃ cātha proktāścāraṇyakandakāḥ
- 4
महिषीहस्तिकोलाश्च वाराही विष्णुधारिणी
द्विधा च नाकुली माला विदारीद्वयशाल्मली
mahiṣīhastikolāśca vārāhī viṣṇudhāriṇī
dvidhā ca nākulī mālā vidārīdvayaśālmalī
- 5
चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा
मुसली द्विविधा चाथ त्रिधा गुच्छास्तथैव च
caṇḍālastailakandaśca triparṇī puṣkarastathā
musalī dvividhā cātha tridhā gucchāstathaiva ca
- 6
एषु नागकराह्वा च पत्त्रशाकम् अथोच्यते
वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकम्
eṣu nāgakarāhvā ca pattraśākam athocyate
vāstukaṃ cukrakaṃ cillī trividhaṃ śigrupattrakam
- 7
पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात्
कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली
pālakyarājaśākinyau caturdhopodakī kramāt
kuṇañjaraḥ kusumbhākhyaḥ śatāhvā patrataṇḍulī
- 8
राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता
जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा
rājikādvayacāṅgerī gholikā trividhā matā
jīvaśākastathā gaurasuvarṇākhyaḥ punarnavā
- 9
वसुकः फञ्जिकादिश्च मिश्रको ऽङ्ककराह्वयः
अतः परं च कुष्माण्डी कुम्भतुम्बी त्व् अलाबुका
vasukaḥ phañjikādiśca miśrako 'ṅkakarāhvayaḥ
ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā
- 10
भूतुम्बिका कलिङ्गश्च द्विधा कोशातकी तथा
पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका
bhūtumbikā kaliṅgaśca dvidhā kośātakī tathā
paṭolī madhurādyā ca mṛgākṣī dadhipuṣpikā
- 11
शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका
निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा
कर्कटी त्रपुसैर्वारुर्वालुकी चीनकर्कटी
śimbī ca kāravallī ca karkoṭī svādutumbikā
niṣpāvīdvayavārttākī ḍaṅgarī kharbujā tathā
karkaṭī trapusairvārurvālukī cīnakarkaṭī
- 12
चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः
वेदभेदाः क्रमान्मूलकन्दपत्त्रफलात्मकाः
cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ
vedabhedāḥ kramānmūlakandapattraphalātmakāḥ
- 13
शाकवर्गे ऽत्र कथ्यन्ते मनोहरगुणाश्रयाः
एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम्
śākavarge 'tra kathyante manoharaguṇāśrayāḥ
evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam
- 14
मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकम्
भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा
mūlakaṃ nīlakaṇṭhaṃ ca mūlāhvaṃ dīrghamūlakam
bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā
- 15
शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकम्
कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश
śaṅkhamūlaṃ haritparṇaṃ ruciraṃ dīrghakandakam
kuñjarakṣāramūlaṃ ca mūlasyaite trayodaśa
- 16
मूलकं तीक्ष्णम् उष्णं च कटूष्णं ग्राहि दीपनम्
दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु
mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam
durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru
- 17
चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकम्
स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवम्
शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम्
cāṇākhyamūlakaṃ cānyacchāleyaṃ viṣṇuguptakam
sthūlamūlaṃ mahākandaṃ kauṭilyaṃ marusambhavam
śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham
- 18
चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम्
कफवातक्रिमीन्गुल्मं नाशयेद्ग्राहकं गुरु
cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam
kaphavātakrimīngulmaṃ nāśayedgrāhakaṃ guru
- 19
गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम्
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम्
gṛñjanaṃ śikhimūlaṃ ca yavaneṣṭaṃ ca vartulam
granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam
- 20
गृञ्जनं कटुकोष्णं च कफवातरुजापहम्
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम्
gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham
rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam
- 21
पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम्
पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत्
piṇḍamūlaṃ gajāṇḍaṃ ca piṇḍakaṃ piṇḍamūlakam
piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut
- 22
सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नम्
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यात् उष्णं जीर्णं च शोषप्रदम् उदितम् इदं दाहपित्तास्रदायि
soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam
kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi
- 23
आमं संग्राहि रुच्यं कफपवनहरं पक्वम् एतत्कटूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपम्
भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेशवारेण तच्चेत्पक्वं हृद्रोगशूलप्रशमनम् उदितं शूलरुग्घारि मूलम्
āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etatkaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cetsapadi vitanute pittadāhāsrakopam
bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛdveśavāreṇa taccetpakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam
- 24
गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम्
स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम्
garjaraṃ piṅgamūlaṃ ca pītakaṃ ca sumūlakam
svādumūlaṃ supītaṃ ca nāraṅgaṃ pītamūlakam
- 25
गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम्
आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहम्
garjaraṃ madhuraṃ rucyaṃ kiṃcitkaṭu kaphāpaham
ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham
- 26
शिग्रुर्हरितशाकश्च शाकपत्त्रः सुपत्त्रकः
उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः
बहुमूलो दंशमूलस्तीक्ष्णमूलो दशाह्वयः
śigrurharitaśākaśca śākapattraḥ supattrakaḥ
upadaṃśaḥ kṣamādaṃśo jñeyaḥ komalapattrakaḥ
bahumūlo daṃśamūlastīkṣṇamūlo daśāhvayaḥ
- 27
शिग्रुश्च कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः
मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत्
śigruśca kaṭutiktoṣṇastīkṣṇo vātakaphāpahaḥ
mukhajāḍyaharo rucyo dīpano vraṇadoṣanut
- 28
शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः
मुखामोदः कृष्णशिग्रुश्चक्षुष्यो रुचिरञ्जनः
śobhāñjano nīlaśigrustīkṣṇagandho janapriyaḥ
mukhāmodaḥ kṛṣṇaśigruścakṣuṣyo rucirañjanaḥ
- 29
शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा
जन्तुवातार्तिशूलघ्नश्चक्षुष्यो रोचनः परः
śobhāñjanastīkṣṇakaṭuḥ svādūṣṇaḥ picchilastathā
jantuvātārtiśūlaghnaścakṣuṣyo rocanaḥ paraḥ
- 30
श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः
सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः
śvetaśigruḥ sutīkṣṇaḥ syānmukhabhaṅgaḥ sitāhvayaḥ
sumūlaḥ śvetamarico rocano madhuśigrukaḥ

