13 shlokas
- 1
दर्शपूर्णमासौ चातुर्मास्यान्वारम्भमाणो व्याहृतीभिर्हवींष्य् आसादयति संवत्सरे पर्यागते च
darśapūrṇamāsau cāturmāsyānvārambhamāṇo vyāhṛtībhirhavīṃṣy āsādayati saṃvatsare paryāgate ca
- 2
आहिताग्नेर्व्रतानि
āhitāgnervratāni
- 3
सूर्योढो ऽतिथिर्वसत्यै नापरुध्यः
sūryoḍho 'tithirvasatyai nāparudhyaḥ
- 4
यद्य् अपरुध्येतास्याग्निर् अनुगच्छेत्
yady aparudhyetāsyāgnir anugacchet
- 5
नर्बीसपक्वस्याश्नीयात्
narbīsapakvasyāśnīyāt
- 6
क्लिन्नमेधो नाग्नाव् आदध्यात्
klinnamedho nāgnāv ādadhyāt
- 7
नाव्य् अन्तरम् अपो नाश्नीयात्
nāvy antaram apo nāśnīyāt
- 8
स्वकृत इरिणे प्रदरे वा नावस्येन्न यजेत
svakṛta iriṇe pradare vā nāvasyenna yajeta
- 9
हिंकृत्य वाग्यतः स्त्रियं सम्भवेत्
hiṃkṛtya vāgyataḥ striyaṃ sambhavet
- 10
अहुते ऽग्निहोत्रे नाश्नीयात्
ahute 'gnihotre nāśnīyāt
- 11
न नक्तम् अन्यत्रान्नाद्दद्यात्
na naktam anyatrānnāddadyāt
- 12
पशुनानिष्ट्वा संवत्सरे न मांसम् अश्नीयात्
paśunāniṣṭvā saṃvatsare na māṃsam aśnīyāt
- 13
आदिष्टस्तु मनसाग्निभ्यः प्रहिणोमीति भक्षयति
ādiṣṭastu manasāgnibhyaḥ prahiṇomīti bhakṣayati

