Sanskrit

27 shlokas

  1. 1
  2. 2
  3. 3

    इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैर् आयुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा

    iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaścāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā

  4. 4
  5. 5
  6. 6
  7. 7

    तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति यानि हि तस्मिंस्तस्मिन्काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति

    लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं निदानेषु

    निमित्तानुरूपा तु निमित्तार्थानुकारिणी या ताम् अनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतलिङ्गानुरूपां याम् आयुषो ऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः

    यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः

    इत्युद्देशः

    तं विस्तरेणानुव्याख्यास्यामः

    tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivātlakṣaṇāni hi kāniciccharīropanibaddhāni bhavanti yāni hi tasmiṃstasminkāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti

    lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ yathoktaṃ nidāneṣu

    nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaścāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ

    yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ

    ityuddeśaḥ

    taṃ vistareṇānuvyākhyāsyāmaḥ

  8. 8
  9. 9
  10. 10
  11. 11
  12. 12
  13. 13
  14. 14
  15. 15
  16. 16
  17. 17
  18. 18
  19. 19
  20. 20
  21. 21
  22. 22
  23. 23
  24. 24
  25. 25
  26. 26
  27. 27