Charak Samhita · 5.1 5.1.3
5.1.3इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैर् आयुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा
Transliteration
iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaścāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā
By System Admin
Translation
Draft in progress