9 shlokas
- 1
जुह्वादीनां स्रुचां चतसृणाम् आयामं चतुर्विंशत्यङ्गुलं बाहुमात्रं वा
juhvādīnāṃ srucāṃ catasṛṇām āyāmaṃ caturviṃśatyaṅgulaṃ bāhumātraṃ vā
- 2
मूलेन मूलम् अग्रेणाग्रं त्वक्पार्श्वोर्ध्वबिलं च कर्तव्यं दण्डस्यायामं द्वादशाङ्गुलं मूलेनाहम् अष्टाङ्गुलम् अग्रनाहं षडङ्गुलं तदूर्ध्वे द्वादशाङ्गुलं तस्मिंस्त्र्यङ्गुलं घनं षडङ्गुलिविस्तारम् अग्रं गजस्योष्ठवद्वा बिलं निम्नम् अग्रान्तं घृतधारापातनार्थं कुल्यां च कारयेत्
mūlena mūlam agreṇāgraṃ tvakpārśvordhvabilaṃ ca kartavyaṃ daṇḍasyāyāmaṃ dvādaśāṅgulaṃ mūlenāham aṣṭāṅgulam agranāhaṃ ṣaḍaṅgulaṃ tadūrdhve dvādaśāṅgulaṃ tasmiṃstryaṅgulaṃ ghanaṃ ṣaḍaṅgulivistāram agraṃ gajasyoṣṭhavadvā bilaṃ nimnam agrāntaṃ ghṛtadhārāpātanārthaṃ kulyāṃ ca kārayet
- 3
ध्रुवाया दण्डस्योर्ध्वं चतुरङ्गुलं घनं मध्ये द्व्यङ्गुलनिम्नं चेति विशेषः
dhruvāyā daṇḍasyordhvaṃ caturaṅgulaṃ ghanaṃ madhye dvyaṅgulanimnaṃ ceti viśeṣaḥ
- 4
जुहूवदायामौ दर्शपूर्णमासाग्निहोत्रार्थौ स्रुवौ द्वयोश्च दण्डायतम् एकविंशत्यङ्गुलं तन्मूलम् अग्रं च पूर्ववद्दण्डोर्ध्वं त्र्यङ्गुलं समवृत्तं द्व्यङ्गुलं घनं नासिकवद्द्विपुटं बिलम्
juhūvadāyāmau darśapūrṇamāsāgnihotrārthau sruvau dvayośca daṇḍāyatam ekaviṃśatyaṅgulaṃ tanmūlam agraṃ ca pūrvavaddaṇḍordhvaṃ tryaṅgulaṃ samavṛttaṃ dvyaṅgulaṃ ghanaṃ nāsikavaddvipuṭaṃ bilam
- 5
तत्पुटयोर्विस्तारघननिम्नं चैकाङ्गुलम्
tatpuṭayorvistāraghananimnaṃ caikāṅgulam
- 6
एतेषां बाहुमात्रायामे ऽप्य् अविशेष ऊर्ध्वे साग्रं बिलम् एकम् एवेति विज्ञायते
eteṣāṃ bāhumātrāyāme 'py aviśeṣa ūrdhve sāgraṃ bilam ekam eveti vijñāyate
- 7
शिष्टं दण्डायामं कुर्वीत
śiṣṭaṃ daṇḍāyāmaṃ kurvīta
- 8
स्फ्यस्यायामो द्विप्रादेशः
sphyasyāyāmo dviprādeśaḥ
- 9
तस्य विस्तारघनं च द्व्यङ्गुलं हंसस्य मुखवन्मूलं खननार्थम् अग्रं कुशतीक्ष्णं च
tasya vistāraghanaṃ ca dvyaṅgulaṃ haṃsasya mukhavanmūlaṃ khananārtham agraṃ kuśatīkṣṇaṃ ca

