7 shlokas
- 1
अपि च केषांचिन्मन्त्राणाम् अशक्य एवार्थो वेदितुम्
api ca keṣāṃcinmantrāṇām aśakya evārtho veditum
- 2
यथाम्यक्सा त इन्द्र ऋष्टिर् अस्म इति
yathāmyaksā ta indra ṛṣṭir asma iti
- 3
सृण्येव जर्भरी तुर्फरीत्व् इति
sṛṇyeva jarbharī turpharītv iti
- 4
इन्द्रः सोमस्य काणुकेति च
indraḥ somasya kāṇuketi ca
- 5
एते किं प्रत्याययेयुः
ete kiṃ pratyāyayeyuḥ
- 6
उच्चारणार्थे तु न दोषः
uccāraṇārthe tu na doṣaḥ
- 7
तस्माद् उच्चारणार्था मन्त्रा इति
tasmād uccāraṇārthā mantrā iti

