27 shlokas
- 1
इति
iti
- 2
अत्र अकलुषा यस्य मतिः सो ऽयम् अकलुषमतिः
atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ
- 3
बहुव्रीहिसमासः
bahuvrīhisamāsaḥ
- 4
अत्राकारः कलुषप्रतिषेधे
atrākāraḥ kaluṣapratiṣedhe
- 5
भावकालुष्यम् एवात्र कालुष्यम्
bhāvakāluṣyam evātra kāluṣyam
- 6
कथं गम्यते
kathaṃ gamyate
- 7
प्राक्सिद्धत्वात्
prāksiddhatvāt
- 8
इह च पुरस्ताद् उक्तम्
iha ca purastād uktam
- 9
नावेक्षेन्नाभिभाषेद् इत्य् उक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते
nāvekṣennābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante
- 10
ते चोत्पन्ना मताव् अभिव्यज्यन्ते
te cotpannā matāv abhivyajyante
- 11
कालतिलकादिदर्शनवत्
kālatilakādidarśanavat
- 12
अभिव्यक्तेश्चोच्यते कलुषितो ऽहं व्याहतो ऽहं मलिनीकृतो ऽहम् इति
abhivyakteścocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti
- 13
अतो द्वेषेच्छाक्रोधनिमित्तत्वान्मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते
ato dveṣecchākrodhanimittatvānmūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate
- 14
यदा त्व् एते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम्
yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam
- 15
कलुषमतेर् इति
kaluṣamater iti
- 16
नैमित्तिकं च कलुषम्
naimittikaṃ ca kaluṣam
- 17
न च निमित्तानित्यत्वान्नैमित्तिकं नित्यं भवति
na ca nimittānityatvānnaimittikaṃ nityaṃ bhavati
- 18
बीजक्षये ऽङ्कुरवत्
bījakṣaye 'ṅkuravat
- 19
न च यत्रैव कलुषम् उत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि
na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni
- 20
आयतने तु कर्तव्यानि
āyatane tu kartavyāni
- 21
अथापि कलुषम् उत्पन्नं प्रध्वस्तं स्यात्तथापि तदर्थं न कर्तव्यानि
athāpi kaluṣam utpannaṃ pradhvastaṃ syāttathāpi tadarthaṃ na kartavyāni
- 22
यदा तु तद् अवस्थितं सम्भवति शिरोरोगादिवत्तदा कर्तव्यानि
yadā tu tad avasthitaṃ sambhavati śirorogādivattadā kartavyāni
- 23
अत्र मतिर् इति बुद्धिर् इत्य् अनर्थान्तरम्
atra matir iti buddhir ity anarthāntaram
- 24
अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्य् अर्थः
atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ
- 25
आह अकलुषमतिना साधकेन किं कर्तव्यम्
āha akaluṣamatinā sādhakena kiṃ kartavyam
- 26
तद् उच्यते चरितव्यम्
tad ucyate caritavyam
- 27
यस्माद् आह
yasmād āha

