10 shlokas
- 1
अथ प्रत्यवरोहणम्
atha pratyavarohaṇam
- 2
वसन्तादौ मधुश्च माधवश्च इति हुत्वा वासन्तिकैर् अलङ्कारैर् अलंकृत्य वासन्तिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
vasantādau madhuśca mādhavaśca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 3
अथ ग्रीष्मादौ शुक्रश्च शुचिश्च इति हुत्वा ग्रैष्मिकैर् अलंकारैर् अलंकृत्य ग्रैष्मिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
atha grīṣmādau śukraśca śuciśca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 4
अथ वर्षादौ नभश्च नभस्यश्च इति हुत्वा वार्षिकैर् अलङ्कारैर् अलंकृत्य वार्षिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
atha varṣādau nabhaśca nabhasyaśca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 5
अथ शरदादौ इषश्चोर्जश्च इति हुत्वा शारदिकैर् अलङ्कारैर् अलंकृत्य शारदिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
atha śaradādau iṣaścorjaśca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 6
अथ हेमन्तादौ सहश्च सहस्यश्च इति हुत्वा हैमन्तिकैर् अलङ्कारैर् अलंकृत्य हैमन्तिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
atha hemantādau sahaśca sahasyaśca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 7
अथ शिशिरादौ तपश्च तपस्यश्च इति हुत्वा शैशिरिकैर् अलङ्कारैर् अलंकृत्य शैशिरिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
atha śiśirādau tapaśca tapasyaśca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 8
अथाधिमासे संसर्पो ऽस्य् अंहस्पत्याय त्वा इति हुत्वा चैत्रिकैर् अलंकारैर् अलंकृत्य चैत्रिकान्य् अन्नानि ब्राह्मणेभ्यो दत्त्वान्नशेषान्सगणः प्राश्नाति
athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣānsagaṇaḥ prāśnāti
- 9
स एष आघारवान्वा स्याद् आग्निहोत्रिको वाप्य् आपूर्विको वा
sa eṣa āghāravānvā syād āgnihotriko vāpy āpūrviko vā
- 10
प्रत्यवरोहणं व्याख्यातम्
pratyavarohaṇaṃ vyākhyātam

