4 shlokas
- 1
अत एव हि विभक्तिव्यत्यये ऽपि प्रत्ययो भवति
ata eva hi vibhaktivyatyaye 'pi pratyayo bhavati
- 2
अश्मकैर् आगच्छामीत्य् अश्मकशब्दैकदेश उपलब्धे ऽश्मकेभ्य इत्य् एव शब्दः स्मर्यते
aśmakair āgacchāmīty aśmakaśabdaikadeśa upalabdhe 'śmakebhya ity eva śabdaḥ smaryate
- 3
ततो ऽश्मकेभ्य इत्य् एषो ऽर्थ उपलभ्यत इति
tato 'śmakebhya ity eṣo 'rtha upalabhyata iti
- 4
एवं गाव्यादिदर्शनाद्गोशब्दस्मरणं ततः सास्नादिमान् अवगम्यते
evaṃ gāvyādidarśanādgośabdasmaraṇaṃ tataḥ sāsnādimān avagamyate

