6 shlokas
- 1
कथं पुनस्तत्र तत्त्वं शक्यं विज्ञातुम्
kathaṃ punastatra tattvaṃ śakyaṃ vijñātum
- 2
शक्यम् इत्य् आह
śakyam ity āha
- 3
अर्थिनो ह्य् अभियुक्ता भवन्ति
arthino hy abhiyuktā bhavanti
- 4
दृश्यते चाभियुक्तानां गुणयताम् अविस्मरणम् उपपन्नम्
dṛśyate cābhiyuktānāṃ guṇayatām avismaraṇam upapannam
- 5
प्रत्यक्षं चैतद्गुण्यमानं न भ्रश्यत इति
pratyakṣaṃ caitadguṇyamānaṃ na bhraśyata iti
- 6
तस्माद्यम् अभियुक्ता उपदिशन्त्य् एष एव साधुर् इत्य् अवगन्तव्यः
tasmādyam abhiyuktā upadiśanty eṣa eva sādhur ity avagantavyaḥ

