7 shlokas
- 1
अथ यद् उक्तम् अर्थो ऽवगम्यते गाव्यादिभ्यो ऽत एषाम् अप्य् अनाद्यर्थेन संबन्ध इति
atha yad uktam artho 'vagamyate gāvyādibhyo 'ta eṣām apy anādyarthena saṃbandha iti
- 2
तदशक्तिर् एषां गम्यते
tadaśaktir eṣāṃ gamyate
- 3
गोशब्दम् उच्चारयितुकामेन केनचिद् अशक्त्या गावीत्य् उच्चारितम्
gośabdam uccārayitukāmena kenacid aśaktyā gāvīty uccāritam
- 4
अपरेण ज्ञातं सास्नादिमान् अस्य विवक्षितस्तदर्थं गौर् इत्य् उच्चारयितुकामो गावीत्य् उच्चारयति
apareṇa jñātaṃ sāsnādimān asya vivakṣitastadarthaṃ gaur ity uccārayitukāmo gāvīty uccārayati
- 5
ततः शिक्षित्वापरे ऽपि सास्नादिम् इति विवक्षिते गावीत्य् उच्चारयन्ति
tataḥ śikṣitvāpare 'pi sāsnādim iti vivakṣite gāvīty uccārayanti
- 6
तेन गाव्यादिभ्यः सास्नादिमान् अवगम्यते
tena gāvyādibhyaḥ sāsnādimān avagamyate
- 7
अनुरूपो हि गाव्यादिगोशब्दस्य
anurūpo hi gāvyādigośabdasya

