55 shlokas
- 1
अथोपरमम्
athoparamam
- 2
उत्पातेष्व् आकालम्
utpāteṣv ākālam
- 3
अन्येष्व् अद्भुतेषु च
anyeṣv adbhuteṣu ca
- 4
विद्युत्स्तनयित्नुवर्षासु त्रिसंध्यम्
vidyutstanayitnuvarṣāsu trisaṃdhyam
- 5
एकाहं श्राद्धभोजने
ekāhaṃ śrāddhabhojane
- 6
दशाहम् अघसूतकेषु च
daśāham aghasūtakeṣu ca
- 7
चतुर्दश्यमावास्ययोर् अष्टकासु च
caturdaśyamāvāsyayor aṣṭakāsu ca
- 8
वासरेषु नभ्येषु च
vāsareṣu nabhyeṣu ca
- 9
आचार्ये चोपरते दशाहम्
ācārye coparate daśāham
- 10
श्रुत्वा त्रिरात्रम्
śrutvā trirātram
- 11
तत्पूर्वाणां च
tatpūrvāṇāṃ ca
- 12
प्रतिग्रहे श्राद्धवत्
pratigrahe śrāddhavat
- 13
सब्रह्मचारिणि
sabrahmacāriṇi
- 14
प्रेतम् अनुगत्वा
pretam anugatvā
- 15
पितृभ्यश्च निधाय पिण्डान्
pitṛbhyaśca nidhāya piṇḍān
- 16
निशाम्
niśām
- 17
संध्याम्
saṃdhyām
- 18
पर्वसु
parvasu
- 19
अस्तमिते
astamite
- 20
शूद्रसंनिकर्षे
śūdrasaṃnikarṣe
- 21
सामशब्दे
sāmaśabde
- 22
श्मशाने
śmaśāne
- 23
ग्रामारण्ये
grāmāraṇye
- 24
अन्तःशवे ग्रामे
antaḥśave grāme
- 25
अदर्शनीयात्
adarśanīyāt
- 26
अश्रवणीयात्
aśravaṇīyāt
- 27
अनिष्टघ्राणे
aniṣṭaghrāṇe
- 28
अतिवाते
ativāte
- 29
अभ्रे प्रावर्षिणि
abhre prāvarṣiṇi
- 30
रथ्यायाम्
rathyāyām

