13 shlokas
- 1
मासि मासि पितृभ्यो दद्यात्
māsi māsi pitṛbhyo dadyāt
- 2
ब्राह्मणान्वेदविदो ऽयुग्मांस्त्र्यवरार्धान्पितृवद् उपवेश्य
brāhmaṇānvedavido 'yugmāṃstryavarārdhānpitṛvad upaveśya
- 3
अयुग्मान्य् उदपात्राणि तिलैर् अवकीर्य
ayugmāny udapātrāṇi tilair avakīrya
- 4
असाव् एतत्त इत्य् अनुदिश्य ब्राह्मणानां पाणिषु निनयेत्
asāv etatta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet
- 5
अत ऊर्ध्वम् अलंकृतान्
ata ūrdhvam alaṃkṛtān
- 6
आमन्त्र्याग्नौ कृत्वान्नं च
āmantryāgnau kṛtvānnaṃ ca
- 7
असाव् एतत्त इत्य् अनुदिश्य भोजयेत्
asāv etatta ity anudiśya bhojayet
- 8
भुञ्जानेषु महाव्याहृतीः सावित्रीं मधुवातीयाः पितृदेवत्याः पावमानीश्च जपेत्
bhuñjāneṣu mahāvyāhṛtīḥ sāvitrīṃ madhuvātīyāḥ pitṛdevatyāḥ pāvamānīśca japet
- 9
भुक्तवत्सु पिण्डान्दद्यात्
bhuktavatsu piṇḍāndadyāt
- 10
पुरस्ताद् एके
purastād eke
- 11
पिण्डान्पश्चिमेन तत्पत्नीनां किंचिद् अन्तर्धाय
piṇḍānpaścimena tatpatnīnāṃ kiṃcid antardhāya
- 12
ब्राह्मणेभ्यः शेषं निवेदयेत्
brāhmaṇebhyaḥ śeṣaṃ nivedayet
- 13
अग्नौकरणादि पिण्डपितृयज्ञेन कल्पो व्याख्यातः
agnaukaraṇādi piṇḍapitṛyajñena kalpo vyākhyātaḥ

