32 shlokas
- 1
अहरहर् आचार्यायाभिवादयेत
aharahar ācāryāyābhivādayeta
- 2
गुरुभ्यश्च
gurubhyaśca
- 3
समेत्य श्रोत्रियस्य
sametya śrotriyasya
- 4
प्रोष्य प्रत्येत्याश्रोत्रियस्य
proṣya pratyetyāśrotriyasya
- 5
असाव् अहं भो ३ इत्य् आत्मनो नामादिश्य व्यत्यस्य पाणी
asāv ahaṃ bho 3 ity ātmano nāmādiśya vyatyasya pāṇī
- 6
असौ इत्य् अस्य पाणी संगृह्याशिषम् आशास्ते
asau ity asya pāṇī saṃgṛhyāśiṣam āśāste
- 7
नावृतो यज्ञं गच्छेत्
nāvṛto yajñaṃ gacchet
- 8
अधर्माच्च जुगुप्सेत
adharmācca jugupseta
- 9
न जनसमवायं गच्छेत्
na janasamavāyaṃ gacchet
- 10
नोपर्य् उद्दिशेत्समेत्य
nopary uddiśetsametya
- 11
अनाक्रोशको ऽपिशुनः कुलंकुलो नेतिहेतिः स्यात्
anākrośako 'piśunaḥ kulaṃkulo netihetiḥ syāt
- 12
नैकश्चरेत्
naikaścaret
- 13
न नग्नः
na nagnaḥ
- 14
नापिहितपाणिः
nāpihitapāṇiḥ
- 15
देवायतनानि प्रदक्षिणम्
devāyatanāni pradakṣiṇam
- 16
न धावेत्
na dhāvet
- 17
न निष्ठीवेत्
na niṣṭhīvet
- 18
न कण्डूयेत्
na kaṇḍūyet
- 19
मूत्रपुरीषे नावेक्षेत
mūtrapurīṣe nāvekṣeta
- 20
अवगुण्ठ्यासीत
avaguṇṭhyāsīta
- 21
नानन्तर्हितायाम्
nānantarhitāyām
- 22
यद्य् एकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा
yady ekavastro yajñopavītaṃ karṇe kṛtvā
- 23
नादित्यम् अभिमुखः
nādityam abhimukhaḥ
- 24
न जघनेन
na jaghanena
- 25
अहर् उदङ्मुखो नक्तं दक्षिणामुखः
ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ
- 26
न चाप्सु श्लेष्म न च समीपे
na cāpsu śleṣma na ca samīpe
- 27
न वृक्षम् आरोहेत्
na vṛkṣam ārohet
- 28
न कूपम् अवेक्षेत
na kūpam avekṣeta
- 29
न धुवनं गच्छेत्
na dhuvanaṃ gacchet
- 30
न त्व् एव तु श्मशानम्
na tv eva tu śmaśānam

