25 shlokas
- 1
न नग्नां स्त्रियम् ईक्षेतान्यत्र मैथुनात्
na nagnāṃ striyam īkṣetānyatra maithunāt
- 2
नादित्यं संधिवेलयोः
nādityaṃ saṃdhivelayoḥ
- 3
अनाप्तम्
anāptam
- 4
अकार्यकारिणम्
akāryakāriṇam
- 5
प्रेतस्पर्शिनम्
pretasparśinam
- 6
सूतिकोदक्याभ्यां न संवदेत्
sūtikodakyābhyāṃ na saṃvadet
- 7
एतैश्च
etaiśca
- 8
उद्धृततेजांसि न भुञ्जीत
uddhṛtatejāṃsi na bhuñjīta
- 9
न यातयामैः कार्यं कुर्यात्
na yātayāmaiḥ kāryaṃ kuryāt
- 10
न सह भुञ्जीत
na saha bhuñjīta
- 11
न शेषम्
na śeṣam
- 12
पितृदेवतातिथिभृत्यानां शेषं भुञ्जीत
pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta
- 13
उञ्छशिलम् अयाचितप्रतिग्रहः साधुभ्यो याचितो वा याजनं वृत्तिः
uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ
- 14
पूर्वं पूर्वं गरीयः
pūrvaṃ pūrvaṃ garīyaḥ
- 15
असंसिध्यमानायां वैश्यवृत्तिर्वा
asaṃsidhyamānāyāṃ vaiśyavṛttirvā
- 16
अप्रमत्तः पितृदैवतकार्येषु
apramattaḥ pitṛdaivatakāryeṣu
- 17
ऋतौ स्वदारगामी
ṛtau svadāragāmī
- 18
न दिवा शयीत
na divā śayīta
- 19
न पूर्वापररात्रौ
na pūrvāpararātrau
- 20
न भूमाव् अनन्तर्हितायाम् आसीत
na bhūmāv anantarhitāyām āsīta
- 21
नित्योदकी
nityodakī
- 22
यज्ञोपवीती
yajñopavītī
- 23
न विरहयेद् आचार्यम्
na virahayed ācāryam
- 24
अन्यत्र नियोगात्
anyatra niyogāt
- 25
अनुज्ञातो वा
anujñāto vā

