3 shlokas
- 1
अरण्ये समित्पाणिः संध्याम् आस्ते नित्यं वाग्यत उत्तरापराभिमुखो ऽन्वष्टमदेशम् आ नक्षत्राणां दर्शनात्
araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt
- 2
अतिक्रान्तायां महाव्याहृतीः सावित्रीं स्वस्त्ययनानि च जपित्वा
atikrāntāyāṃ mahāvyāhṛtīḥ sāvitrīṃ svastyayanāni ca japitvā
- 3
एवं प्रातः प्राङ्मुखस्तिष्ठन्न् आ मण्डलदर्शनात्
evaṃ prātaḥ prāṅmukhastiṣṭhann ā maṇḍaladarśanāt

