11 shlokas
- 1
षण्णां चेद् अर्घ्याणाम् अन्यतम आगच्छेद्गोपशुम् अजम् अन्नं वा यत्सामान्यतमं मन्येत तत्कुर्यात्
ṣaṇṇāṃ ced arghyāṇām anyatama āgacchedgopaśum ajam annaṃ vā yatsāmānyatamaṃ manyeta tatkuryāt
- 2
नामांसो ऽर्घः स्यात्
nāmāṃso 'rghaḥ syāt
- 3
अधियज्ञम् अधिविवाहं कुरुतेत्य् एव ब्रूयात्
adhiyajñam adhivivāhaṃ kurutety eva brūyāt
- 4
आचार्यायाग्नेयः
ācāryāyāgneyaḥ
- 5
ऋत्विजे बार्हस्पत्यः
ṛtvije bārhaspatyaḥ
- 6
वैवाह्याय प्राजापत्यः
vaivāhyāya prājāpatyaḥ
- 7
राज्ञ ऐन्द्रः
rājña aindraḥ
- 8
प्रियाय मैत्रः
priyāya maitraḥ
- 9
स्नातकायैन्द्राग्नः
snātakāyaindrāgnaḥ
- 10
यद्य् अप्य् असकृत्संवत्सरस्य सोमेन यजेत कृतार्घ्या एवैनं याजयेयुर्नाकृतार्घ्याः
yady apy asakṛtsaṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyurnākṛtārghyāḥ
- 11
तद् अपि भवति
tad api bhavati

