12 shlokas
- 1
चर्ममयसंहतानि वस्त्राणि शाकमूलफलानि च प्रोक्षयेद् अल्पानि चालयेत्
carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed alpāni cālayet
- 2
घृतादीनि द्रव्याण्य् उत्पूयोल्कया दर्शयेत्
ghṛtādīni dravyāṇy utpūyolkayā darśayet
- 3
कौशेयाविकान्य् ऊषैर् अंशुतट्टानि श्रीफलैः शङ्खशुक्तिगोशृङ्गाणि सर्षपैः सवारिभिर्मृन्मयानि पुनर्दाहेन गृहं मार्जनोपलेपनाप्सेकैर्भूमिं खननाद् अन्यमृत्पूरणगोवासकाद्यैर्मार्जनाद्यैश्च शोधयेत्
kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhirmṛnmayāni punardāhena gṛhaṃ mārjanopalepanāpsekairbhūmiṃ khananād anyamṛtpūraṇagovāsakādyairmārjanādyaiśca śodhayet
- 4
गोतृप्तिकरं भूगतं तोयं दोषविहीनं सुपूतम्
gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtam
- 5
वाक्शस्तं वारिनिर्णिक्तम् अदृष्टम्
vākśastaṃ vārinirṇiktam adṛṣṭam
- 6
योषिदास्यं कारुहस्तः प्रसारितपण्यं च सर्वदा शुद्धम्
yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddham
- 7
शकुन्युच्छिष्टं फलम् अनिन्द्यम्
śakunyucchiṣṭaṃ phalam anindyam
- 8
मशकमक्षिकानिलीनं तद्विप्रुषश्च न दूष्याणि
maśakamakṣikānilīnaṃ tadvipruṣaśca na dūṣyāṇi
- 9
वाय्वग्निसूर्यरश्मिभिः स्पृष्टं च मेध्यम्
vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam
- 10
आतुरे बाले पचनालये च शौचं न विचारणीयं यथाशक्ति स्यात्
āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syāt
- 11
विण्मूत्राभ्यां बह्वापो न दूष्याः
viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ
- 12
परस्याचामतस्तोयबिन्दुभिर्भूमौ निपत्योद्गतैः पादस्पृष्टैर् आचामयन्नाशुचिः स्यात्
parasyācāmatastoyabindubhirbhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayannāśuciḥ syāt

