15 shlokas
- 1
स्नातकराजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां देयः
snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyaḥ
- 2
वातार्करश्मिभिः पन्थानः शुध्यन्ति
vātārkaraśmibhiḥ panthānaḥ śudhyanti
- 3
परस्यासनशयनान्य् अदत्तानि नोपयुञ्जीत
parasyāsanaśayanāny adattāni nopayuñjīta
- 4
अदत्तेषूपयुक्तेषु स्वपुण्यचतुर्थांशो जहाति
adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti
- 5
अन्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणि नैव धारयेत्
anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayet
- 6
अग्नौ पादं न तापयेन्नैनं मुखेन धमेन्न पादेन स्पृशेद् अधः पादतो न कुर्यात्
agnau pādaṃ na tāpayennainaṃ mukhena dhamenna pādena spṛśed adhaḥ pādato na kuryāt
- 7
अग्नाव् अग्निं जलं वा देवालये ऽग्नौ जले च मूत्रपुरीषपूयशोणितरेतःश्लेष्मोच्छिष्टाङ्गनिष्पेषान्न प्रक्षिपेत्
agnāv agniṃ jalaṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣānna prakṣipet
- 8
नग्नां परस्त्रियं विण्मूत्रे च न पश्येत्
nagnāṃ parastriyaṃ viṇmūtre ca na paśyet
- 9
उच्छिष्टो देवार्कचन्द्रग्रहर्क्षतारा नेक्षेत
ucchiṣṭo devārkacandragraharkṣatārā nekṣeta
- 10
देवगुरुस्नातकदीक्षितराजगोश्रेष्ठानां छायां नाक्रमति
devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati
- 11
इन्द्रधनुः परस्मै न दर्शयेन्न वदेत्
indradhanuḥ parasmai na darśayenna vadet
- 12
स्वपन्तं नावबोधयेत्
svapantaṃ nāvabodhayet
- 13
एको ऽध्वानं न गच्छेत्
eko 'dhvānaṃ na gacchet
- 14
परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च न वारयेत्
parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayet
- 15
जीर्णमलवासा न स्यात्
jīrṇamalavāsā na syāt

