30 shlokas
- 1
त्रिपदा गायत्री
tripadā gāyatrī
- 2
उष्णिक्
uṣṇik
- 3
पुरौष्णिक्
purauṣṇik
- 4
ककुप्
kakup
- 5
विराट्च पूर्वा
virāṭca pūrvā
- 6
चतुष्पदोत्तरा विराट्
catuṣpadottarā virāṭ
- 7
बृहती
bṛhatī
- 8
सतोबृहती
satobṛhatī
- 9
जगती
jagatī
- 10
अनुष्टुप्
anuṣṭup
- 11
त्रिष्टुप्च
triṣṭupca
- 12
पञ्च पङ्क्तेः
pañca paṅkteḥ
- 13
षट्सप्तेत्य् अतिच्छन्दसाम्
ṣaṭsaptety aticchandasām
- 14
स हि शर्धो न मारुतम् इत्य् अष्टौ
sa hi śardho na mārutam ity aṣṭau
- 15
द्वौ द्विपदायाः
dvau dvipadāyāḥ
- 16
ते ऽष्टाक्षराः प्रायेण
te 'ṣṭākṣarāḥ prāyeṇa
- 17
द्वादशाक्षरा जगत्याः
dvādaśākṣarā jagatyāḥ
- 18
तृतीयौ चोष्णिग्बृहत्योः
tṛtīyau coṣṇigbṛhatyoḥ
- 19
सतोबृहत्याश्च प्रथमतृतीयौ
satobṛhatyāśca prathamatṛtīyau
- 20
मध्यमः ककुभः
madhyamaḥ kakubhaḥ
- 21
प्रथमः पुरौष्णिहः
prathamaḥ purauṣṇihaḥ
- 22
एकादशाक्षरास्त्रिष्टुब्विराजोः
ekādaśākṣarāstriṣṭubvirājoḥ
- 23
उत्तरस्या दशाक्षराः
uttarasyā daśākṣarāḥ
- 24
ताम् अक्षरपङ्क्तिर् इत्य् अप्य् आचक्षते
tām akṣarapaṅktir ity apy ācakṣate
- 25
पञ्चभिः पञ्चाक्षरैः पदपङ्क्तिः
pañcabhiḥ pañcākṣaraiḥ padapaṅktiḥ
- 26
षड् अप्य् अष्टाक्षरा जगत्याः
ṣaḍ apy aṣṭākṣarā jagatyāḥ
- 27
एकेन द्वाभ्याम् इत्य् ऊनके निचृत्
ekena dvābhyām ity ūnake nicṛt
- 28
अतिरिक्ते भुरिक्
atirikte bhurik
- 29
संपाद्यपादभागेनाहार्यस्यर्चः संमितास्तस्य पादभागेन सम्पन्नाः
saṃpādyapādabhāgenāhāryasyarcaḥ saṃmitāstasya pādabhāgena sampannāḥ
- 30
गायत्र्युष्णिहाव् अनुष्टुब्बृहत्यौ पङ्क्तिश्च त्रिष्टुब्जगत्याव् इत्य् आनुपूर्व्यं छन्दसां चतुर्विंशत्यक्षरादीनां चतुरुत्तराणां चतुरुत्तराणाम्
gāyatryuṣṇihāv anuṣṭubbṛhatyau paṅktiśca triṣṭubjagatyāv ity ānupūrvyaṃ chandasāṃ caturviṃśatyakṣarādīnāṃ caturuttarāṇāṃ caturuttarāṇām

