5 shlokas
- 1
अथ यः कामयेत पुनर्न प्रत्याजायेयम् इति
atha yaḥ kāmayeta punarna pratyājāyeyam iti
- 2
रात्रिं प्रपद्ये पुनर्भूं मयोभूं कन्यां शिखण्डिनीं पाशहस्तां युवतिं कुमारिणीम् आदित्यश्चक्षुषे वातः प्राणाय सोमो गन्धायापः स्नेहाय मनो ऽनुज्ञाय पृथिव्यै शरीरम्
rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaścakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram
- 3
सा हैनम् उवाचास्मिन्त्संवत्सरे मरिष्यस्य् अस्मिन्न् अयने ऽस्मिन्न् ऋताव् अस्मिन्मासे ऽस्मिन्न् अर्द्धमासे ऽस्मिन्द्वादशरात्रे ऽस्मिन्षड्रात्रे ऽस्मिंस्त्रिरात्रे ऽस्मिन्द्विरात्रे ऽस्मिन्न् अहोरात्रे ऽस्मिन्न् अहन्य् अस्यां रात्राव् अस्यां वेलायाम् अस्मिन्मुहूर्ते मरिष्यस्य् एहि स्वर्गं लोकं गच्छ देवलोकं वा ब्रह्मलोकं वा क्षत्रलोकं वा विरोचमानस्तिष्ठ विरोचमानाम् एहि योनिं प्रविश
sā hainam uvācāsmintsaṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asminmāse 'sminn arddhamāse 'smindvādaśarātre 'sminṣaḍrātre 'smiṃstrirātre 'smindvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asminmuhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānastiṣṭha virocamānām ehi yoniṃ praviśa
- 4
नाहं योनिं प्रवेक्ष्यामि भूतोत्तमाया ब्रह्मणो दुहितुः संरागवस्त्राया जायते म्रियते संधीयते च
nāhaṃ yoniṃ pravekṣyāmi bhūtottamāyā brahmaṇo duhituḥ saṃrāgavastrāyā jāyate mriyate saṃdhīyate ca
- 5
रात्रिस्तु मा पुनातु रात्रिः खम् एतत्पुष्पान्तं यत्पुराणम् आकाशं तत्र मे स्थानं कुर्व् अपुनर्भवायापुनर्जन्मन एतावद् एव रात्रौ रात्रेर्व्रतं च रात्रेर्व्रतं च
rātristu mā punātu rātriḥ kham etatpuṣpāntaṃ yatpurāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrervrataṃ ca rātrervrataṃ ca

