11 shlokas
- 1
तद् इति दृक्क्रियाशक्त्योर्ग्रहणम्
tad iti dṛkkriyāśaktyorgrahaṇam
- 2
न इत्यात्मापदेशे
na ityātmāpadeśe
- 3
अस्माकमित्यर्थः
asmākamityarthaḥ
- 4
रुद्र इति कारणापदेशे
rudra iti kāraṇāpadeśe
- 5
रुद्रस्य रुद्रत्वं पूर्वोक्तम्
rudrasya rudratvaṃ pūrvoktam
- 6
प्र इत्यादिकर्मणि
pra ityādikarmaṇi
- 7
चुद प्रेरणे
cuda preraṇe
- 8
चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः
codanaṃ nāma jñānakriyāśaktisaṃyogaḥ
- 9
याद् इति लिप्सा
yād iti lipsā
- 10
संयोजयस्व मामित्यर्थः
saṃyojayasva māmityarthaḥ
- 11
उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनम् आहुर् आचार्याः
uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ

